५. उत्तियसुत्तवण्णना
९५. पञ्चमे तुण्ही अहोसीति सत्तूपलद्धियं ठत्वा अपुच्छं पुच्छतीति तुण्ही अहोसि. सब्बसामुक्कंसिकं वत मेति मया सब्बपुच्छानं उत्तमपुच्छं पुच्छितो समणो गोतमो संसादेति नो विस्सज्जेति, नून न विसहति न सक्कोति विस्सज्जेतुन्ति एवं पापिकं दिट्ठिं मा पटिलभीति. तदस्साति तं एवं उप्पन्नं दिट्ठिगतं भवेय्य. पच्चन्तिमन्ति यस्मा मज्झिमदेसे नगरस्स उद्धापादीनि थिरानि वा होन्तु दुब्बलानि वा, सब्बसो वा पन मा होन्तु, चोरासङ्का न होति. तस्मा तं अग्गहेत्वा ‘‘पच्चन्तिमं नगर’’न्ति आह. दळ्हुद्धापन्ति थिरपाकारपादं. दळ्हपाकारतोरणन्ति थिरपाकारञ्चेव थिरपिट्ठिसङ्घाटञ्च. एकद्वारन्ति कस्मा आह? बहुद्वारस्मिञ्हि नगरे बहूहि पण्डितदोवारिकेहि भवितब्बं, एकद्वारे एकोव वट्टति. तथागतस्स च पञ्ञाय अञ्ञो सदिसो नत्थि. तस्मा सत्थु पण्डितभावस्स ओपम्मत्थं एकंयेव दोवारिकं दस्सेतुं ‘‘एकद्वार’’न्ति आह. पण्डितोति पण्डिच्चेन समन्नागतो. ब्यत्तोति वेय्यत्तियेन समन्नागतो. मेधावीति ठानुप्पत्तियपञ्ञासङ्खाताय मेधाय समन्नागतो. अनुपरियायपथन्ति अनुपरियायनामकं मग्गं. पाकारसन्धिन्ति द्विन्नं इट्ठकानं अपगतट्ठानं. पाकारविवरन्ति पाकारस्स छिन्नट्ठानं. तदेवेतं पञ्हन्ति तंयेव ‘‘सस्सतो लोको’’तिआदिना नयेन पुट्ठं ठपनीयपञ्हं पुनपि पुच्छि. सब्बो च तेन लोकोति सत्तूपलद्धियंयेव ठत्वा अञ्ञेनाकारेन पुच्छतीति दस्सेति.