१. पठमद्वेब्राह्मणसुत्तवण्णना

५२. ब्राह्मणवग्गस्स पठमे जिण्णाति जराजिण्णा. वुद्धाति वयोवुद्धा. महल्लकाति जातिमहल्लका. अद्धगताति तयो अद्धे अतिक्कन्ता. वयोअनुप्पत्ताति ततियं वयं अनुप्पत्ता. येन भगवा तेनुपसङ्कमिंसूति पुत्तदारे अत्तनो वचनं अकरोन्ते दिस्वा ‘‘समणस्स गोतमस्स सन्तिकं गन्त्वा निय्यानिकमग्गं गवेसिस्सामा’’ति चिन्तेत्वा उपसङ्कमिंसु. मयमस्सु, भो गोतम, ब्राह्मणाति; भो गोतम, मयं ब्राह्मणा न खत्तिया नामच्चा न गहपतिकाति ब्राह्मणभावं जानापेत्वा जिण्णातिआदिमाहंसु. अकतभीरुत्ताणाति अकतभयपरित्ताणा. अवस्सयभूतं पतिट्ठाकम्मं अम्हेहि न कतन्ति दस्सेन्ति. तग्घाति एकंसत्थे निपातो, सम्पटिच्छनत्थे वा. एकन्तेन तुम्हे एवरूपा, अहम्पि खो एतं सम्पटिच्छामीति च दस्सेति. उपनीयतीति उपसंहरीयति. अयं हि जातिया जरं उपनीयति, जराय ब्याधिं, ब्याधिना मरणं, मरणेन पुन जातिं. तेन वुत्तं – ‘‘उपनीयती’’ति.

इदानि यस्मा ते ब्राह्मणा महल्लकत्ता पब्बजित्वापि वत्तं पूरेतुं न सक्खिस्सन्ति, तस्मा ने पञ्चसु सीलेसु पतिट्ठापेन्तो भगवा योध कायेन संयमोतिआदिमाह. तत्थ कायेन संयमोति कायद्वारेन संवरो. सेसेसुपि एसेव नयो. तं तस्स पेतस्साति तं पुञ्ञं तस्स परलोकं गतस्स तायनट्ठेन ताणं, निलीयनट्ठेन लेणं, पतिट्ठानट्ठेन दीपो, अवस्सयनट्ठेन सरणं, उत्तमगतिवसेन परायणञ्च होतीति दस्सेति. गाथा उत्तानत्थायेव. एवं ते ब्राह्मणा तथागतेन पञ्चसु सीलेसु समादपिता यावजीवं पञ्च सीलानि रक्खित्वा सग्गे निब्बत्तिंसु.