२. गद्रभसुत्तवण्णना
८३. दुतिये पिट्ठितो पिट्ठितोति पच्छतो पच्छतो. अहम्पि दम्मो अहम्पि दम्मोति अहम्पि ‘‘दम्मो दम्ममानो’’ति वदमानो गावीति. सेय्यथापि गुन्नन्ति यथा गावीनं. गावो हि काळापि रत्तापि सेतादिवण्णापि होन्ति, गद्रभस्स पन तादिसो वण्णो नाम नत्थि. यथा च वण्णो, एवं सरोपि पदम्पि अञ्ञादिसमेव. सेसं उत्तानत्थमेव. इमस्मिम्पि सुत्ते तिस्सो सिक्खा मिस्सिकाव कथिताति.