६. पलोकसुत्तवण्णना

५७. छट्ठे आचरियपाचरियानन्ति आचरियानञ्चेव आचरियाचरियानञ्च. अवीचि मञ्ञे फुटो अहोसीति यथा अवीचि महानिरयो निरन्तरफुटो नेरयिकसत्तेहि परिपुण्णो, मनुस्सेहि एवं परिपुण्णो होति. कुक्कुटसंपातिकाति एकगामस्स छदनपिट्ठितो उप्पतित्वा इतरगामस्स छदनपिट्ठे पतनसङ्खातो कुक्कुटसंपातो एतासु अत्थीति कुक्कुटसंपातिका. कुक्कुटसंपादिकातिपि पाठो, गामन्तरतो गामन्तरं कुक्कुटानं पदसा गमनसङ्खातो कुक्कुटसंपादो एतासु अत्थीति अत्थो. उभयम्पेतं घननिवासतंयेव दीपेति. अधम्मरागरत्ताति रागो नाम एकन्तेनेव अधम्मो, अत्तनो परिक्खारेसु पन उप्पज्जमानो न अधम्मरागोति अधिप्पेतो, परपरिक्खारेसु उप्पज्जमानोव अधम्मरागोति. विसमलोभाभिभूताति लोभस्स समकालो नाम नत्थि, एकन्तं विसमोव एस. अत्तना परिग्गहितवत्थुम्हि पन उप्पज्जमानो समलोभो नाम, परपरिग्गहितवत्थुम्हि उप्पज्जमानोव विसमोति अधिप्पेतो. मिच्छाधम्मपरेताति अवत्थुपटिसेवनसङ्खातेन मिच्छाधम्मेन समन्नागता. देवो न सम्मा धारं अनुप्पवेच्छतीति वस्सितब्बयुत्ते काले वस्सं न वस्सति. दुब्भिक्खन्ति दुल्लभभिक्खं. दुस्सस्सन्ति विविधसस्सानं असम्पज्जनेन दुस्सस्सं. सेतट्ठिकन्ति सस्से सम्पज्जमाने पाणका पतन्ति, तेहि दट्ठत्ता निक्खन्तनिक्खन्तानि सालिसीसानि सेतवण्णानि होन्ति निस्सारानि. तं सन्धाय वुत्तं ‘‘सेतट्ठिक’’न्ति. सलाकावुत्तन्ति वपितं वपितं सस्सं सलाकामत्तमेव सम्पज्जति, फलं न देतीति अत्थो. यक्खाति यक्खाधिपतिनो. वाळे अमनुस्से ओस्सज्जन्तीति चण्डयक्खे मनुस्सपथे विस्सज्जेन्ति, ते लद्धोकासा महाजनं जीवितक्खयं पापेन्ति.