१०. सङ्गारवसुत्तवण्णना
६१. दसमे सङ्गारवोति एवंनामको राजगहनगरे जिण्णपटिसङ्खरणकारको आयुत्तकब्राह्मणो. उपसङ्कमीति भुत्तपातरासो हुत्वा महाजनपरिवुतो उपसङ्कमि. मयमस्सूति एत्थ अस्सूति निपातमत्तं, मयं, भो गोतम, ब्राह्मणा नामाति इदमेव अत्थपदं. यञ्ञं यजामाति बाहिरसमये सब्बचतुक्केन सब्बट्ठकेन सब्बसोळसकेन सब्बद्वत्तिंसाय सब्बचतुसट्ठिया सब्बसतेन सब्बपञ्चसतेनाति च एवं पाणघातपटिसंयुत्तो यञ्ञो नाम होति. तं सन्धायेवमाह. अनेकसारीरिकन्ति अनेकसरीरसम्भवं. यदिदन्ति या एसा. यञ्ञाधिकरणन्ति यजनकारणा चेव याजनकारणा चाति अत्थो. एकस्मिञ्हि बहूनं ददन्तेपि दापेन्तेपि बहूसुपि बहूनं देन्तेसुपि दापेन्तेसुपि पुञ्ञपटिपदा अनेकसारीरिका नाम होति. तं सन्धायेतं वुत्तं. तुय्हञ्च तुय्हञ्च यजामीति वदन्तस्सापि त्वञ्च त्वञ्च यजाहीति आणापेन्तस्सापि च अनेकसारीरिकाव होति. तम्पि सन्धायेतं वुत्तं. यस्स वा तस्स वाति यस्मा वा तस्मा वा. एकमत्तानं दमेतीति अत्तनो इन्द्रियदमनवसेन एकं अत्तानमेव दमेति. एकमत्तानं समेतीति अत्तनो रागादिसमनवसेन एकं अत्तानमेव समेति. परिनिब्बापेतीति रागादिपरिनिब्बानेनेव परिनिब्बापेति. एवमस्सायन्ति एवं सन्तेपि अयं.
एवमिदं ब्राह्मणस्स कथं सुत्वा सत्था चिन्तेसि – ‘‘अयं ब्राह्मणो पसुघातकसंयुत्तं महायञ्ञं अनेकसारीरिकं पुञ्ञपटिपदं वदेति, पब्बज्जामूलकं पन पुञ्ञुप्पत्तिपटिपदं एकसारीरिकन्ति वदेति. नेवायं एकसारीरिकं जानाति, न अनेकसारीरिकं, हन्दस्स एकसारीरिकञ्च अनेकसारीरिकञ्च पटिपदं देसेस्सामी’’ति उपरि देसनं वड्ढेन्तो तेन हि ब्राह्मणातिआदिमाह. तत्थ यथा ते खमेय्याति यथा तुय्हं रुच्चेय्य. इध तथागतो लोके उप्पज्जतीतिआदि विसुद्धिमग्गे वित्थारितमेव. एथायं मग्गोति एथ तुम्हे, अहमनुसासामि, अयं मग्गो. अयं पटिपदाति तस्सेव वेवचनं. यथा पटिपन्नोति येन मग्गेन पटिपन्नो. अनुत्तरं ब्रह्मचरियोगधन्ति अरहत्तमग्गसङ्खातस्स ब्रह्मचरियस्स अनुत्तरं ओगधं उत्तमपतिट्ठाभूतं निब्बानं. इच्चायन्ति इति अयं.
अप्पट्ठतराति यत्थ बहूहि वेय्यावच्चकरेहि वा उपकरणेहि वा अत्थो नत्थि. अप्पसमारम्भतराति यत्थ बहूनं कम्मच्छेदवसेन पीळासङ्खातो समारम्भो नत्थि. सेय्यथापि भवं गोतमो, भवं चानन्दो, एते मे पुज्जाति यथा भवं गोतमो, भवञ्चानन्दो, एवरूपा मम पूजिता, तुम्हेयेव द्वे जना मय्हं पुज्जा च पासंसा चाति इममत्थं सन्धायेतं वदति. तस्स किर एवं अहोसि – ‘‘आनन्दत्थेरो मंयेव इमं पञ्हं कथापेतुकामो, अत्तनो खो पन वण्णे वुत्ते पदुस्सनको नाम नत्थी’’ति. तस्मा पञ्हं अकथेतुकामो वण्णभणनेन विक्खेपं करोन्तो एवमाह.
न खो त्याहन्ति न खो ते अहं. थेरोपि किर चिन्तेसि – ‘‘अयं ब्राह्मणो पञ्हं अकथेतुकामो परिवत्तति, इमं पञ्हं एतंयेव कथापेस्सामी’’ति. तस्मा नं एवमाह.
सहधम्मिकन्ति सकारणं. संसादेतीति संसीदापेति. नो विस्सज्जेतीति न कथेति. यंनूनाहं परिमोचेय्यन्ति यंनूनाहं उभोपेते विहेसतो परिमोचेय्यं. ब्राह्मणो हि आनन्देन पुच्छितं पञ्हं अकथेन्तो विहेसेति, आनन्दोपि ब्राह्मणं अकथेन्तं कथापेन्तो. इति उभोपेते विहेसतो मोचेस्सामीति चिन्तेत्वा एवमाह. का न्वज्जाति का नु अज्ज. अन्तराकथा उदपादीति अञ्ञिस्सा कथाय अन्तरन्तरे कतरा कथा उप्पज्जीति पुच्छति. तदा किर राजन्तेपुरे तीणि पाटिहारियानि आरब्भ कथा उदपादि, तं पुच्छामीति सत्था एवमाह. अथ ब्राह्मणो ‘‘इदानि वत्तुं सक्खिस्सामी’’ति राजन्तेपुरे उप्पन्नं कथं आरोचेन्तो अयं ख्वज्ज, भो गोतमातिआदिमाह. तत्थ अयं ख्वज्जाति अयं खो अज्ज. पुब्बे सुदन्ति एत्थ सुदन्ति निपातमत्तं. उत्तरि मनुस्सधम्माति दसकुसलकम्मपथसङ्खाता मनुस्सधम्मा उत्तरिं. इद्धिपाटिहारियं दस्सेसुन्ति भिक्खाचारं गच्छन्ता आकासेनेव गमिंसु चेव आगमिंसु चाति एवं पुब्बे पवत्तं आकासगमनं सन्धायेवमाह. एतरहि पन बहुतरा च भिक्खूति इदं सो ब्राह्मणो ‘‘पुब्बे भिक्खू ‘चत्तारो पच्चये उप्पादेस्सामा’ति मञ्ञे एवमकंसु, इदानि पच्चयानं उप्पन्नभावं ञत्वा सोप्पेन चेव पमादेन च वीतिनामेन्ती’’ति लद्धिया एवमाह.
पाटिहारियानीति पच्चनीकपटिहरणवसेन पाटिहारियानि. इद्धिपाटिहारियन्ति इज्झनवसेन इद्धि, पटिहरणवसेन पाटिहारियं, इद्धियेव पाटिहारियं इद्धिपाटिहारियं. इतरेसुपि एसेव नयो. अनेकविहितं इद्धिविधन्तिआदीनं अत्थो चेव भावनानयो च विसुद्धिमग्गे (विसुद्धि. २.३६५) वित्थारितोव.
निमित्तेन आदिसतीति आगतनिमित्तेन वा गतनिमित्तेन वा ठितनिमित्तेन वा ‘‘इदं नाम भविस्सती’’ति कथेति. तत्रिदं वत्थु – एको किर राजा तिस्सो मुत्ता गहेत्वा पुरोहितं पुच्छि ‘‘किं मे, आचरिय, हत्थे’’ति. सो इतो चितो च ओलोकेसि, तेन च समयेन एका सरबू ‘‘मक्खिकं गहेस्सामी’’ति पक्खन्ता, गहणकाले मक्खिका पलाता. सो मक्खिकाय मुत्तत्ता ‘‘मुत्ता महाराजा’’ति आह. मुत्ता ताव होन्तु, कति मुत्ताति. सो पुन निमित्तं ओलोकेसि. अथाविदूरे कुक्कुटो तिक्खत्तुं सद्दं निच्छारेसि. ब्राह्मणो ‘‘तिस्सो महाराजा’’ति आह. एवं एकच्चो आगतनिमित्तेन कथेति. एतेनुपायेन गतठितनिमित्तेहिपि कथनं वेदितब्बं. एवम्पि ते मनोति एवं तव मनो सोमनस्सितो वा दोमनस्सितो वा कामवितक्कादिसंयुत्तो वाति. दुतियं तस्सेव वेवचनं. इतिपि ते चित्तन्ति इतिपि तव चित्तं, इमञ्च इमञ्च अत्थं चिन्तयमानं पवत्ततीति अत्थो. बहुं चेपि आदिसतीति बहुं चेपि कथेति. तथेव तं होतीति यथा कथितं, तथेव होति.
अमनुस्सानन्ति यक्खपिसाचादीनं. देवतानन्ति चातुमहाराजिकादीनं. सद्दं सुत्वाति अञ्ञस्स चित्तं ञत्वा कथेन्तानं सुत्वा. वितक्कविप्फारसद्दन्ति वितक्कविप्फारवसेन उप्पन्नं विप्पलपन्तानं सुत्तप्पमत्तादीनं सद्दं. सुत्वाति तं सुत्वा. यं वितक्कयतो तस्स सो सद्दो उप्पन्नो, तस्स वसेन ‘‘एवम्पि ते मनो’’तिआदिसति.
तत्रिमानि वत्थूनि – एको किर मनुस्सो ‘‘अट्टं करिस्सामी’’ति गामा नगरं गच्छन्तो निक्खन्तट्ठानतो पट्ठाय ‘‘विनिच्छयसभायं रञ्ञो च राजमहामत्तानञ्च इदं कथेस्सामि इदं कथेस्सामी’’ति वितक्केन्तो राजकुलं गतो विय रञ्ञो पुरतो ठितो विय अट्टकारकेन सद्धिं कथेन्तो विय च अहोसि, तस्स तं वितक्कविप्फारवसेन निच्छरन्तं सद्दं सुत्वा एको पुरिसो ‘‘केनट्ठेन गच्छसी’’ति आह. अट्टकम्मेनाति. गच्छ, जयो ते भविस्सतीति. सो गन्त्वा अट्टं कत्वा जयमेव पापुणि.
अपरोपि थेरो मोळियगामे पिण्डाय चरि. अथ नं निक्खमन्तं एका दारिका अञ्ञविहिता न अद्दस. सो गामद्वारे ठत्वा निवत्तित्वा ओलोकेत्वा तं दिस्वा वितक्केन्तो अगमासि. गच्छन्तोयेव च ‘‘किं नु खो कुरुमाना दारिका न अद्दसा’’ति वचीभेदं अकासि. पस्से ठितो एको पुरिसो सुत्वा ‘‘तुम्हे, भन्ते, मोळियगामे चरित्था’’ति आह.
मनोसङ्खारा पणिहिताति चित्तसङ्खारा सुट्ठपिता. वितक्केस्सतीति वितक्कयिस्सति पवत्तयिस्सतीति पजानाति. पजानन्तो च आगमनेन जानाति, पुब्बभागेन जानाति, अन्तोसमापत्तियं चित्तं अपलोकेत्वा जानाति. आगमनेन जानाति नाम कसिणपरिकम्मकालेयेव ‘‘येनाकारेनेस कसिणभावनं आरद्धो पठमज्झानं वा…पे… चतुत्थज्झानं वा अट्ठ वा समापत्तियो निब्बत्तेस्सती’’ति जानाति. पुब्बभागेन जानाति नाम पठमविपस्सनाय आरद्धाययेव जानाति, ‘‘येनाकारेन एस विपस्सनं आरद्धो सोतापत्तिमग्गं वा निब्बत्तेस्सति…पे… अरहत्तमग्गं वा निब्बत्तेस्सती’’ति जानाति. अन्तोसमापत्तियं चित्तं ओलोकेत्वा जानाति नाम – ‘‘येनाकारेन इमस्स मनोसङ्खारा सुट्ठपिता, इमस्स नाम चित्तस्स अनन्तरा इमं नाम वितक्कं वितक्केस्सति, इतो वुट्ठितस्स एतस्स हानभागियो वा समाधि भविस्सति ठितिभागियो वा विसेसभागियो वा निब्बेधभागियो वा, अभिञ्ञायो वा निब्बत्तेस्सती’’ति जानाति. तत्थ पुथुज्जनो चेतोपरियञाणलाभी पुथुज्जनानंयेव चित्तं जानाति, न अरियानं. अरियेसुपि हेट्ठिमो उपरिमस्स चित्तं न जानाति, उपरिमो पन हेट्ठिमस्स जानाति. एतेसु च सोतापन्नो सोतापत्तिफलसमापत्तिं समापज्जति…पे… अरहा अरहत्तफलसमापत्तिं समापज्जति. उपरिमो हेट्ठिमं न समापज्जति. तेसञ्हि हेट्ठिमा हेट्ठिमा समापत्ति तत्रवत्तियेव होति. तथेव तं होतीति एतं एकंसेन तथेव होति. चेतोपरियञाणवसेन ञातञ्हि अञ्ञथाभावि नाम नत्थि.
एवं वितक्केथाति एवं नेक्खम्मवितक्कादयो पवत्तेन्ता वितक्केथ. मा एवं वितक्कयित्थाति एवं कामवितक्कादयो पवत्तेन्ता मा वितक्कयित्थ. एवं मनसि करोथाति एवं अनिच्चसञ्ञमेव, दुक्खसञ्ञादीसु वा अञ्ञतरं मनसि करोथ. मा एवन्ति निच्चन्तिआदिना नयेन मा मनसा करित्थ. इदन्ति इदं पञ्चकामगुणरागं पजहथ. इदञ्च उपसम्पज्जाति इदं चतुमग्गफलप्पभेदं लोकुत्तरधम्ममेव उपसम्पज्ज पापुणित्वा निप्फादेत्वा विहरथ.
मायासहधम्मरूपं विय खायतीति मायाय समानकारणजातिकं विय हुत्वा उपट्ठाति. मायाकारोपि हि उदकं गहेत्वा तेलं करोति, तेलं गहेत्वा उदकन्ति एवं अनेकरूपं मायं दस्सेति. इदम्पि पाटिहारियं तथारूपमेवाति. इदम्पि मे, भो गोतम, पाटिहारियं मायासहधम्मरूपं विय खायतीति चिन्तामणिकविज्जासरिक्खकतं सन्धाय एवं आह. चिन्तामणिकविज्जं जानन्तापि हि आगच्छन्तमेव दिस्वा ‘‘अयं इदं नाम वितक्केन्तो आगच्छती’’ति जानन्ति. तथा ‘‘इदं नाम वितक्केन्तो ठितो, इदं नाम वितक्केन्तो निसिन्नो, इदं नाम वितक्केन्तो निपन्नो’’ति जानन्ति.
अभिक्कन्ततरन्ति सुन्दरतरं. पणीततरन्ति उत्तमतरं. भवञ्हि गोतमो अवितक्कं अविचारन्ति इध ब्राह्मणो अवसेसं आदेसनापाटिहारियं बाहिरकन्ति न गण्हि. इदञ्च पन सब्बं सो ब्राह्मणो तथागतस्स वण्णं कथेन्तोयेव आह. अद्धा खो त्यायन्ति एकंसेनेव तया अयं. आसज्ज उपनीय वाचा भासिताति मम गुणे घट्टेत्वा ममेव गुणानं सन्तिकं उपनीता वाचा भासिता. अपिच त्याहं ब्याकरिस्सामीति अपिच ते अहमेव कथेस्सामीति. सेसं उत्तानत्थमेवाति.
ब्राह्मणवग्गो पठमो.