१. आकङ्खसुत्तवण्णना

७१. ततियस्स पठमे सम्पन्नसीलाति परिपुण्णसीला, सीलसमङ्गिनो वा हुत्वाति अत्थो. तत्थ द्वीहि कारणेहि सम्पन्नसीलता होति सीलविपत्तिया च आदीनवदस्सनेन, सीलसम्पत्तिया च आनिसंसदस्सनेन. तदुभयम्पि विसुद्धिमग्गे (विसुद्धि. १.९, २१) वित्थारितं. तत्थ ‘‘सम्पन्नसीला’’ति एत्तावता किर भगवा चतुपारिसुद्धिसीलं उद्दिसित्वा ‘‘पातिमोक्खसंवरसंवुता’’ति इमिना तत्थ जेट्ठकसीलं वित्थारेत्वा दस्सेसीति दीपविहारवासी सुमनत्थेरो आह. अन्तेवासिको पनस्स तेपिटकचूळनागत्थेरो आह – उभयत्थपि पातिमोक्खसंवरोव भगवता वुत्तो. पातिमोक्खसंवरोयेव हि सीलं, इतरानि पन तीणि सीलन्ति वुत्तट्ठानं अत्थीति अननुजानन्तो वत्वा आह – इन्द्रियसंवरो नाम छद्वारारक्खामत्तकमेव, आजीवपारिसुद्धि धम्मेन समेन पच्चयुप्पत्तिमत्तकं, पच्चयसन्निस्सितं पटिलद्धपच्चये इदमत्थन्ति पच्चवेक्खित्वा परिभुञ्जनमत्तकं. निप्परियायेन पातिमोक्खसंवरोव सीलं. यस्स सो भिन्नो, अयं सीसच्छिन्नो विय पुरिसो हत्थपादे सेसानि रक्खिस्सतीति न वत्तब्बो. यस्स पन सो अरोगो, अयं अच्छिन्नसीसो विय पुरिसो जीवितं सेसानि पुन पाकतिकानि कातुं सक्कोति. तस्मा ‘‘सम्पन्नसीला’’ति इमिना पातिमोक्खसंवरं उद्दिसित्वा ‘‘सम्पन्नपातिमोक्खा’’ति तस्सेव वेवचनं वत्वा तं वित्थारेत्वा दस्सेन्तो पातिमोक्खसंवरसंवुतातिआदिमाह. तत्थ पातिमोक्खसंवरसंवुत्तातिआदीनि वुत्तत्थानेव. आकङ्खेय्य चेति इदं कस्मा आरद्धन्ति? सीलानिसंसदस्सनत्थं. सचेपि अचिरपब्बजितानं वा दुप्पञ्ञानं वा एवमस्स ‘‘भगवा ‘सीलं पूरेथ सीलं पूरेथा’ति वदति, को नु खो सीलपूरणे आनिसंसो, को विसेसो, का वड्ढी’’ति तेसं दस आनिसंसे दस्सेतुं एवमाह – ‘‘अप्पेव नाम एतं सब्रह्मचारीनं पियमनापतादिआसवक्खयपरियोसानं आनिसंसं सुत्वापि सीलं परिपूरेय्यु’’न्ति.

तत्थ आकङ्खेय्य चेति यदि इच्छेय्य. पियो चस्सन्ति पियचक्खूहि सम्पस्सितब्बो, सिनेहुप्पत्तिया पदट्ठानभूतो भवेय्यं. मनापोति तेसं मनवड्ढनको, तेसं वा मनेन पत्तब्बो, मेत्तचित्तेन फरितब्बोति अत्थो. गरूति तेसं गरुट्ठानियो पासाणच्छत्तसदिसो. भावनीयोति ‘‘अद्धायमायस्मा जानं जानाति पस्सं पस्सती’’ति एवं सम्भावनीयो. सीलेस्वेवस्स परिपूरकारीति चतुपारिसुद्धिसीलेसुयेव परिपूरकारी अस्स, अनूनेन आकारेन समन्नागतो भवेय्याति वुत्तं होति. अज्झत्तं चेतोसमथमनुयुत्तोति अत्तनो चित्तसमथे युत्तो. अनिराकतज्झानोति बहि अनीहटज्झानो, अविनासितज्झानो वा. विपस्सनायाति सत्तविधाय अनुपस्सनाय. ब्रूहेता सुञ्ञागारानन्ति वड्ढेता सुञ्ञागारानं. एत्थ च समथविपस्सनावसेन कम्मट्ठानं गहेत्वा रत्तिन्दिवं सुञ्ञागारं पविसित्वा निसीदमानो भिक्खु ‘‘ब्रूहेता सुञ्ञागारान’’न्ति वेदितब्बो. अयमेत्थ सङ्खेपो, वित्थारो पन इच्छन्तेन मज्झिमनिकायट्ठकथाय (म. नि. अट्ठ. १.६४ आदयो) आकङ्खेय्यसुत्तवण्णनाय ओलोकेतब्बो.

लाभीति एत्थ न भगवा लाभनिमित्तं सीलादिपरिपूरणं कथेति. भगवा हि ‘‘घासेसनं छिन्नकथो, न वाचं पयुतं भणे’’ति (सु. नि. ७१६) एवं सावके ओवदति. सो कथं लाभनिमित्तं सीलादिपरिपूरणं कथेय्य. पुग्गलज्झासयवसेन पनेतं वुत्तं. येसञ्हि एवं अज्झासयो भवेय्य ‘‘सचे मयं चतूहि पच्चयेहि न किलमेय्याम, सीलानि परिपूरेतुं सक्कुणेय्यामा’’ति, तेसं अज्झासयवसेनेवमाह. अपिच सरसानिसंसो एस सीलस्स यदिदं चत्तारो पच्चया नाम. तथा हि पण्डितमनुस्सा कोट्ठादीसु ठपितं नीहरित्वा अत्तनापि अपरिभुञ्जित्वा सीलवन्तानं देन्तीति सीलस्स सरसानिसंसदस्सनत्थम्पेतं वुत्तं.

ततियवारे येसाहन्ति येसं अहं. तेसं ते काराति तेसं देवानं वा मनुस्सानं वा ते मयि कता पच्चयदानकारा. महप्फला होन्तु महानिसंसाति लोकियसुखेन फलभूतेन महप्फला, लोकुत्तरेन महानिसंसा. उभयं वा एतं एकत्थमेव. सीलादिगुणयुत्तस्स हि कटच्छुभिक्खापि पञ्चरतनमत्ताय भूमिया पण्णसालापि कत्वा दिन्ना अनेकानि कप्पसहस्सानि दुग्गतिविनिपाततो रक्खति, परियोसाने च अमताय धातुया परिनिब्बानस्स पच्चयो होति. ‘‘खीरोदनं अहमदासि’’न्तिआदीनि (वि. व. ४१३) चेत्थ वत्थूनि. सकलमेव वा पेतवत्थु विमानवत्थु च साधकं.

चतुत्थवारे पेताति पेच्चभवं गता. ञातीति सस्सुससुरपक्खिका. सालोहिताति एकलोहितबद्धा पितिपितामहादयो. कालङ्कताति मता. तेसं तन्ति तेसं तं मयि पसन्नचित्तं, तं वा पसन्नेन चित्तेन अनुस्सरणं. यस्स हि भिक्खुनो कालकतो पिता वा माता वा ‘‘अम्हाकं ञातकत्थेरो सीलवा कल्याणधम्मो’’ति पसन्नचित्तो हुत्वा तं भिक्खुं अनुस्सरति, तस्स सो चित्तप्पसादोपि तं अनुस्सरणमत्तम्पि महप्फलं महानिसंसमेव होति.

अरतिरतिसहोति नेक्खम्मपटिपत्तिया अरतिया कामगुणेसु रतिया च सहो अभिभविता अज्झोत्थरिता. भयभेरवसहोति एत्थ भयं चित्तुत्रासोपि आरम्मणम्पि, भेरवं आरम्मणमेव.