३. वेनागपुरसुत्तवण्णना

६४. ततिये कोसलेसूति एवंनामके जनपदे. चारिकं चरमानोति अद्धानगमनं गच्छन्तो. चारिका च नामेसा भगवतो दुविधा होति तुरितचारिका च अतुरितचारिका चाति. तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम. सा महाकस्सपपच्चुग्गमनादीसु दट्ठब्बा. यं पन गामनिगमपटिपाटिया देवसिकं योजनअद्धयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम. इमं सन्धायेतं वुत्तं – ‘‘चारिकं चरमानो’’ति. वित्थारेन पन चारिकाकथा सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय अम्बट्ठसुत्तवण्णनायं (दी. नि. अट्ठ. १.२५४) वुत्ता. ब्राह्मणगामोति ब्राह्मणानं समोसरणगामोपि ब्राह्मणगामोति वुच्चति, ब्राह्मणानं भोगगामोपि. इध समोसरणगामो ब्राह्मणवसनगामोति अधिप्पेतो. तदवसरीति तत्थ अवसरि, सम्पत्तोति अत्थो. विहारो पनेत्थ अनियामितो. तस्मा तस्स अविदूरे बुद्धानं अनुच्छविको एको वनसण्डो अत्थि, सत्था तं वनसण्डं गतोति वेदितब्बो.

अस्सोसुन्ति सुणिंसु उपलभिंसु, सोतद्वारसम्पत्तवचननिग्घोसानुसारेन जानिंसु. खोति अवधारणत्थे, पदपूरणमत्ते वा निपातो. तत्थ अवधारणत्थेन ‘‘अस्सोसुं एव, न तेसं कोचि सवनन्तरायो अहोसी’’ति अयमत्थो वेदितब्बो. पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेव.

इदानि यमत्थं अस्सोसुं, तं पकासेतुं समणो खलु, भो, गोतमोतिआदि वुत्तं. तत्थ समितपापत्ता समणोति वेदितब्बो. खलूति अनुस्सवत्थे निपातो. भोति तेसं अञ्ञमञ्ञं आलपनमत्तं. गोतमोति भगवतो गोत्तवसेन परिदीपनं, तस्मा ‘‘समणो खलु, भो, गोतमो’’ति एत्थ समणो किर, भो, गोतमगोत्तोति एवमत्थो दट्ठब्बो. सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनं. सक्यकुला पब्बजितोति सद्धापब्बजितभावपरिदीपनं, केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय सद्धाय पब्बजितोति वुत्तं होति. तं खो पनाति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भोतो गोतमस्साति अत्थो. कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति. कित्तिसद्दोति कित्तियेव, थुतिघोसो वा. अब्भुग्गतोति सदेवकं लोकं अज्झोत्थरित्वा उग्गतो. किन्ति? इतिपि सो भगवा…पे… बुद्धो भगवाति. तत्रायं पदसम्बन्धो – सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवाति. इमिना च इमिना च कारणेनाति वुत्तं होति.

तत्थ ‘‘आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि कारणेहि सो भगवा अरहन्ति वेदितब्बो’’तिआदिना नयेन मातिकं निक्खिपित्वा सब्बानेव एतानि पदानि विसुद्धिमग्गे (विसुद्धि. १.१२५-१२७) बुद्धानुस्सतिनिद्देसे वित्थारितानीति ततो नेसं वित्थारो गहेतब्बो.

सो इमं लोकन्ति सो भवं गोतमो इमं लोकं, इदानि वत्तब्बं निदस्सेति. सदेवकन्ति सह देवेहि सदेवकं. एवं सह मारेन समारकं. सह ब्रह्मुना सब्रह्मकं. सह समणब्राह्मणेहि सस्समणब्राह्मणिं. पजातत्ता पजा, तं पजं. सह देवमनुस्सेहि सदेवमनुस्सं. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं वेदितब्बं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं, सस्समणब्राह्मणिवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं, समितपापबाहितपापसमणब्राह्मणग्गहणञ्च, पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको, द्वीहि पजावसेन सत्तलोकोव गहितोति वेदितब्बो.

अपरो नयो – सदेवकग्गहणेन अरूपावचरलोको गहितो, समारकग्गहणेन छकामावचरदेवलोको, सब्रह्मकग्गहणेन रूपीब्रह्मलोको, सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन, सम्मुतिदेवेहि वा सह मनुस्सलोको, अवसेससब्बसत्तलोको वा. पोराणा पनाहु – सदेवकन्ति देवताहि सद्धिं अवसेसलोकं. समारकन्ति मारेन सद्धिं अवसेसलोकं. सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसलोकं. एवं सब्बेपि तिभवूपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपित्वा पुन द्वीहि पदेहि परियादातुं सस्समणब्राह्मणिं पजं सदेवमनुस्सन्ति वुत्तं. एवं पञ्चहि पदेहि तेन तेनाकारेन तेधातुकमेव परियादिन्नन्ति.

सयं अभिञ्ञा सच्छिकत्वा पवेदेतीति सयन्ति सामं, अपरनेय्यो हुत्वा. अभिञ्ञाति अभिञ्ञाय, अधिकेन ञाणेन ञत्वाति अत्थो. सच्छिकत्वाति पच्चक्खं कत्वा, एतेन अनुमानादिपटिक्खेपो कतो. पवेदेतीति बोधेति ञापेति पकासेति.

सो धम्मं देसेति आदिकल्याणं…पे… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति. तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति, आदिम्हिपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेति, मज्झेपि, परियोसानेपि कल्याणं भद्दकं अनवज्जमेव कत्वा देसेतीति वुत्तं होति.

तत्थ अत्थि देसनाय आदिमज्झपरियोसानं, अत्थि सासनस्स. देसनाय ताव चतुप्पदिकायपि गाथाय पठमपादो आदि नाम, ततो द्वे मज्झं नाम, अन्ते एको परियोसानं नाम. एकानुसन्धिकस्स सुत्तस्स निदानं आदि, इदमवोचाति परियोसानं, उभिन्नं अन्तरा मज्झं. अनेकानुसन्धिकस्स सुत्तस्स पठमानुसन्धि आदि, अन्ते अनुसन्धि परियोसानं, मज्झे एको वा द्वे वा बहू वा मज्झमेव.

सासनस्स सीलसमाधिविपस्सना आदि नाम. वुत्तम्पि चेतं – ‘‘को चादि कुसलानं धम्मानं, सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३६९). ‘‘अत्थि, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा’’ति एवं वुत्तो पन अरियमग्गो मज्झं नाम. फलञ्चेव निब्बानञ्च परियोसानं नाम. ‘‘तस्मातिह त्वं, ब्राह्मण, ब्रह्मचरियं एतंपारं एतंपरियोसान’’न्ति एत्थ फलं परियोसनन्ति वुत्तं. ‘‘निब्बानोगधञ्हि, आवुसो विसाख, ब्रह्मचरियं वुस्सति निब्बानपरायणं निब्बानपरियोसान’’न्ति (म. नि. १.४६६) एत्थ निब्बानं परियोसानन्ति वुत्तं. इध पन देसनाय आदिमज्झपरियोसानं अधिप्पेतं. भगवा हि धम्मं देसेन्तो आदिम्हि सीलं दस्सेत्वा मज्झे मग्गं परियोसाने निब्बानं दस्सेति. तेन वुत्तं – ‘‘सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याण’’न्ति. तस्मा अञ्ञोपि धम्मकथिको धम्मं कथेन्तो –

‘‘आदिम्हि सीलं दस्सेय्य, मज्झे मग्गं विभावये;

परियोसानम्हि निब्बानं, एसा कथिकसण्ठिती’’ति.

सात्थं सब्यञ्जनन्ति यस्स हि यागुभत्तइत्थिपुरिसादिवण्णनानिस्सिता देसना होति, न सो सात्थं देसेति. भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति. तस्मा ‘‘सात्थं देसेती’’ति वुच्चति. यस्स पन देसना एकब्यञ्जनादियुत्ता वा सब्बनिरोट्ठब्यञ्जना वा सब्बविस्सट्ठब्यञ्जना वा सब्बनिग्गहितब्यञ्जना वा, तस्स दमिळकिरातयवनादिमिलक्खानं भासा विय ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नाम देसना होति. भगवा पन –

‘‘सिथिलं धनितञ्च दीघरस्सं, लहुकं गरुकञ्च निग्गहीतं;

सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति. –

एवं वुत्तं दसविधं ब्यञ्जनं अमक्खेत्वा परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेति. तस्मा ‘‘सब्यञ्जनं कत्वा देसेती’’ति वुच्चति. केवलपरिपुण्णन्ति एत्थ केवलन्ति सकलाधिवचनं. परिपुण्णन्ति अनूनाधिकवचनं. इदं वुत्तं होति – सकलपरिपुण्णमेव देसेति, एकदेसनापि अपरिपुण्णा नत्थीति. परिसुद्धन्ति निरुपक्किलेसं. यो हि ‘‘इमं धम्मदेसनं निस्साय लाभं वा सक्कारं वा लभिस्सामी’’ति देसेति, तस्स अपरिसुद्धा देसना नाम होति. भगवा पन लोकामिसनिरपेक्खो हितफरणेनेव मेत्ताभावनाय मुदुहदयो उल्लुम्पनसभावसण्ठितेन चित्तेन देसेति. तस्मा परिसुद्धं देसेतीति वुच्चति. ब्रह्मचरियं पकासेतीति एत्थ ब्रह्मचरियन्ति सिक्खत्तयसङ्गहितं सकलं सासनं. तस्मा ब्रह्मचरियं पकासेतीति सो धम्मं देसेति आदिकल्याणं…पे… परिसुद्धं, एवं देसेन्तो च सिक्खत्तयसङ्गहितं सकलसासनब्रह्मचरियं पकासेतीति एवमेत्थ अत्थो दट्ठब्बो. ब्रह्मचरियन्ति सेट्ठट्ठेन ब्रह्मभूतं चरियं, ब्रह्मभूतानं वा बुद्धादीनं चरियन्ति वुत्तं होति.

साधु खो पनाति सुन्दरं खो पन, अत्थावहं सुखावहन्ति वुत्तं होति. तथारूपानं अरहतन्ति यथारूपो सो भवं गोतमो, एवरूपानं अनेकेहिपि कप्पकोटिसतसहस्सेहि दुल्लभदस्सनानं ब्यामप्पभापरिक्खित्तेहि असीतिअनुब्यञ्जनपटिमण्डितेहि द्वत्तिंसमहापुरिसलक्खणवरेहि समाकिण्णमनोरमसरीरानं अनप्पकदस्सनानं अतिमधुरधम्मनिग्घोसानं यथाभूतगुणाधिगमेन लोके अरहन्तोति लद्धसद्दानं अरहतं. दस्सनं होतीति पसादसोम्मानि अक्खीनि उम्मीलेत्वा दस्सनमत्तम्पि साधु होति. सचे पन अट्ठङ्गसमन्नागतेन ब्रह्मस्सरेन धम्मं देसेन्तस्स एकपदम्पि सोतुं लभिस्साम, साधुतरंयेव भविस्सतीति एवं अज्झासयं कत्वा. येन भगवा तेनुपसङ्कमिंसूति सब्बकिच्चानि पहाय तुट्ठमानसा अगमंसु. अञ्जलिं पणामेत्वाति एते उभतोपक्खिका, ते एवं चिन्तेसुं – ‘‘सचे नो मिच्छादिट्ठिका चोदेस्सन्ति ‘कस्मा तुम्हे समणं गोतमं वन्दित्था’ति, तेसं ‘किं अञ्जलिकरणमत्तेनापि वन्दितं होती’ति वक्खाम. सचे नो सम्मादिट्ठिका चोदेस्सन्ति ‘कस्मा भगवन्तं न वन्दित्था’ति, ‘किं सीसेन भूमिं पहरन्तेनेव वन्दितं होति. ननु अञ्जलिकम्मम्पि वन्दना एवा’ति वक्खामा’’ति.

नामगोत्तन्ति, ‘‘भो गोतम, अहं असुकस्स पुत्तो दत्तो नाम मित्तो नाम इधागतो’’ति वदन्ता नामं सावेन्ति नाम. ‘‘भो गोतम, अहं वासेट्ठो नाम कच्चानो नाम इधागतो’’ति वदन्ता गोत्तं सावेन्ति नाम. एते किर दलिद्दा जिण्णकुलपुत्ता ‘‘परिसमज्झे नामगोत्तवसेन पाकटा भविस्सामा’’ति एवं अकंसु. ये पन तुण्हीभूता निसीदिंसु, ते केराटिका चेव अन्धबाला च. तत्थ केराटिका ‘‘एकं द्वे कथासल्लापे करोन्ते विस्सासिको होति, अथ विस्सासे सति एकं द्वे भिक्खा अदातुं न युत्त’’न्ति ततो अत्तानं मोचेन्ता तुण्हीभूता निसीदन्ति. अन्धबाला अञ्ञाणतायेव अवक्खित्तमत्तिकापिण्डा विय यत्थ कत्थचि तुण्हीभूता निसीदन्ति.

वेनागपुरिकोति वेनागपुरवासी. एतदवोचाति पादन्ततो पट्ठाय याव केसग्गा तथागतस्स सरीरं ओलोकेन्तो असीतिअनुब्यञ्जनसमुज्जलेहि द्वत्तिंसमहापुरिसलक्खणेहि पटिमण्डितं सरीरा निक्खमित्वा समन्ततो असीतिहत्थप्पदेसं अज्झोत्थरित्वा ठिताहि छब्बण्णाहि घनबुद्धरंसीहि सम्परिवारितं तथागतस्स सरीरं दिस्वा सञ्जातविम्हयो वण्णं भणन्तो एतं ‘‘अच्छरियं, भो गोतमा’’तिआदिवचनं अवोच.

तत्थ यावञ्चिदन्ति अधिमत्तप्पमाणपरिच्छेदवचनमेतं. तस्स विप्पसन्नपदेन सद्धिं सम्बन्धो. यावञ्च विप्पसन्नानि अधिमत्तविप्पसन्नानीति अत्थो. इन्द्रियानीति चक्खादीनि छ इन्द्रियानि. तस्स हि पञ्चन्नं इन्द्रियानं पतिट्ठितोकासस्स विप्पसन्नतं दिस्वा तेसं विप्पसन्नता पाकटा अहोसि. यस्मा पन सा मने विप्पसन्नेयेव होति, अविप्पसन्नचित्तानञ्हि इन्द्रियप्पसादो नाम नत्थि, तस्मास्स मनिन्द्रियप्पसादोपि पाकटो अहोसि. तं एस विप्पसन्नतं गहेत्वा ‘‘विप्पसन्नानि इन्द्रियानी’’ति आह. परिसुद्धोति निम्मलो. परियोदातोति पभस्सरो. सारदं बदरपण्डुन्ति सरदकाले जातं नातिसुपरिपक्कं बदरं. तञ्हि परिसुद्धञ्चेव होति परियोदातञ्च. तालपक्कन्ति सुपरिपक्कतालफलं. सम्पति बन्धना पमुत्तन्ति तंखणञ्ञेव बन्धना पमुत्तं. तस्स हि बन्धनमूलं अपनेत्वा परमुखं कत्वा फलके ठपितस्स चतुरङ्गुलमत्तं ठानं ओलोकेन्तानं परिसुद्धं परियोदातं हुत्वा खायति. तं सन्धायेवमाह. नेक्खं जम्बोनदन्ति सुरत्तवण्णस्स जम्बोनदसुवण्णस्स घटिका. दक्खकम्मारपुत्तसुपरिकम्मकतन्ति दक्खेन सुवण्णकारपुत्तेन सुट्ठु कतपरिकम्मं. उक्कामुखे सुकुसलसम्पहट्ठन्ति सुवण्णकारउद्धने पचित्वा सुकुसलेन सुवण्णकारेन घट्टनपरिमज्जनहंसनेन सुट्ठु पहट्ठं सुपरिमद्दितन्ति अत्थो. पण्डुकम्बले निक्खित्तन्ति अग्गिना पचित्वा दीपिदाठाय घंसित्वा गेरुकपरिकम्मं कत्वा रत्तकम्बले ठपितं. भासतेति सञ्जातओभासताय भासते. तपतेति अन्धकारविद्धंसनताय तपते. विरोचतीति विज्जोतमानं हुत्वा विरोचति, सोभतीति अत्थो.

उच्चासयनमहासयनानीति एत्थ अतिक्कन्तप्पमाणं उच्चासयनं नाम, आयतवित्थतं अकप्पियभण्डं महासयनं नाम. इदानि तानि दस्सेन्तो सेय्यथिदं, आसन्दीतिआदिमाह. तत्थ आसन्दीति अतिक्कन्तप्पमाणं आसनं. पल्लङ्कोति पादेसु वाळरूपानि ठपेत्वा कतो. गोनकोति दीघलोमको महाकोजवो. चतुरङ्गुलाधिकानि किर तस्स लोमानि. चित्तकोति वानचित्तं उण्णामयत्थरणं. पटिकाति उण्णामयो सेतत्थरको. पटलिकाति घनपुप्फो उण्णामयत्थरको, यो आमलकपट्टोतिपि वुच्चति. तूलिकाति तिण्णं तूलानं अञ्ञतरपुण्णा तूलिका. विकतिकाति सीहब्यग्घादिरूपविचित्रो उण्णामयत्थरको. उद्दलोमीति उभतोदसं उण्णामयत्थरणं. केचि एकतो उग्गतपुप्फन्ति वदन्ति. एकन्तलोमीति एकतोदसं उण्णामयत्थरणं. केचि उभतो उग्गतपुप्फन्ति वदन्ति. कट्टिस्सन्ति रतनपरिसिब्बितं कोसेय्यकट्टिस्समयं पच्चत्थरणं. कोसेय्यन्ति रतनपरिसिब्बितमेव कोसियसुत्तमयं पच्चत्थरणं. कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गं उण्णामयत्थरणं. हत्थत्थरादयो हत्थिपिट्ठादीसु अत्थरणकअत्थरका चेव हत्थिरूपादीनि दस्सेत्वा कतअत्थरका च. अजिनप्पवेणीति अजिनचम्मेहि मञ्चप्पमाणेन सिब्बित्वा कतप्पवेणी. सेसं हेट्ठा वुत्तत्थमेव.

निकामलाभीति अतिकामलाभी इच्छितिच्छितलाभी. अकिच्छलाभीति अदुक्खलाभी. अकसिरलाभीति विपुललाभी महन्तलाभी, उळारुळारानेव लभति मञ्ञेति सन्धाय वदति. अयं किर ब्राह्मणो सयनगरुको, सो भगवतो विप्पसन्निन्द्रियादितं दिस्वा ‘‘अद्धा एस एवरूपेसु उच्चासयनमहासयनेसु निसीदति चेव निपज्जति च. तेनस्स विप्पसन्नानि इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो’’ति मञ्ञमानो इमं सेनासनवण्णं कथेसि.

लद्धा च पन न कप्पन्तीति एत्थ किञ्चि किञ्चि कप्पति. सुद्धकोसेय्यञ्हि मञ्चेपि अत्थरितुं वट्टति, गोनकादयो च भूमत्थरणपरिभोगेन, आसन्दिया पादे छिन्दित्वा, पल्लङ्कस्स वाळे भिन्दित्वा, तूलिकं विजटेत्वा ‘‘बिम्बोहनञ्च कातु’’न्ति (चूळव. २९७) वचनतो इमानिपि एकेन विधानेन कप्पन्ति. अकप्पियं पन उपादाय सब्बानेव न कप्पन्तीति वुत्तानि.

वनन्तञ्ञेव पविसामीति अरञ्ञंयेव पविसामि. यदेवाति यानियेव. पल्लङ्कं आभुजित्वाति समन्ततो ऊरुबद्धासनं बन्धित्वा. उजुं कायं पणिधायाति अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेन्तो उजुं कायं ठपेत्वा. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपेत्वा, परिग्गहितनिय्यानं वा कत्वाति अत्थो. वुत्तञ्हेतं – ‘‘परीति परिग्गहट्ठो. मुखन्ति निय्यानट्ठो. सतीति उपट्ठानट्ठो. तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (पटि. म. १.१६४). उपसम्पज्ज विहरामीति पटिलभित्वा पच्चक्खं कत्वा विहरामि. एवंभूतोति एवं पठमज्झानादीसु अञ्ञतरसमङ्गी हुत्वा. दिब्बो मे एसो तस्मिं समये चङ्कमो होतीति चत्तारि हि रूपज्झानानि समापज्जित्वा चङ्कमन्तस्स चङ्कमो दिब्बचङ्कमो नाम होति, समापत्तितो वुट्ठाय चङ्कमन्तस्सापि चङ्कमो दिब्बचङ्कमोयेव. ठानादीसुपि एसेव नयो. तथा इतरेसु द्वीसु विहारेसु.

सो एवं पजानामि ‘‘रागो मे पहीनो’’ति महाबोधिपल्लङ्के अरहत्तमग्गेन पहीनरागमेव दस्सेन्तो ‘‘सो एवं पजानामि रागो मे पहीनो’’ति आह. सेसपदेसुपि एसेव नयो. इमिना पन किं कथितं होतीति? पच्चवेक्खणा कथिता, पच्चवेक्खणाय फलसमापत्ति कथिता. फलसमापत्तिञ्हि समापन्नस्सपि समापत्तितो वुट्ठितस्सापि चङ्कमादयो अरियचङ्कमादयो होन्ति. सेसमेत्थ उत्तानत्थमेवाति.