१०. आतप्पकरणीयसुत्तवण्णना

५०. दसमे आतप्पं करणीयन्ति वीरियं कातुं युत्तं. अनुप्पादायाति अनुप्पादत्थाय, अनुप्पादं साधेस्सामीति इमिना कारणेन कत्तब्बन्ति अत्थो. परतोपि एसेव नयो. सारीरिकानन्ति सरीरसम्भवानं. दुक्खानन्ति दुक्खमानं. तिब्बानन्ति बहलानं, तापनवसेन वा तिब्बानं. खरानन्ति फरुसानं. कटुकानन्ति तिखिणानं. असातानन्ति अमधुरानं. अमनापानन्ति मनं वड्ढेतुं असमत्थानं. पाणहरानन्ति जीवितहरानं. अधिवासनायाति अधिवासनत्थाय सहनत्थाय खमनत्थाय.

एत्तके ठाने सत्था आणापेत्वा आणत्तिं पवत्तेत्वा इदानि समादपेन्तो यतो खो, भिक्खवेतिआदिमाह. तत्थ यतोति यदा. आतापीति वीरियवा. निपकोति सप्पञ्ञो. सतोति सतिया समन्नागतो. दुक्खस्स अन्तकिरियायाति वट्टदुक्खस्स परिच्छेदपरिवटुमकिरियाय. इमे च पन आतापादयो तयोपि लोकियलोकुत्तरमिस्सका कथिता.