७. पठमनाथसुत्तवण्णना

१७. सत्तमे सनाथाति सञातका बहुञातिवग्गा हुत्वा विहरथ. नाथं करोन्तीति नाथकरणा, अत्तनो सनाथभावकरा पतिट्ठाकराति अत्थो. कल्याणमित्तोतिआदीसु सीलादिगुणसम्पन्ना कल्याणा मित्ता अस्साति कल्याणमित्तो. तेवस्स ठाननिसज्जादीसु सह अयनतो सहायाति कल्याणसहायो. चित्तेन चेव कायेन च कल्याणमित्तेसुयेव सम्पवङ्को ओणतोति कल्याणसम्पवङ्को. सुवचो होतीति सुखेन वत्तब्बो होति, सुखेन अनुसासितब्बो. खमोति गाळ्हेन फरुसेन कक्खळेन वुत्तो खमति न कुप्पति. पदक्खिणग्गाही अनुसासनिन्ति यथा एकच्चो ओवदियमानो वामतो गण्हाति, पटिप्फरति वा, अस्सुणन्तो वा गच्छति, एवं अकत्वा ‘‘ओवदथ, भन्ते, अनुसासथ, तुम्हेसु अनोवदन्तेसु को अञ्ञो ओवदिस्सती’’ति पदक्खिणं गण्हाति.

उच्चावचानीति उच्चनीचानि. किंकरणीयानीति ‘‘किं करोमी’’ति एवं वत्वा कत्तब्बकम्मानि. तत्थ उच्चकम्मं नाम चीवरस्स करणं रजनं, चेतिये सुधाकम्मं, उपोसथागारचेतियघरबोधिघरेसु कत्तब्बकम्मन्ति एवमादि. अवचकम्मं नाम पादधोवनमक्खनादिखुद्दककम्मं. तत्रूपायायाति तत्रुपगमनियाय. अलं कातुन्ति कातुं समत्थो होति. अलं संविधातुन्ति विचारेतुं समत्थो होति.

धम्मे अस्स कामो सिनेहोति धम्मकामो, तेपिटकं बुद्धवचनं पियायतीति अत्थो. पियसमुदाहारोति परस्मिं कथेन्ते सक्कच्चं सुणाति, सयञ्च परेसं देसेतुकामो होतीति अत्थो. अभिधम्मे अभिविनयेति एत्थ धम्मो अभिधम्मो, विनयो अभिविनयोति चतुक्कं वेदितब्बं. तत्थ धम्मोति सुत्तन्तपिटकं. अभिधम्मोति सत्त पकरणानि. विनयोति उभतोविभङ्गो. अभिविनयोति खन्धकपरिवारा. अथ वा सुत्तन्तपिटकम्पि अभिधम्मपिटकम्पि धम्मो एव, मग्गफलानि अभिधम्मो. सकलविनयपिटकं विनयो, किलेसवूपसमकरणं अभिविनयो. इति सब्बस्मिम्पि एत्थ धम्मे च अभिधम्मे च विनये च अभिविनये च उळारपामोज्जो होतीति अत्थो. कुसलेसु धम्मेसूति कारणत्थे भुम्मं, चातुभूमककुसलधम्मकारणा तेसं अधिगमत्थाय अनिक्खित्तधुरो होतीति अत्थो.