९. पठमकोसलसुत्तवण्णना
२९. नवमे यावताति यत्तका. कासिकोसलाति कासिकोसलजनपदा. अत्थेव अञ्ञथत्तन्ति ठितस्स अञ्ञथत्तं अत्थियेव. अत्थि विपरिणामोति मरणम्पि अत्थियेव. तस्मिम्पि निब्बिन्दतीति तस्मिम्पि सम्पत्तिजाते उक्कण्ठति. अग्गे विरज्जतीति सम्पत्तिया अग्गे कोसलराजभावे विरज्जति. पगेव हीनस्मिन्ति पठमतरंयेव हीने इत्तरमनुस्सानं पञ्च कामगुणजाते.
मनोमयाति झानमनेन निब्बत्ता. बाराणसेय्यकन्ति बाराणसियं उप्पन्नं. तत्थ किर कप्पासोपि मुदु, सुत्तकन्तिकायोपि तन्तवायापि छेका, उदकम्पि सुचि सिनिद्धं. उभतोभागविमट्ठन्ति द्वीसुपि पस्सेसु मट्ठं मुदु सिनिद्धं खायति. चतस्सो पटिपदा लोकियलोकुत्तरमिस्सिका कथिता. सञ्ञासु पठमा कामावचरसञ्ञा, दुतिया रूपावचरसञ्ञा, ततिया लोकुत्तरसञ्ञा, चतुत्था आकिञ्चञ्ञायतनसञ्ञा. यस्मा पन सा सञ्ञा अग्गाति आगता, ततो परं सञ्ञापञ्ञत्ति नाम नत्थि, तस्मा अग्गन्ति वुत्ता.
बाहिरकानन्ति सासनतो बहिद्धा पवत्तानं. नो चस्सं नो च मे सियाति सचे अहं अतीते न भविस्सं, एतरहिपि मे अयं अत्तभावो न सिया. न भविस्सामि न मे भविस्सतीति सचेपि अनागते न भविस्सामि, न च मे किञ्चि पलिबोधजातं भविस्सति. अग्गे विरज्जतीति उच्छेददिट्ठियं विरज्जति. उच्छेददिट्ठि हि इध निब्बानस्स सन्तताय अग्गन्ति जाता.
परमत्थविसुद्धिन्ति उत्तमत्थविसुद्धिं. नेवसञ्ञानासञ्ञायतनसमापत्तिया एतं अधिवचनं. आकिञ्चञ्ञायतनञ्हि विपस्सनापदट्ठानत्ता अग्गं नाम जातं, नेवसञ्ञानासञ्ञायतनं दीघायुकत्ता. परमदिट्ठधम्मनिब्बानन्ति इमस्मिञ्ञेव अत्तभावे परमनिब्बानं. अनुपादा विमोक्खोति चतूहि उपादानेहि अग्गहेत्वा चित्तस्स विमोक्खो. अरहत्तस्सेतं नामं. परिञ्ञन्ति समतिक्कमं. तत्थ भगवा पठमज्झानेन कामानं परिञ्ञं पञ्ञापेति, अरूपावचरेहि रूपानं परिञ्ञं पञ्ञापेति, अनुपादानिब्बानेन वेदनानं परिञ्ञं पञ्ञापेति. निब्बानञ्हि सब्बवेदयितप्पहानत्ता वेदनानं परिञ्ञा नाम. अनुपादापरिनिब्बानन्ति अपच्चयपरिनिब्बानं. इदं पन सुत्तं कथेन्तो भगवा अनभिरतिपीळितानि पञ्च भिक्खुसतानि दिस्वा तेसं अनभिरतिविनोदनत्थं कथेसि. तेपि अनभिरतिं विनोदेत्वा देसनानुसारेन ञाणं पेसेत्वा सोतापन्ना हुत्वा अपरभागे विपस्सनं वड्ढेत्वा अरहत्तं पापुणिंसूति.