५. सचेतनसुत्तवण्णना
१५. पञ्चमे इसिपतनेति बुद्धपच्चेकबुद्धसङ्खातानं इसीनं धम्मचक्कप्पवत्तनत्थाय चेव उपोसथकरणत्थाय च आगन्त्वा पतने, सन्निपातट्ठानेति अत्थो. पदनेतिपि पाठो, अयमेव अत्थो. मिगदायेति मिगानं अभयत्थाय दिन्ने. छहि मासेहि छारत्तूनेहीति सो किर रञ्ञा आणत्तदिवसेयेव सब्बूपकरणानि सज्जेत्वा अन्तेवासिकेहि सद्धिं अरञ्ञं पविसित्वा गामद्वारगाममज्झदेवकुलसुसानादीसु ठितरुक्खे चेव झामपतितसुक्खरुक्खे च विवज्जेत्वा सम्पन्नपदेसे ठिते सब्बदोसविवज्जिते नाभिअरनेमीनं अनुरूपे रुक्खे गहेत्वा तं चक्कं अकासि. तस्स रुक्खे विचिनित्वा गण्हन्तस्स चेव करोन्तस्स च एत्तको कालो वीतिवत्तो. तेन वुत्तं – ‘‘छहि मासेहि छारत्तूनेही’’ति. नानाकरणन्ति नानत्तं. नेसन्ति न एसं. अत्थेसन्ति अत्थि एसं. अभिसङ्खारस्स गतीति पयोगस्स गमनं. चिङ्गुलायित्वाति परिब्भमित्वा. अक्खाहतं मञ्ञेति अक्खे पवेसेत्वा ठपितमिव.
सदोसाति सगण्डा उण्णतोणतट्ठानयुत्ता. सकसावाति पूतिसारेन चेव फेग्गुना च युत्ता. कायवङ्कातिआदीनि कायदुच्चरितादीनं नामानि. एवं पपतिताति एवं गुणपतनेन पतिता. एवं पतिट्ठिताति एवं गुणेहि पतिट्ठिता. तत्थ लोकियमहाजना पपतिता नाम, सोतापन्नादयो पतिट्ठिता नाम. तेसुपि पुरिमा तयो किलेसानं समुदाचारक्खणे पपतिता नाम, खीणासवा पन एकन्तेनेव पतिट्ठिता नाम. तस्माति यस्मा अप्पहीनकायवङ्कादयो पपतन्ति, पहीनकायवङ्कादयो पतिट्ठहन्ति, तस्मा. कायवङ्कादीनं पन एवं पहानं वेदितब्बं – पाणातिपातो अदिन्नादानं मिच्छाचारो मुसावादो पिसुणावाचा मिच्छादिट्ठीति इमे ताव छ सोतापत्तिमग्गेन पहीयन्ति, फरुसावाचा ब्यापादोति द्वे अनागामिमग्गेन, अभिज्झा सम्फप्पलापोति द्वे अरहत्तमग्गेनाति.