१४. एतदग्गवग्गो

(१४) ३. ततियएतदग्गवग्गो

२०९. ततियवग्गस्स पठमे सिक्खाकामानन्ति तिस्सो सिक्खा कामयमानानं सम्पियायित्वा सिक्खन्तानन्ति अत्थो. राहुलोति अत्तनो पुत्तं राहुलत्थेरं दस्सेति. थेरो किर पब्बजितदिवसतो पट्ठाय पातोव उट्ठहन्तो हत्थपूरं वालिकं उक्खिपित्वा ‘‘अहो वताहं अज्ज दसबलस्स चेव आचरियुपज्झायानञ्च सन्तिका एत्तकं ओवादञ्चेव अनुसासनिञ्च लभेय्य’’न्ति पत्थेति. तस्मा सिक्खाकामानं अग्गो नाम जातोति.

२१०. दुतिये सद्धापब्बजितानन्ति सद्धाय पब्बजितानं. रट्ठपालोति रट्ठं पालेतुं समत्थो, भिन्नं वा रट्ठं सन्धारेतुं समत्थे कुले जातोतिपि रट्ठपालोति सङ्खं गतो. सो हि सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो चुद्दसभत्तच्छेदे कत्वा मातापितरो पब्बज्जं अनुजानापेत्वा पब्बजितो. तस्मा सद्धापब्बजितानं अग्गो नाम जातो.

राहुल-रट्ठपालत्थेरवत्थु

इमेसं पन उभिन्नम्पि थेरानं पञ्हकम्मे अयमनुपुब्बिकथा – एते किर द्वेपि अतीते पदुमुत्तरबुद्धकाले हंसवतीनगरे गहपतिमहासालकुले निब्बत्तिंसु. तेसं दहरकाले नामं वा गोत्तं वा न कथियति. वयप्पत्ता पन घरावासे पतिट्ठाय अत्तनो अत्तनो पितु अच्चयेन उभोपि अत्तनो अत्तनो रतनकोट्ठागारकम्मिके पक्कोसापेत्वा अपरिमाणं धनं दिस्वा – ‘‘इमं एत्तकं धनरासिं अय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, अम्हेहि दानि येन केनचि उपायेन इमं धनं गहेत्वा गन्तुं वट्टती’’ति ते उभोपि जना चतूसु ठानेसु कपणद्धिकादीनं महादानं दातुं आरद्धा. एको अत्तनो दानग्गे आगतागतजनं पुच्छित्वा यागुखज्जकादीसु यस्स यं पटिभाति, तस्स तं अदासि, तस्स तेनेव कारणेन आगतपाकोति नामं जातं. इतरो अपुच्छित्वाव गहितगहितभाजनं पूरेत्वा पूरेत्वा देति, तस्सपि तेनेव कारणेन अनग्गपाकोति नामं जातं, अप्पमाणपाकोति अत्थो.

ते उभोपि एकदिवसं पातोव मुखधोवनत्थं बहिगामं अगमंसु. तस्मिं समये हिमवन्ततो द्वे महिद्धिका तापसा भिक्खाचारत्थाय आकासेन आगन्त्वा तेसं सहायकानं अविदूरे ओतरित्वा ‘‘मा नो एते पस्सिंसू’’ति एकपस्से अट्ठंसु. ते उभोपि जना तेसं लाबुभाजनादिपरिक्खारं संविधाय अन्तोगामं सन्धाय भिक्खाय गतानं सन्तिकं आगम्म वन्दिंसु. अथ ने तापसा ‘‘काय वेलाय आगतत्थ महापुञ्ञा’’ति आहंसु. ते ‘‘अधुनाव, भन्ते’’ति वत्वा तेसं हत्थतो लाबुभाजनं गहेत्वा अत्तनो अत्तनो गेहं नेत्वा भत्तकिच्चपरियोसाने निबद्धं भिक्खागहणत्थं पटिञ्ञं गण्हिंसु.

तेसु एको तापसो सपरिळाहकायधातुको होति. सो अत्तनो आनुभावेन महासमुद्दउदकं द्वेधा कत्वा पथविन्धरनागराजस्स भवनं गन्त्वा दिवाविहारं निसीदति. सो उतुसप्पायं गहेत्वा पच्चागन्त्वा अत्तनो उपट्ठाकस्स गेहे भत्तानुमोदनं करोन्तो ‘‘पथविन्धरनागभवनं विय होतू’’ति वदति. अथ नं एकदिवसं उपट्ठाको पुच्छि – ‘‘भन्ते, तुम्हे अनुमोदनं करोन्ता ‘पथविन्धरनागभवनं विय होतू’ति वदथ, मयमस्स अत्थं न जानाम, किं वुत्तं होति इदं, भन्ते’’ति? आम, कुटुम्बिय अहं ‘‘तुम्हाकं सम्पत्ति पथविन्धरनागराजसम्पत्तिसदिसा होतू’’ति वदामीति. कुटुम्बिको ततो पट्ठाय पथविन्धरनागराजभवने चित्तं ठपेसि.

इतरो तापसो तावतिंसभवनं गन्त्वा सुञ्ञे सेरिसकविमाने दिवाविहारं करोति. सो आगच्छन्तो गच्छन्तो च सक्कस्स देवराजस्स सम्पत्तिं दिस्वा अत्तनो उपट्ठाकस्स अनुमोदनं करोन्तो ‘‘सक्कविमानं विय होतू’’ति वदति. अथ नं सोपि कुटुम्बियो इतरो सहायको तं तापसं विय पुच्छि. सो तस्स वचनं सुत्वा सक्कभवने चित्तं ठपेसि. ते उभोपि पत्थितट्ठानेसुयेव निब्बत्ता.

पथविन्धरभवने निब्बत्तो पथविन्धरनागराजा नाम जातो. सो निब्बत्तक्खणे अत्तनो अत्तभावं दिस्वा ‘‘अमनापस्स वत मे ठानस्स कुलुपकतापसो वण्णं कथेसि, उरेन परिसक्कित्वा विचरणट्ठानमेतं, नून सो अञ्ञं ठानं न जानाती’’ति विप्पटिसारी अहोसि. अथस्स तंखणेयेव अलङ्कतपटियत्तानि नागनाटकानि सब्बदिसासु तूरियानि पग्गण्हिंसु. सो तस्मिंयेव खणे तं अत्तभावं विजहित्वा माणवकवण्णी अहोसि. अन्वद्धमासञ्च चत्तारो महाराजानो सक्कस्स उपट्ठानं गच्छन्ति. तस्मा सोपि विरूपक्खेन नागरञ्ञा सद्धिं सक्कस्स उपट्ठानं गतो. सक्को तं दूरतोव आगच्छन्तं दिस्वा सञ्जानि. अथ नं समीपे आगन्त्वा ठितकाले ‘‘कहं निब्बत्तोसि सम्मा’’ति पुच्छि. मा कथेसि, महाराज, उरेन परिसक्कनट्ठाने निब्बत्तोम्हि, तुम्हे पन कल्याणमित्तं लभित्थाति. सम्म, त्वं ‘‘अट्ठाने निब्बत्तोम्ही’’ति मा वितक्कयि, पदुमुत्तरदसबलो लोके निब्बत्तो, तस्स अधिकारकम्मं कत्वा इमंयेव ठानं पत्थेहि, उभो सुखं वसिस्सामाति. सो ‘‘एवं, देव, करिस्सामी’’ति गन्त्वा पदुमुत्तरदसबलं निमन्तेत्वा अत्तनो नागभवने नागपरिसाय सद्धिं सब्बरत्तिं सक्कारसम्मानं सज्जेसि.

सत्था पुनदिवसे उट्ठिते अरुणे अत्तनो उपट्ठाकं सुमनत्थेरं आमन्तेसि – ‘‘सुमन, अज्ज तथागतो दूरं भिक्खाचारं गमिस्सति, मा पुथुज्जनभिक्खू आगच्छन्तु, तेपिटका पटिसम्भिदाप्पत्ता छळभिञ्ञाव आगच्छन्तू’’ति. थेरो सत्थु वचनं सुत्वा सब्बेसं आरोचेसि. सत्थारा सद्धिं सतसहस्सा भिक्खू आकासं पक्खन्दिंसु. पथविन्धरो नागपरिसाय सद्धिं दसबलस्स पच्चुग्गमनं आगतो सत्थारं परिवारेत्वा समुद्दमत्थके मणिवण्णा ऊमियो मद्दमानं भिक्खुसङ्घं ओलोकेत्वा आदितो सत्थारं, परियोसाने सङ्घनवकं तथागतस्स पुत्तं उपरेवतसामणेरं नाम ओलोकेन्तो ‘‘अनच्छरियो सेससावकानं एवरूपो इद्धानुभावो, इमस्स पन तरुणबालदारकस्स एवरूपो इद्धानुभावो अतिविय अच्छरियो’’ति पीतिपामोज्जं उप्पादेसि.

अथस्स भवने दसबले निसिन्ने सेसभिक्खूसु कोटितो पट्ठाय निसीदन्तेसु सत्थु सम्मुखट्ठानेयेव उपरेवतसामणेरस्स आसनं पापुणि. नागराजा यागुं देन्तोपि खज्जकं देन्तोपि सकिं दसबलं ओलोकेति, सकिं उपरेवतसामणेरं. तस्स किर सरीरे सत्थु सरीरे विय द्वत्तिंस महापुरिसलक्खणानि पञ्ञायन्ति. ततो नागराजा ‘‘अयं सामणेरो बुद्धानं सदिसो पञ्ञायति, किं नु खो होती’’ति अविदूरे निसिन्नं अञ्ञतरं भिक्खुं पुच्छि – ‘‘अयं, भन्ते, सामणेरो दसबलस्स किं होती’’ति? पुत्तो, महाराजाति. सो चिन्तेसि – ‘‘महा वतायं भिक्खु, एवरूपस्स सोभग्गप्पत्तस्स तथागतस्स पुत्तभावं लभि. सरीरम्पिस्स एकदेसेन बुद्धानं सरीरसदिसं पञ्ञायति, मयापि अनागते एवरूपेन भवितुं वट्टती’’ति सत्ताहं महादानं दत्वा, ‘‘भन्ते, अहं इमस्स अधिकारकम्मस्सानुभावेन अयं उपरेवतो विय अनागते एकस्स बुद्धस्स पुत्तो भवेय्य’’न्ति पत्थनं अकासि. सत्था अनन्तरायं दिस्वा ‘‘अनागते गोतमबुद्धस्स पुत्तो भविस्ससी’’ति ब्याकरित्वा पक्कामि.

पथविन्धरोपि पुन अद्धमासे सम्पत्ते विरूपक्खेन सद्धिं सक्कस्स उपट्ठानं गतो. अथ नं समीपे ठितं सक्को पुच्छि – ‘‘पत्थितो ते, सम्म, अयं देवलोको’’ति? न पत्थितो महाराजाति. किं दोसं अद्दसाति? दोसो नत्थि, महाराज, अहं पन दसबलस्स पुत्तं उपरेवतसामणेरं पस्सिं. तस्स मे दिट्ठकालतो पट्ठाय अञ्ञत्थ चित्तं न नमि, स्वाहं ‘‘अनागते एकस्स बुद्धस्स एवरूपो पुत्तो भवेय्य’’न्ति पत्थनं अकासिं. त्वम्पि, महाराज, एकं पत्थनं करोहि, ते मयं निब्बत्तट्ठाने न विना भविस्सामाति. सक्को तस्स वचनं सम्पटिच्छित्वा एकं महानुभावं भिक्खुं दिस्वा ‘‘कतरकुला नु खो निक्खमित्वा अयं कुलपुत्तो पब्बजितो’’ति आवज्जेन्तो ‘‘अयं भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स पुत्तो हुत्वा चुद्दस भत्तच्छेदे कत्वा मातापितरो पब्बज्जं अनुजानापेत्वा पब्बजितो’’ति अञ्ञासि. ञत्वा च पन अजानन्तो विय दसबलं पुच्छित्वा सत्ताहं महासक्कारं कत्वा, ‘‘भन्ते, अहं इमस्स कल्याणकम्मस्स निस्सन्देन तुम्हाकं सासने अयं कुलपुत्तो विय अनागते एकस्स बुद्धस्स सासने सद्धापब्बजितानं अग्गो भवेय्य’’न्ति पत्थनं अकासि. सत्था अनन्तरायं दिस्वा ‘‘त्वं, महाराज, अनागते गोतमस्स बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्ससी’’ति ब्याकरित्वा पक्कामि. सक्कोपि अत्तनो देवपुरमेव गतो.

ते उभोपि निब्बत्तट्ठानतो चवित्वा देवमनुस्सेसु संसरन्ता अनेकसहस्सकप्पे अतिक्कमिंसु. इतो पन द्वानवुतिकप्पमत्थके फुस्सो नाम बुद्धो लोके उदपादि. तस्स पिता महिन्दो नाम राजा अहोसि, वेमातिका तयो कनिट्ठभातरो. राजा दिवसे दिवसे ‘‘मय्हंयेव बुद्धो मय्हं धम्मो मय्हं सङ्घो’’ति ममायन्तो सयमेव दसबलं निबद्धं भोजनं भोजेति.

अथस्स एकदिवसं पच्चन्तो कुपितो. सो पुत्ते आमन्तेसि – ‘‘ताता, पच्चन्तो कुपितो, तुम्हेहि वा मया वा गन्तब्बं. यदि अहं गच्छामि, तुम्हेहि इमिना नियामेन दसबलो परिचरितब्बो’’ति. ते तयोपि एकप्पहारेनेव आहंसु – ‘‘तात, तुम्हाकं गमनकिच्चं नत्थि, मयं चोरे विधमिस्सामा’’ति पितरं वन्दित्वा पच्चन्तं गन्त्वा चोरे विधमित्वा विजितसङ्गामा हुत्वा निवत्तिंसु. ते अन्तरामग्गे पादमूलिकेहि सद्धिं मन्तयिंसु – ‘‘ताता, अम्हाकं गतक्खणेयेव पिता वरं दस्सति, कतरं वरं गण्हामा’’ति? अय्या, तुम्हाकं पितु अच्चयेन दुल्लभं नाम नत्थि, तुम्हाकं पन जेट्ठभातिकं फुस्सबुद्धं पटिजग्गनवरं गण्हथा’’ति आहंसु. ते ‘‘कल्याणं तुम्हेहि वुत्त’’न्ति सब्बेपि एकचित्ता हुत्वा गन्त्वा पितरं अद्दसंसु. तदा पिता तेसं पसीदित्वा वरं अदासि. ते ‘‘तेमासं तथागतं पटिजग्गिस्सामा’’ति वरं याचिंसु. राजा ‘‘अयं दातुं न सक्का, अञ्ञं वरं गण्हथा’’ति आह. तात, अम्हाकं अञ्ञेन वरेन किच्चं नत्थि, सचे तुम्हे दातुकामा, एतंयेव नो वरं देथाति. राजा तेसु पुनप्पुनं कथेन्तेसु अत्तना पटिञ्ञातत्ता ‘‘न सक्का न दातु’’न्ति चिन्तेत्वा आह – ‘‘ताता, अहं तुम्हाकं वरं देमि, अपिच खो पन बुद्धा नाम दुरासदा होन्ति सीहा विय एकचरा, दसबलं पटिजग्गन्ता अप्पमत्ता भवेय्याथा’’ति.

ते चिन्तयिंसु – ‘‘अम्हेहि तथागतं पटिजग्गन्तेहि अनुच्छविकं कत्वा पटिजग्गितुं वट्टती’’ति सब्बेपि एकचित्ता हुत्वा दससीलानि समादाय निरामगन्धा हुत्वा सत्थु दानग्गपरिवहनके तयो पुरिसे ठपयिंसु. तेसु एको धनधञ्ञुप्पादको अहोसि, एको मापको, एको दानसंविधायको. तेसु धनधञ्ञुप्पादको पच्चुप्पन्ने बिम्बिसारो महाराजा जातो, मापको विसाखो उपासको, दानसंविधायको रट्ठपालत्थेरोति. सो तत्थ यावजीवं कुसलं कत्वा देवपुरे निब्बत्तो. अयं पन राहुलत्थेरो नाम कस्सपदसबलस्स काले किकिस्स कासिरञ्ञो जेट्ठपुत्तो हुत्वा निब्बत्ति, पथविन्धरकुमारोतिस्स नामं अकंसु. तस्स सत्त भगिनियो अहेसुं. ता दसबलस्स सत्त परिवेणानि कारयिंसु. पथविन्धरो ओपरज्जं लभि. सो ता भगिनियो आह – ‘‘तुम्हेहि कारितपरिवेणेसु मय्हम्पि एकं देथा’’ति. भातिक, तुम्हे उपराजट्ठाने ठिता, तुम्हेहि नाम अम्हाकं दातब्बं, तुम्हे अञ्ञं परिवेणं करोथाति. सो तासं वचनं सुत्वा पञ्च विहारसतानि कारेसि. पञ्च परिवेणसतानीतिपि वदन्ति. सो तत्थ यावजीवं कुसलं कत्वा देवपुरे निब्बत्ति. इमस्मिं पन बुद्धुप्पादे पथविन्धरकुमारो अम्हाकं बोधिसत्तस्स अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हि, तस्स सहायको कुरुरट्ठे थुल्लकोट्ठितनिगमे रट्ठपालसेट्ठिगेहे निब्बत्ति.

अथ अम्हाकं दसबलो अभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्को अनुपुब्बेन कपिलवत्थुं आगन्त्वा राहुलकुमारं पब्बाजेसि. तस्स पब्बज्जाविधानं पाळियं (महाव. १०५) आगतमेव. एवं पब्बजितस्स पनस्स सत्था अभिण्हओवादवसेन राहुलोवादसुत्तं अभासि. राहुलोपि पातोव वुट्ठाय हत्थेन वालुकं उक्खिपित्वा ‘‘दसबलस्स चेव आचरियुपज्झायानञ्च सन्तिका अज्ज एत्तकं ओवादं लभेय्य’’न्ति वदति. भिक्खुसङ्घमज्झे कथा उदपादि ‘‘ओवादक्खमो वत राहुलसामणेरो पितु अनुच्छविको पुत्तो’’ति. सत्था भिक्खूनं चित्ताचारं ञत्वा ‘‘मयि गते एका धम्मदेसना च वड्ढिस्सति, राहुलस्स च गुणो पाकटो भविस्सती’’ति गन्त्वा धम्मसभायं बुद्धासाने निसिन्नो भिक्खू आमन्तेसि – ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति. राहुलसामणेरस्स ओवादक्खमभावं कथेम भगवाति. सत्था इमस्मिं ठाने ठत्वा राहुलस्स गुणदीपनत्थं मिगजातकं आहरित्वा कथेसि –

‘‘मिगं तिपल्लत्थमनेकमायं,

अट्ठक्खुरं अड्ढरत्ता पपायिं;

एकेन सोतेन छमा’स्ससन्तो,

छहि कलाहितिभोति भागिनेय्यो’’ति. (जा. १.१.१६);

अथस्स सत्तवस्सिकसामणेरकाले ‘‘मा हेव खो राहुलो दहरभावेन कीळनत्थायपि सम्पजानमुसा भासेय्या’’ति अम्बलट्ठियराहुलोवादं (म. नि. २.१०७ आदयो) देसेसि. अट्ठारसवस्सिकसामणेरकाले तथागतस्स पच्छतो पिण्डाय पविसन्तस्स सत्थु चेव अत्तनो च रूपसम्पत्तिं दिस्वा गेहसितं वितक्कं वितक्केन्तस्स ‘‘यंकिञ्चि, राहुल, रूप’’न्तिआदिना नयेन महाराहुलोवादसुत्तन्तं (म. नि. २.११३) कथेसि. संयुत्तके (सं. नि. ४.१२१) पन राहुलोवादोपि अङ्गुत्तरे (अ. नि. ४.१७७) राहुलोवादोपि थेरस्स विपस्सनाचारोयेव. अथस्स सत्था ञाणपरिपाकं ञत्वा अवस्सिकभिक्खुकाले अन्धवने निसिन्नो चूळराहुलोवादं (म. नि. ३.४१६ आदयो) कथेसि. देसनापरियोसाने राहुलत्थेरो कोटिसतसहस्सदेवताहि सद्धिं अरहत्तं पापुणि, सोतापन्नसकदागामिअनागामिदेवतानं गणना नत्थि. अथ सत्था अपरभागे अरियसङ्घमज्झे निसिन्नो थेरं इमस्मिं सासने सिक्खाकामानं अग्गट्ठाने ठपेसि.

सत्थरि पन कुरुरट्ठे चारिकाय निक्खमित्वा थुल्लकोट्ठितं अनुप्पत्ते रट्ठपालो कुलपुत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो मातापितरो अनुजानापेत्वा दसबलं उपसङ्कमित्वा सत्थु आणत्तिया अञ्ञतरस्स थेरस्स सन्तिके पब्बजि. तस्स पब्बजितदिवसतो पट्ठाय सेट्ठिगहपति भिक्खू अत्तनो निवेसनद्वारेन गच्छन्ते दिस्वा ‘‘किं तुम्हाकं इमस्मिं गेहे कम्मं, एकोव पुत्तको अहोसि, तं गण्हित्वा गतत्थ, इदानि किं करिस्सथा’’ति अक्कोसति परिभासति. सत्था अद्धमासं थुल्लकोट्ठिते वसित्वा पुन सावत्थिमेव अगमासि. तत्थायस्मा रट्ठपालो योनिसो मनसिकरोन्तो कम्मं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो सत्थारं अनुजानापेत्वा मातापितरो दस्सनत्थं थुल्लकोट्ठितं गन्त्वा तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्जन्तो पितरा निमन्तितो अधिवासेत्वा दुतियदिवसे पितु निवेसने पिण्डपातं परिभुञ्जित्वा अलङ्कतपटियत्ते इत्थिजने असुभसञ्ञं उप्पादेत्वा ठितकोव धम्मं देसेत्वा जिया मुत्तो विय नाराचो आकासं उप्पतित्वा कोरब्यरञ्ञो मिगचीरं गन्त्वा मङ्गलसिलापट्टे निसिन्नो दस्सनत्थाय आगतस्स रञ्ञो चतुपारिजुञ्ञपटिमण्डितं धम्मं (म. नि. २.३०४) देसेत्वा अनुपुब्बेन चारिकं चरमानो पुन सत्थु सन्तिकंयेव आगतो. एवमेतं वत्थु समुट्ठितं. अथ सत्था अपरभागे अरियगणमज्झे निसिन्नो थेरं इमस्मिं सासने सद्धापब्बजितानं कुलपुत्तानं अग्गट्ठाने ठपेसीति.

कुण्डधानत्थेरवत्थु

२११. ततिये पठमं सलाकं गण्हन्तानन्ति सब्बपठमं सलाकगाहकानं भिक्खूनं कुण्डधानत्थेरो अग्गोति दस्सेति. सो किर थेरो महासुभद्दाय निमन्तितदिवसे तथागते उग्गनगरं गच्छन्ते ‘‘अज्ज सत्था दूरं भिक्खाचारं गमिस्सति, पुथुज्जना सलाकं मा गण्हन्तु, पञ्चसता खीणासवाव गण्हन्तू’’ति वुत्ते पठममेव सीहनादं नदित्वा सलाकं गण्हि. चूळसुभद्दाय निमन्तितदिवसे तथागते साकेतं गच्छन्तेपि पञ्चन्नं भिक्खुसतानं अन्तरे पठममेव सलाकं गण्हि, सुनापरन्तजनपदं गच्छन्तेपि. इमेहि कारणेहि थेरो पठमं सलाकं गण्हन्तानं अग्गो नाम जातो. कुण्डधानोति पनस्स नामं.

तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो वुत्तनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेन्तं दिस्वा बुद्धानं अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा सत्थारा अनन्तरायं दिस्वा ब्याकतो यावजीवं कुसलं कत्वा देवेसु च मनुस्सेसु च संसरन्तो कस्सपबुद्धकाले भूमट्ठकदेवता हुत्वा निब्बत्ति. दीघायुकबुद्धानञ्च नाम न अन्वद्धमासिको उपोसथो होति. विपस्सीदसबलस्स हि छब्बस्सन्तरे छब्बस्सन्तरे उपोसथो अहोसि, कस्सपदसबलो पन छट्ठे छट्ठे मासे पातिमोक्खं ओसारेसि. तस्स पातिमोक्खं ओसारणकाले दिसावासिका द्वे सहायका भिक्खू ‘‘उपोसथं करिस्सामा’’ति गच्छन्ति. अयं भुम्मदेवता चिन्तेसि – ‘‘इमेसं द्विन्नं भिक्खूनं मेत्ति अतिविय दळ्हा, किं नु खो भेदके सति भिज्जेय्य, न भिज्जेय्या’’ति? तेसं ओकासं ओलोकयमाना तेसं अविदूरेनेव गच्छति.

अथेको थेरो एकस्स हत्थे पत्तचीवरं दत्वा सरीरवळञ्जनत्थं उदकफासुकट्ठानं गन्त्वा धोतहत्थपादो हुत्वा गुम्बसभागतो निक्खमति. भुम्मदेवता तस्स थेरस्स पच्छतो पच्छतो उत्तमरूपा इत्थी हुत्वा केसे विधुनित्वा संविधाय बन्धन्ती विय पिट्ठितो पंसुं पुञ्छमाना विय साटकं संविधाय निवासयमाना विय च हुत्वा थेरस्स पदानुपदिका हुत्वा गुम्बतो निक्खन्ता. एकमन्ते ठितो सहायकत्थेरो इमं कारणं दिस्वा दोमनस्सजातो ‘‘नट्ठो दानि मे इमिना भिक्खुना सद्धिं दीघरत्तानुगतो सिनेहो. सचाहं एवंविधभावं जानेय्यं, एत्तकं अद्धानं इमिना सद्धिं विस्सासं न करेय्य’’न्ति चिन्तेत्वा आगच्छन्तस्सेवस्स ‘‘हन्दावुसो, तुय्हं पत्तचीवरं, तादिसेन पापेन सहायेन सद्धिं एकमग्गं न गच्छामी’’ति आह. तं कथं सुत्वा तस्स लज्जिभिक्खुनो हदयं तिखिणसत्तिं गहेत्वा विद्धं विय अहोसि. ततो नं आह – ‘‘आवुसो, किं नामेतं वदसि, अहं एत्तकं कालं दुक्कटमत्तम्पि आपत्तिं न जानामि. त्वं पन मं अज्ज ‘पापो’ति वदसि, किं ते दिट्ठ’’न्ति? किं अञ्ञेन दिट्ठेन, किं त्वं एवंविधेन अलङ्कतपटियत्तेन मातुगामेन सद्धिं एकट्ठाने हुत्वा निक्खन्तोति? नत्थेतं, आवुसो, मय्हं, नाहं एवरूपं मातुगामं पस्सामीति. तस्स यावततियं कथेन्तस्सापि इतरो थेरो कथं असद्दहित्वा अत्तना दिट्ठकारणंयेव अत्थं गहेत्वा तेन सद्धिं एकमग्गेन अगन्त्वा अञ्ञेन मग्गेन सत्थु सन्तिकं गतो. इतरोपि अञ्ञेन मग्गेन सत्थु सन्तिकंयेव गतो.

ततो भिक्खुसङ्घस्स उपोसथागारं पविसनवेलाय सो भिक्खु तं भिक्खुं उपोसथग्गे सञ्जानित्वा ‘‘इमस्मिं उपोसथग्गे एवरूपो नाम पापभिक्खु अत्थि, नाहं तेन सद्धिं उपोसथं करिस्सामी’’ति निक्खमित्वा बहि अट्ठासि. भुम्मदेवता ‘‘भारियं मया कम्मं कत’’न्ति महल्लकउपासकवण्णेन तस्स सन्तिकं गन्त्वा ‘‘कस्मा, भन्ते, अय्यो इमस्मिं ठाने ठितो’’ति आह. उपासक, इमं उपोसथग्गं एको पापभिक्खु पविट्ठो, अहं तेन सद्धिं उपोसथं न करोमीति वत्वा निक्खमित्वा बहि ठितोम्हीति. भन्ते, मा एवं गण्हथ, परिसुद्धसीलो एस भिक्खु. तुम्हेहि दिट्ठमातुगामो नाम अहं, मया तुम्हाकं वीमंसनत्थाय ‘‘दळ्हा नु खो इमेसं थेरानं मेत्ति, नो दळ्हा’’ति लज्जिअलज्जिभावं ओलोकेन्तेन तं कम्मं कतन्ति. को पन त्वं सप्पुरिसाति? अहं एका भुम्मदेवता, भन्तेति. देवपुत्तो कथेन्तोव दिब्बानुभावेन ठत्वा थेरस्स पादेसु पतित्वा ‘‘मय्हं, भन्ते, खमथ, एतं दोसं थेरो न जानाति, उपोसथं करोथा’’ति थेरं याचित्वा उपोसथग्गं पवेसेसि. सो थेरो उपोसथं ताव एकट्ठाने अकासि, मित्तसन्थववसेन न पुन तेन सद्धिं एकट्ठाने अहोसीति. इमस्स थेरस्स कम्मं न कथियति, चुदितकत्थेरो पन अपरापरं विपस्सनाय कम्मं करोन्तो अरहत्तं पापुणि.

भुम्मदेवता तस्स कम्मस्स निस्सन्देन एकं बुद्धन्तरं अपायतो न मुच्चित्थ. सचे पन कालेन कालं मनुस्सत्तं आगच्छति, अञ्ञेन येन केनचि कतो दोसो तस्सेव उपरि पतति. सो अम्हाकं भगवतो काले सावत्थियं ब्राह्मणकुले निब्बत्ति, धानमाणवोतिस्स नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा महल्लककाले सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजि, तस्स उपसम्पन्नदिवसतो पट्ठाय एका अलङ्कतपटियत्ता इत्थी तस्मिं गामं पविसन्ते सद्धिंयेव गामं पविसति, निक्खमन्ते निक्खमति. विहारं पविसन्तेपि पविसति, तिट्ठन्तेपि तिट्ठतीति एवं निच्चानुबन्धा पञ्ञायति. थेरो तं न पस्सति, तस्स पन पुरिमस्स कम्मस्स निस्सन्देन सा अञ्ञेसं उपट्ठाति.

गामे यागुभिक्खं ददमाना इत्थियो, ‘‘भन्ते, अयं एको यागुउळुङ्को तुम्हाकं, एको इमिस्सा अम्हाकं सहायिकाया’’ति परिहासं करोन्ति. थेरस्स महती विहेसा होति. विहारं गतम्पि नं सामणेरा चेव दहरभिक्खू च परिवारेत्वा ‘‘धानो कोण्डो जातो’’ति परिहासं करोन्ति. अथस्स तेनेव कारणेन कुण्डधानत्थेरोति नामं जातं. सो उट्ठाय समुट्ठाय तेहि कयिरमानं केळिं सहितुं असक्कोन्तो उम्मादं गहेत्वा ‘‘तुम्हे कोण्डा, तुम्हाकं उपज्झाया कोण्डा, आचरिया कोण्डा’’ति वदति. अथ नं सत्थु आरोचेसुं – ‘‘कुण्डधानो दहरसामणेरेहि सद्धिं एवं फरुसवाचं वदती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं भिक्खू’’ति पुच्छित्वा ‘‘सच्चं भगवा’’ति वुत्ते ‘‘कस्मा एवं वदेसी’’ति आह. भन्ते, निबद्धं विहेसं असहन्तो एवं कथेमीति. ‘‘त्वं पुब्बे कतकम्मं यावज्जदिवसा जीरापेतुं न सक्कोसि, पुन एवरूपं फरुसं मा वद भिक्खू’’ति वत्वा आह –

‘‘मावोच फरुसं कञ्चि, वुत्ता पटिवदेय्यु तं;

दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं.

‘‘सचे नेरेसि अत्तानं, कंसो उपहतो यथा;

एस पत्तोसि निब्बानं, सारम्भो ते न विज्जती’’ति. (ध. प. १३३-१३४);

इमञ्च पन तस्स थेरस्स मातुगामेन सद्धिं विचरणभावं कोसलरञ्ञोपि कथयिंसु. राजा ‘‘गच्छथ, भणे, वीमंसथा’’ति पेसेत्वा सयम्पि मन्देनेव परिवारेन सद्धिं थेरस्स वसनट्ठानं गन्त्वा एकमन्ते ओलोकेन्तो अट्ठासि. तस्मिं खणे थेरो सूचिकम्मं करोन्तो निसिन्नो होति, सापिस्स इत्थी अविदूरे ठाने ठिता विय पञ्ञायति.

राजा तं दिस्वा ‘‘अत्थिदं कारण’’न्ति तस्सा ठितट्ठानं अगमासि. सा तस्मिं आगच्छन्ते थेरस्स वसनपण्णसालं पविट्ठा विय अहोसि. राजापि ताय सद्धिंयेव पण्णसालं पविसित्वा सब्बत्थ ओलोकेन्तो अदिस्वा ‘‘नायं मातुगामो, थेरस्स एको कम्मविपाको’’ति सञ्ञं कत्वा पठमं थेरस्स समीपेन गच्छन्तोपि थेरं अवन्दित्वा तस्स कारणस्स अभूतभावं ञत्वा आगम्म थेरं वन्दित्वा एकमन्तं निसिन्नो ‘‘कच्चि, भन्ते, पिण्डकेन न किलमथा’’ति पुच्छि. थेरो ‘‘वट्टति महाराजा’’ति आह. ‘‘जानामि, भन्ते, अय्यस्स कथं, एवरूपेन च परिक्किलेसेन सद्धिं चरन्तानं तुम्हाकं के नाम पसीदिस्सन्ति, इतो पट्ठाय वो कत्थचि गमनकिच्चं नत्थि, अहं चतूहि पच्चयेहि उपट्ठहिस्सामि, तुम्हे योनिसोमनसिकारे मा पमज्जित्था’’ति निबद्धं भिक्खं पट्ठपेसि. थेरो राजानं उपत्थम्भकं लभित्वा भोजनसप्पायेन एकग्गचित्तो हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. ततो पट्ठाय सा इत्थी अन्तरधायि.

महासुभद्दा उग्गनगरे मिच्छादिट्ठिकुले वसमाना ‘‘सत्था मं अनुकम्पतू’’ति उपोसथं अधिट्ठाय निरामगन्धा हुत्वा उपरिपासादतले ठिता ‘‘इमानि पुप्फानि अन्तरे अट्ठत्वा दसबलस्स मत्थके वितानं हुत्वा तिट्ठन्तु, दसबलो इमाय सञ्ञाय स्वे पञ्चहि भिक्खुसतेहि सद्धिं मय्हं भिक्खं गण्हतू’’ति सच्चकिरियं कत्वा अट्ठ सुमनपुप्फमुट्ठियो विस्सज्जेसि. पुप्फानि गन्त्वा धम्मदेसनावेलाय सत्थु मत्थके वितानं हुत्वा अट्ठंसु. सत्था तं सुमनपुप्फवितानं दिस्वा चित्तेनेव सुभद्दाय भिक्खं अधिवासेत्वा पुनदिवसे अरुणे उट्ठिते आनन्दत्थेरं आह – ‘‘आनन्द, मयं अज्ज दूरं भिक्खाचारं गमिस्साम, पुथुज्जनानं अदत्वा अरियानंयेव सलाकं देही’’ति. थेरो भिक्खूनं आरोचेसि – ‘‘आवुसो, सत्था अज्ज दूरं भिक्खाचारं गमिस्सति, पुथुज्जना मा गण्हन्तु, अरियाव सलाकं गण्हन्तू’’ति. कुण्डधानत्थेरो ‘‘आहरावुसो, सलाक’’न्ति पठमंयेव हत्थं पसारेसि. आनन्दा ‘‘सत्था तादिसानं भिक्खूनं सलाकं न दापेति, अरियानंयेव दापेती’’ति वितक्कं उप्पादेत्वा गन्त्वा सत्थु आरोचेसि. सत्था ‘‘आहरापेन्तस्स सलाकं देही’’ति आह. थेरो चिन्तेसि – ‘‘सचे कुण्डधानस्स सलाका दातुं न युत्ता अस्स, अथ सत्था पटिबाहेय्य, भविस्सति एकं कारण’’न्ति. ‘‘कुण्डधानस्स सलाकं दस्सामी’’ति गमनं अभिनीहरि. कुण्डधानत्थेरो तस्स पुरे आगमनाव अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा इद्धिया आकासे ठत्वा ‘‘आहरावुसो आनन्द, सत्था मं जानाति, मादिसं भिक्खुं पठमं सलाकं गण्हन्तं न सत्था वारेती’’ति हत्थं पसारेत्वा सलाकं गण्हि. सत्था तं अट्ठुप्पत्तिं कत्वा थेरं इमस्मिं सासने पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेसीति.

वङ्गीसत्थेरवत्थु

२१२. चतुत्थे पटिभानवन्तानन्ति सम्पन्नपटिभानानं वङ्गीसत्थेरो अग्गोति दस्सेति. अयं किर थेरो दसबलस्स सन्तिकं उपसङ्कमन्तो चक्खुपथतो पट्ठाय चन्देन सद्धिं उपमेत्वा, सूरियेन, आकासेन, महासमुद्देन, हत्थिनागेन, सीहेन मिगरञ्ञा सद्धिं उपमेत्वापि अनेकेहि पदसतेहि पदसहस्सेहि सत्थु वण्णं वदन्तोयेव उपसङ्कमति. तस्मा पटिभानवन्तानं अग्गो नाम जातो.

तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले पटिसन्धिं गण्हित्वा पुरिमनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पटिभानवन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा ‘‘अहम्पि अनागते पटिभानवन्तानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति. वङ्गीसमाणवोतिस्स नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हन्तो आचरियं आराधेत्वा छवसीसमन्तं नाम सिक्खित्वा छवसीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं नाम निब्बत्तो’’ति जानाति.

ब्राह्मणा ‘‘अयं अम्हाकं जीविकमग्गो’’ति ञत्वा वङ्गीसमाणवं पटिच्छन्नयाने निसीदापेत्वा गामनिगमराजधानियो चरन्ता नगरद्वारे वा निगमद्वारे वा ठपेत्वा महाजनस्स रासिभूतभावं ञत्वा ‘‘यो वङ्गीसं पस्सति, सो धनं वा लभति, यसं वा लभति, सग्गं वा गच्छती’’ति वदन्ति. तेसं कथं सुत्वा बहू जना लञ्जं दत्वा पस्सितुकामा होन्ति. राजराजमहामत्ता तेसं सन्तिकं गन्त्वा ‘‘को आचरियस्स जानविसेसो’’ति पुच्छन्ति. तुम्हे न जानाथ, सकलजम्बुदीपे अम्हाकं आचरियसदिसो अञ्ञो पण्डितो नाम नत्थि, तिवस्समत्थके मतकानं सीसं आहरापेत्वा नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति जानाति. वङ्गीसोपि महाजनस्स कङ्खछेदनत्थं ते ते जने आवाहेत्वा अत्तनो अत्तनो गतिं कथापेति. तं निस्साय महाजनस्स हत्थतो सतम्पि सहस्सम्पि लभति.

ब्राह्मणा वङ्गीसमाणवं आदाय यथारुचिं विचरित्वा पुन सावत्थिं आगमंसु. वङ्गीसो जेतवनमहाविहारस्स अविदूरट्ठाने ठितो चिन्तेसि – ‘‘समणो गोतमो पण्डितोति वदन्ति, न खो पन सब्बकालं मया इमेसंयेव वचनं करोन्तेन चरितुं वट्टति, पण्डितानम्पि सन्तिकं गन्तुं वट्टती’’ति. सो ब्राह्मणे आह – ‘‘तुम्हे गच्छथ, अहं न बहुकेहि सद्धिं गन्त्वा समणं गोतमं पस्सिस्सामी’’ति. ते आहंसु – ‘‘वङ्गीस, मा ते रुच्चि समणं गोतमं पस्सितुं. यो हि नं पस्सति, तं सो मायाय आवट्टेती’’ति. वङ्गीसो तेसं कथं अनादियित्वा सत्थु सन्तिकं गन्त्वा मधुरपटिसन्थारं कत्वा एकमन्तं निसीदि.

अथ नं सत्था पुच्छि – ‘‘वङ्गीस, किञ्चि सिप्पं जानासी’’ति. आम, भो गोतम, छवसीसमन्तं नामेकं जानामीति. किं सो मन्तो करोतीति? तिवस्समत्थके मतानम्पि तं मन्तं जप्पित्वा सीसं नखेन आकोटेत्वा निब्बत्तट्ठानं जानामीति. सत्था तस्स एकं निरये उप्पन्नस्स सीसं दस्सेसि, एकं मनुस्सेसु उप्पन्नस्स, एकं देवेसु, एकं परिनिब्बुतस्स सीसं दस्सेसि. सो पठमं सीसं आकोटेत्वा, ‘‘भो गोतम, अयं सत्तो निरयं गतो’’ति आह. साधु साधु, वङ्गीस, सुदिट्ठं तया, अयं सत्तो कहं गतोति पुच्छि. मनुस्सलोकं, भो गोतमाति. अयं सत्तो कहं गतोति? देवलोकं, भो गोतमाति तिण्णम्पि गतट्ठानं कथेसि. परिनिब्बुतस्स पन सीसं नखेन आकोटेन्तो नेव अन्तं न कोटिं पस्सति. अथ नं सत्था ‘‘न सक्कोसि त्वं, वङ्गीसा’’ति पुच्छि. ‘‘पस्सथ, भो गोतम, उपपरिक्खामि तावा’’ति पुनप्पुनं परिवत्तेति. बाहिरकमन्तेन खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो सेदो मुच्चि. सो लज्जित्वा तुण्हीभूतो अट्ठासि. अथ नं सत्था ‘‘किलमसि, वङ्गीसा’’ति आह. आम, भो गोतम, इमस्स सत्तस्स गतट्ठानं जानितुं न सक्कोमि. सचे तुम्हे जानाथ, कथेथाति. ‘‘वङ्गीस, अहं एतम्पि जानामि इतो उत्तरितरम्पी’’ति वत्वा धम्मपदे इमा द्वे गाथा अभासि –

‘‘चुतिं यो वेदि सत्तानं, उपपत्तिं च सब्बसो;

असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.

‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;

खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१९-४२०);

ततो वङ्गीसो आह – ‘‘भो गोतम, विज्जाय विज्जं देन्तस्स नाम परिहानि नत्थि, अहं अत्तना जाननकं मन्तं तुम्हाकं दस्सामि, तुम्हे एतं मन्तं मय्हं देथा’’ति. वङ्गीस, न मयं मन्तेन मन्तं देम, एवमेव देमाति. ‘‘साधु, भो गोतम, देथ मे मन्त’’न्ति अपचितिं दस्सेत्वा हत्थकच्छपकं कत्वा निसीदि. किं, वङ्गीस, तुम्हाकं समये महग्घमन्तं वा किञ्चि वा गण्हन्तानं परिवासो नाम न होतीति? होति, भो गोतमाति. अम्हाकं पन मन्तो निप्परिवासोति सञ्ञं करोसीति? ब्राह्मणा नाम मन्तेहि अतित्ता होन्ति, तस्मा सो भगवन्तं आह – ‘‘भो गोतम, तुम्हेहि कथितनियामं करिस्सामी’’ति. भगवा आह – ‘‘वङ्गीस, मयं इमं मन्तं देन्ता अम्हेहि समानलिङ्गस्स देमा’’ति. वङ्गीसो ‘‘यंकिञ्चि कत्वा मया इमं मन्तं गण्हित्वा गन्तुं वट्टती’’ति ब्राह्मणे आह. तुम्हे मयि पब्बजन्ते मा चिन्तयित्थ, अहं इमं मन्तं गण्हित्वा सकलजम्बुदीपे जेट्ठको भविस्सामि. एवं सन्ते तुम्हाकम्पि भद्दकं भविस्सती’’ति मन्तत्थाय सत्थु सन्तिके पब्बजि. सत्था ‘‘मन्तपरिवासं ताव वसाही’’ति द्वत्तिंसाकारं आचिक्खि. पञ्ञवा सत्तो द्वत्तिंसाकारं सज्झायन्तोव तत्थ खयवयं पट्ठपेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.

तस्मिं अरहत्तं पत्ते ब्राह्मणा ‘‘का नु खो वङ्गीसस्स पवत्ति, पस्सिस्साम न’’न्ति तस्स सन्तिकं गन्त्वा ‘‘किं, भो वङ्गीस, समणस्स गोतमस्स सन्तिके सिप्पं सिक्खित’’न्ति पुच्छिंसु. आम, सिक्खितन्ति. तेन हि एहि गमिस्सामाति. गच्छथ तुम्हे, तुम्हेहि सद्धिं गन्तब्बकिच्चं मय्हं निट्ठितन्ति. पठममेव अम्हेहि तुय्हं कथितं ‘‘समणो गोतमो अत्तानं पस्सितुं आगते मायाय आवट्टेती’’ति. त्वं हि इदानि समणस्स गोतमस्स वसं आपन्नो, किं मयं तव सन्तिके करिस्सामाति आगतमग्गेनेव पक्कमिंसु. वङ्गीसत्थेरोपि यं यं वेलं दसबलं पस्सितुं गच्छति, एकं थुतिं करोन्तोव गच्छति. तेन तं सत्था सङ्घमज्झे निसिन्नो पटिभानवन्तानं अग्गट्ठाने ठपेसीति.

उपसेनवङ्गन्तपुत्तत्थेरवत्थु

२१३. पञ्चमे समन्तपासादिकानन्ति सब्बपासादिकानं. उपसेनोति तस्स थेरस्स नामं. वङ्गन्तब्राह्मणस्स पन सो पुत्तो, तस्मा वङ्गन्तपुत्तोति वुच्चति. अयं पन थेरो न केवलं अत्तनाव पासादिको, परिसापिस्स पासादिका, इति परिसं निस्साय लद्धनामवसेन समन्तपासादिकानं अग्गो नाम जातो.

पञ्हकम्मे पनस्स अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो वयं आगम्म पुरिमनयेनेव सत्थु सन्तिकं गन्त्वा धम्मं सुणमानो सत्थारं एकं भिक्खुं समन्तपासादिकानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकब्राह्मणगामे सारिब्राह्मणिया कुच्छिस्मिं पटिसन्धिं गण्हि, उपसेनदारकोतिस्स नामं अकंसु.

सो वयप्पत्तो तयो वेदे उग्गण्हित्वा दसबलस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजि. सो उपसम्पदाय एकवस्सिको हुत्वा ‘‘अरियगब्भं वड्ढेमी’’ति एकं कुलपुत्तं अत्तनो सन्तिके पब्बाजेत्वा उपसम्पादेसि. सो पवारेत्वा सद्धिविहारिकस्स एकवस्सिककाले अत्तना दुवस्सो ‘‘दसबलो मं पस्सित्वा तुसिस्सती’’ति सद्धिविहारिकं आदाय दसबलं पस्सितुं आगतो. सत्था तं वन्दित्वा एकमन्ते निसिन्नं पुच्छि – ‘‘कतिवस्सोसि त्वं भिक्खू’’ति? दुवस्सो अहं भगवाति. अयं पन भिक्खु कतिवस्सोति? एकवस्सो भगवाति. किन्तायं भिक्खु होतीति? सद्धिविहारिको मे भगवाति. अथ नं सत्था ‘‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्लाय आवत्तो’’ति वत्वा अनेकपरियायेन विगरहि. थेरो सत्थु सन्तिका गरहं लभित्वा भगवन्तं वन्दित्वा ‘‘इमिनाव पुण्णचन्दसस्सिरिकेन मुखेन सत्थारं परिसमेव निस्साय साधुकारं दापेस्सामी’’ति तंदिवसेयेव एकं ठानं गन्त्वा विपस्सनाय कम्मं कत्वा नचिरस्सेव अरहत्तं पापुणि.

ततो यस्मा थेरो महाकुलतो निक्खमित्वा पब्बजितो पथविघुट्ठधम्मकथिकोव, तस्मा तस्स धम्मकथाय चेव पसीदित्वा मित्तामच्चञातिकुलेहि च निक्खमित्वा बहू कुलदारका थेरस्स सन्तिके पब्बजन्ति. ‘‘अहं आरञ्ञको, तुम्हेपि आरञ्ञका भवितुं सक्कोन्ता पब्बजथा’’ति तेरस धुतङ्गानि आचिक्खित्वा ‘‘सक्खिस्साम, भन्ते’’ति वदन्ते पब्बाजेति. ते अत्तनो बलेन तं तं धुतङ्गं अधिट्ठहन्ति. थेरो अत्तनो दसवस्सकाले विनयं पगुणं कत्वा सब्बेव उपसम्पादेसि. एवं उपसम्पन्ना चस्स पञ्चसतमत्ता भिक्खू परिवारा अहेसुं.

तस्मिं समये सत्था जेतवनमहाविहारे वसन्तो ‘‘इच्छामहं, भिक्खवे, अद्धमासं पटिसल्लीयितु’’न्ति भिक्खुसङ्घस्स आरोचेत्वा एकविहारी होति. भिक्खुसङ्घोपि ‘‘यो भगवन्तं दस्सनाय उपसङ्कमति, सो पाचित्तियं देसापेतब्बो’’ति कतिकं अकासि. तदा उपसेनत्थेरो ‘‘भगवन्तं पस्सिस्सामी’’ति अत्तनो परिसाय सद्धिं जेतवनं गन्त्वा सत्थारं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं निसीदि. सत्था कथासमुट्ठापनत्थं अञ्ञतरं थेरस्स सद्धिविहारिकं आमन्तेसि – ‘‘मनापानि ते भिक्खु पंसुकूलानी’’ति. ‘‘न खो मे, भन्ते, मनापानि पंसुकूलानी’’ति वत्वा उपज्झाये गारवेन पंसुकूलिकभावं आरोचेसि. इमस्मिं ठाने सत्था ‘‘साधु साधु, उपसेना’’ति थेरस्स साधुकारं दत्वा अनेकपरियायेन गुणकथं कथेसि. अयमेत्थ सङ्खेपो, वित्थारतो पन इदं वत्थु पाळियं (पारा. ५६५) आगतमेव. अथ सत्था अपरभागे अरियगणमज्झे निसिन्नो इमस्मिं सासने थेरं समन्तपासादिकानं अग्गट्ठाने ठपेसीति.

दब्बत्थेरवत्थु

२१४. छट्ठे सेनासनपञ्ञापकानन्ति सेनासनं पञ्ञापेन्तानं. थेरस्स किर सेनासनपञ्ञापनकाले अट्ठारससु महाविहारेसु असम्मट्ठं परिवेणं वा अपटिजग्गितं सेनासनं वा असोधितं मञ्चपीठं वा अनुपट्ठितं पानीयपरिभोजनीयं वा नाहोसि. तस्मा सेनासनपञ्ञापकानं अग्गो नाम जातो. दब्बोतिस्स नामं. मल्लराजकुले पन उप्पन्नत्ता मल्लपुत्तो नाम जातो.

तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयञ्हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो वुत्तनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं सेनासनपञ्ञापकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरित्वा कस्सपदसबलस्स सासनस्स ओसक्कनकाले पब्बजि, तदा तेन सद्धिं अपरे छ जनाति सत्त भिक्खू एकचित्ता हुत्वा अञ्ञे सासने अगारवं करोन्ते दिस्वा ‘‘इध किं करोम, एकमन्ते समणधम्मं कत्वा दुक्खस्सन्तं करिस्सामा’’ति निस्सेणिं बन्धित्वा उच्चपब्बतसिखरं अभिरुहित्वा ‘‘अत्तनो चित्तबलं जानन्ता निस्सेणिं पातेन्तु, जीविते सालया ओतरन्तु, मा पच्छानुतापिनो अहुवत्था’’ति वत्वा सब्बे एकचित्ता हुत्वा निस्सेणिं पातेत्वा ‘‘अप्पमत्ता होथ, आवुसो’’ति अञ्ञमञ्ञं ओवदित्वा चित्तरुचियेसु ठानेसु निसीदित्वा समणधम्मं कातुं आरभिंसु.

तत्रेको थेरो पञ्चमे दिवसे अरहत्तं पत्वा ‘‘मम किच्चं निप्फन्नं, अहं इमस्मिं ठाने किं करिस्सामी’’ति इद्धिया उत्तरकुरुतो पिण्डपातं आहरित्वा, ‘‘आवुसो, इमं पिण्डपातं परिभुञ्जथ, भिक्खाचारकिच्चं ममायत्तं होतु, तुम्हे अत्तनो कम्मं करोथा’’ति आह. किं नु खो मयं, आवुसो, निस्सेणिं पातेन्ता एवं अवोचुम्हा ‘‘यो पठमं धम्मं सच्छिकरोति, सो भिक्खं आहरतु, तेन आभतं सेसा परिभुञ्जित्वा समणधम्मं करिस्सन्ती’’ति. नत्थि, आवुसोति. तुम्हे अत्तनो पुब्बहेतुना लभित्थ, मयम्पि सक्कोन्ता वट्टस्सन्तं करिस्साम, गच्छथ तुम्हेति. थेरो ते सञ्ञापेतुं असक्कोन्तो फासुकट्ठाने पिण्डपातं परिभुञ्जित्वा गतो. अपरो थेरो सत्तमे दिवसे अनागामिफलं पत्वा ततो चुतो सुद्धावासब्रह्मलोके निब्बत्तो.

इतरेपि थेरा ततो चुता एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे तेसु तेसु कुलेसु निब्बत्ता. एको गन्धाररट्ठे तक्कसिलनगरे राजगेहे निब्बत्तो, एको पब्बतेय्यरट्ठे परिब्बाजिकाय कुच्छिम्हि निब्बत्तो, एको बाहियरट्ठे कुटुम्बिकगेहे निब्बत्तो, एको राजगहे कुटुम्बिकगेहे निब्बत्तो. अयं पन दब्बत्थेरो मल्लरट्ठे अनुपियनगरे एकस्स मल्लरञ्ञो गेहे पटिसन्धिं गण्हि. तस्स माता उपविजञ्ञकाले कालमकासि, मतसरीरं सुसानं नेत्वा दारुचितकं आरोपेत्वा अग्गिं अदंसु. तस्सा अग्गिवेगसन्तत्तं उदरपटलं द्वेधा अहोसि. दारको अत्तनो पुञ्ञबलेन उप्पतित्वा एकस्मिं दब्बत्थम्भे निपति. तं दारकं गहेत्वा अय्यिकाय अदंसु. सा तस्स नामं गण्हन्ती दब्बत्थम्भे निपतित्वा लद्धजीवितत्ता दब्बोतिस्स नामं अकासि.

तस्स सत्तवस्सिककाले सत्था भिक्खुसङ्घपरिवारो मल्लरट्ठे चारिकं चरमानो अनुपियनिगमं पत्वा अनुपियम्बवने विहरति. दब्बकुमारो सत्थारं दिस्वा दस्सनेनेव पसीदित्वा पब्बजितुकामो हुत्वा ‘‘अहं दसबलस्स सन्तिके पब्बजिस्सामी’’ति अय्यिकं आपुच्छि. सा ‘‘साधु, ताता’’ति दब्बकुमारं आदाय सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, इमं कुमारं पब्बाजेथा’’ति आह. सत्था अञ्ञतरस्स भिक्खुनो सञ्ञं अदासि ‘‘भिक्खु इमं दारकं पब्बाजेही’’ति. सो थेरो सत्थु वचनं सुत्वा दब्बकुमारं पब्बाजेन्तो तचपञ्चकं कम्मट्ठानं आचिक्खि. पुब्बहेतुसम्पन्नो कताभिनीहारो सत्तो पठमकेसवट्टिया ओरोपियमानाय सोतापत्तिफले पतिट्ठासि, दुतियकेसवट्टिया ओरोपियमानाय सकदागामिफले, ततियाय अनागामिफले. सब्बकेसानं पन ओरोपनञ्च अरहत्तफलसच्छिकिरिया च अपच्छा अपुरे अहोसि.

सत्था मल्लरट्ठे यथाभिरन्तं विहरित्वा राजगहं गन्त्वा वेळुवने वासं कप्पेसि. तत्रायस्मा दब्बो मल्लपुत्तो रहोगतो अत्तनो किच्चनिप्फत्तिं ओलोकेत्वा सङ्घस्स वेय्यावच्चकरणे कायं योजेतुकामो चिन्तेसि – ‘‘यंनूनाहं सङ्घस्स सेनासनञ्च पञ्ञापेय्यं, भत्तानि च उद्दिसेय्य’’न्ति. सो सत्थु सन्तिकं गन्त्वा अत्तनो परिवितक्कं आरोचेसि. सत्था तस्स साधुकारं दत्वा सेनासनपञ्ञापकत्तञ्च भत्तुद्देसकत्तञ्च सम्पटिच्छि. अथ नं ‘‘अयं दब्बो दहरोव समानो महन्तट्ठाने ठितो’’ति सत्तवस्सिककालेयेव उपसम्पादेसि. थेरो उपसम्पन्नकालतोयेव पट्ठाय राजगहं उपनिस्साय विहरन्तानं सब्बभिक्खूनं सेनासनानि च पञ्ञापेति, भिक्खञ्च सम्पटिच्छित्वा उद्दिसति. तस्स सेनासनपञ्ञापकभावो सब्बदिसासु पाकटो अहोसि – ‘‘दब्बो किर मल्लपुत्तो सभागसभागानं भिक्खूनं एकट्ठाने सेनासनानि पञ्ञापेति, दूरेपि सेनासनं पञ्ञापेतियेव. गन्तुं असक्कोन्ते इद्धिया नेतीति.

अथ नं भिक्खू कालेपि विकालेपि ‘‘अम्हाकं, आवुसो, जीवकम्बवने सेनासनं पञ्ञापेहि, अम्हाकं मद्दकुच्छिस्मिं मिगदाये’’ति एवं सेनासनं उद्दिसापेत्वा तस्स इद्धिं पस्सन्ता गच्छन्ति. सोपि इद्धिया मनोमये काये अभिसङ्खरित्वा एकेकस्स थेरस्स एकेकं अत्तना सदिसं भिक्खुं निम्मिनित्वा अङ्गुलिया जलमानाय पुरतो पुरतो गन्त्वा ‘‘अयं मञ्चो, इदं पीठ’’न्तिआदीनि वत्वा सेनासनं पञ्ञापेत्वा पुन अत्तनो वसनट्ठानमेव आगच्छति. अयमेत्थ सङ्खेपो, वित्थारतो पनिदं वत्थु पाळियं आगतमेव. सत्था इदमेव कारणं अट्ठुप्पत्तिं कत्वा अपरभागे अरियगणमज्झे निसिन्नो थेरं सेनासनपञ्ञापकानं अग्गट्ठाने ठपेसीति.

पिलिन्दवच्छत्थेरवत्थु

२१५. सत्तमे देवतानं पियमनापानन्ति देवतानं पियानञ्चेव मनापानञ्च पिलिन्दवच्छत्थेरो अग्गोति दस्सेति. सो किर अनुप्पन्ने बुद्धे चक्कवत्ती राजा हुत्वा महाजनं पञ्चसु सीलेसु पतिट्ठापेत्वा सग्गपरायणं अकासि. येभुय्येन किर छसु कामसग्गेसु निब्बत्तदेवता तस्सेव ओवादं लभित्वा निब्बत्तनिब्बत्तट्ठाने अत्तनो सम्पत्तिं ओलोकेत्वा ‘‘कं नु खो निस्साय इमं सग्गसम्पत्तिं लभिम्हा’’ति आवज्जमाना इमं थेरं दिस्वा ‘‘थेरं निस्साय अम्हेहि सम्पति लद्धा’’ति सायंपातं थेरं नमस्सन्ति. तस्मा सो देवतानं पियमनापानं अग्गो नाम जातो. पिलिन्दोति पनस्स गोत्तं, वच्छोति नामं. तदुभयं संसन्देत्वा पिलिन्दवच्छोति वुच्चति.

तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो पुरिमनयेनेव सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं देवतानं पियमनापट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति. पिलिन्दवच्छोतिस्स नामं अकंसु. सो अपरेन समयेन सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पन्नो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो गिहीहिपि भिक्खूहिपि सद्धिं कथेन्तो ‘‘एहि, वसल, गच्छ, वसल, आहर, वसल, गण्ह, वसला’’ति वसलवादेनेव समुदाचरति. तं कथं आहरित्वा तथागतं पुच्छिंसु – ‘‘भगवा अरिया नाम फरुसवाचा न होन्ती’’ति. भिक्खवे, अरियानं परवम्भनवसेन फरुसवाचा नाम नत्थि, अपिच खो पन भवन्तरे आचिण्णवसेन भवेय्याति. भन्ते, पिलिन्दवच्छत्थेरो उट्ठाय समुट्ठाय गिहीहिपि भिक्खूहिपि सद्धिं कथेन्तो, ‘‘वसल, वसला’’ति कथेति, किमेत्थ कारणं भगवाति. भिक्खवे, न मय्हं पुत्तस्स एतं इदानेव आचिण्णं, अतीते पनेस पञ्च जातिसतानि वसलवादिब्राह्मणकुले निब्बत्ति. इच्चेस भवाचिण्णेनेव कथेसि, न फरुसवसेन. अरियानञ्हि वोहारो फरुसोपि समानो चेतनाय अफरुसभावेन परिसुद्धोव, अप्पमत्तकम्पेत्थ पापं न उपलब्भतीति वत्वा धम्मपदे इमं गाथमाह –

‘‘अकक्कसं विञ्ञापनिं, गिरं सच्चमुदीरये;

याय नाभिसजे कञ्चि, तमहं ब्रूमि ब्राह्मण’’न्ति.

अथेकदिवसं थेरो राजगहं पिण्डाय पविसन्तो एकं पुरिसं पिप्पलीनं भाजनं पूरेत्वा आदाय अन्तोनगरं पविसन्तं दिस्वा ‘‘किं ते, वसल, भाजने’’ति आह. सो चिन्तेसि – ‘‘अयं समणो मया सद्धिं पातोव फरुसकथं कथेसि, इमस्स अनुच्छविकमेव वत्तुं वट्टती’’ति ‘‘मूसिकवच्चं मे, भन्ते, भाजने’’ति आह. एवं भविस्सति, वसलाति. तस्स थेरस्स दस्सनं विजहन्तस्स सब्बं मूसिकवच्चमेव अहोसि. सो चिन्तेसि – ‘‘इमा पिप्पलियो मूसिकवच्चसदिसा पञ्ञायन्ति, सभावो नु खो नो’’ति वीमंसन्तो हत्थेन उप्पीळेसि. अथस्स उन्दूरवच्चभावं ञत्वा बलवदोमनस्सं उप्पज्जि. सो ‘‘इमायेव नु खो एवरूपा, उदाहु सकटेपी’’ति गन्त्वा ओलोकेन्तो सब्बापि पिप्पलियो तादिसाव दिस्वा हदयं हत्थेन सन्धारेत्वा ‘‘इदं न अञ्ञस्स कम्मं, मया पातोव दिट्ठभिक्खुस्सेतं कम्मं, अद्धा एकं उपायं भविस्सति, तस्स गतट्ठानं अनुविचिनित्वा एतं कारणं जानिस्सामी’’ति थेरस्स गतमग्गं पुच्छित्वा पायासि.

अथेको पुरिसो तं अतिविय चण्डिकतं गच्छन्तं दिस्वा, ‘‘भो पुरिस, त्वं अतिविय चण्डिकतोव गच्छसि, केन कम्मेन गच्छसी’’ति पुच्छि. सो तस्स तं पवत्तिं आरोचेसि. सो तस्स कथं सुत्वा एवमाह – ‘‘भो, मा चिन्तयि, मय्हं अय्यो पिलिन्दवच्छो भविस्सति, त्वं एतदेव भाजनं पूरेत्वा आदाय गन्त्वा थेरस्स पुरतो तिट्ठ. ‘किं नामेतं, वसला’ति वुत्तकाले च ‘पिप्पलियो, भन्ते’ति वद, थेरो ‘एवं भविस्सति, वसला’ति वक्खति. पुन सब्बापि पिप्पलियो भविस्सन्ती’’ति. सो तथा अकासि. सब्बा पिप्पलियो पटिपाकतिका अहेसुं. इदमेत्तकं वत्थु. अपरभागे पन सत्था देवतानं पियमनापकारणमेव वत्थुं कत्वा थेरं देवतानं पियमनापानं अग्गट्ठाने ठपेसीति.

बाहियदारुचीरियत्थेरवत्थु

२१६. अट्ठमे खिप्पाभिञ्ञानन्ति खिप्पं अधिगतअभिञ्ञानं दारुचीरियत्थेरो अग्गोति दस्सेति. अयञ्हि थेरो संखित्तधम्मदेसनापरियोसाने अरहत्तं पापुणि, मग्गफलानं परिकम्मकिच्चं नाहोसि. तस्मा खिप्पाभिञ्ञानं अग्गो नाम जातो. बाहियरट्ठे पन जातत्ता बाहियोतिस्स नामं अहोसि. सो अपरभागे दारुचीरं निवासेसि. तस्मा दारुचीरियो नाम जातो.

तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो दसबलस्स धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं खिप्पाभिञ्ञानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो कस्सपदसबलस्स सासनस्स ओसक्कनकाले हेट्ठा वुत्तेहि भिक्खूहि सद्धिं समणधम्मं कत्वा परिपुण्णसीलो जीवितक्खयं पत्वा देवलोके निब्बत्ति.

सो एकं बुद्धन्तरं देवलोके वसित्वा इमस्मिं बुद्धुप्पादे बाहियरट्ठे कुलगेहे निब्बत्तो. वयं आगम्म घरावासं वसन्तो ‘‘वोहारं करिस्सामी’’ति सुवण्णभूमिगमनीयं नावं अभिरुहि. नावा इच्छितं देसं अप्पत्वाव समुद्दमज्झे भिन्ना, महाजनो मच्छकच्छपभक्खो अहोसि. अयं पन एकं दारुखण्डं गहेत्वा सत्तमे दिवसे सुप्पारकपट्टने उत्तिण्णो मनुस्सावासं पत्वा ‘‘अचेलकनियामेन मनुस्से उपसङ्कमितुं अयुत्त’’न्ति अविदूरे ठाने एकं महातळाका सेवालं गहेत्वा सरीरं वेठेत्वा एकस्मिं ठाने पतितं एकं कपालं आदाय भिक्खाय पाविसि.

मनुस्सा तं दिस्वा चिन्तेसुं – ‘‘सचे लोके अरहन्ता नाम अत्थि, एवंविधेहि भवितब्बं. किं नु खो अय्यो उक्कट्ठभावेन वत्थं न गण्हाति, उदाहु दिय्यमानं गण्हेय्या’’ति वीमंसन्ता नानादिसाहि वत्थानि आहरिंसु. सो चिन्तेसि – ‘‘सचाहं न इमिना नियामेन आगमिस्सं, न मे एते पसीदेय्युं, यंकिञ्चि कत्वा इमे वञ्चेत्वा जीविकुपायं कातुं वट्टती’’ति वत्थानि न पटिग्गण्हि. मनुस्सा भिय्योसोमत्ताय पसन्ना महासक्कारं करिंसु. सोपि भत्तकिच्चं कत्वा अविदूरट्ठाने देवकुलं गतो. महाजनो तेन सद्धिंयेव गन्त्वा देवकुलं पटिजग्गित्वा अदासि. सो चिन्तेसि – ‘‘इमे मय्हं सेवाले निवासनमत्ते पसीदित्वा एवंविधं सक्कारं करोन्ति, एतेसं मया उक्कट्ठेनेव भवितुं वट्टती’’ति सल्लहुकानि रुक्खफलकानि गहेत्वा तच्छेत्वा वाकेसु आवुणित्वा चीरं कत्वा निवासेत्वा पारुपित्वा जीविकं कप्पेन्तो वसि.

अथ यो सो कस्सपबुद्धकाले सत्तसु जनेसु समणधम्मं करोन्तेसु एको भिक्खु सुद्धावासब्रह्मलोके निब्बत्तो. सो निब्बत्तसमनन्तरमेव अत्तनो ब्रह्मसम्पत्तिं ओलोकेत्वा आगतट्ठानं आवज्जेन्तो सत्तन्नं जनानं पब्बतं आरुय्ह समणधम्मकरणट्ठानं दिस्वा सेसानं छन्नं निब्बत्तट्ठानं आवज्जेन्तो एकस्स परिनिब्बुतभावं इतरेसं पञ्चन्नं कामावचरदेवलोके निब्बत्तभावं ञत्वा कालानुकालं ते पञ्च जने आवज्जेति. इमस्मिं पन काले ‘‘कहं नु खो’’ति आवज्जेन्तो दारुचीरियं सुप्पारकपट्टनं उपनिस्साय कुहनकम्मेन जीविकं कप्पेन्तं दिस्वा ‘‘नट्ठो वतायं बालो, पुब्बे समणधम्मं करोन्तो अतिउक्कट्ठभावेन अरहतापि आभतं पिण्डपातं अपरिभुञ्जित्वा इदानि उदरत्थाय अनरहाव अरहत्तं पटिजानित्वा लोकं वञ्चेन्तो विचरति, दसबलस्स च निब्बत्तभावं न जानाति, गच्छामि नं संवेजेत्वा दसबलस्स निब्बत्तभावं जानापेमी’’ति तंखणंयेव ब्रह्मलोकतो सुप्पारकपट्टने रत्तिभागसमनन्तरे दारुचीरियस्स सम्मुखे पातुरहोसि.

सो अत्तनो वसनट्ठाने ओभासं दिस्वा बहि निक्खमित्वा ठितो महाब्रह्मं ओलोकेत्वा अञ्जलिं पग्गय्ह ‘‘के तुम्हे’’ति पुच्छि. अहं तुय्हं पोराणकसहायो अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो. अम्हाकं पन सब्बजेट्ठको अरहत्तं पत्वा परिनिब्बुतो, तुम्हे पञ्च जना देवलोके निब्बत्ता. स्वाहं तं इमस्मिं ठाने कुहनकम्मेन जीवन्तं दिस्वा दमेतुं आगतोति वत्वा इदं कारणमाह – ‘‘न खो त्वं, बाहिय अरहा, नपि अरहत्तमग्गं समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नो’’ति. अथस्स सत्थु उप्पन्नभावं सावत्थियं वसनभावञ्च आचिक्खित्वा ‘‘सत्थु सन्तिकं गच्छाही’’ति तं उय्योजेत्वा ब्रह्मलोकमेव अगमासि.

दारुचीरियो महाब्रह्मुना संवेजितो ‘‘मोक्खमग्गं गवेसिस्सामी’’ति वीसयोजनसतं मग्गं एकरत्तिवासेन गन्त्वा सत्थारं पिण्डाय पविट्ठं अन्तरघरे सम्पापुणित्वा सत्थु पादेसु निपतित्वा ‘‘देसेतु मे, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्म’’न्ति यावततियं याचि. सत्था ‘‘एत्तावता बाहियस्स ञाणं परिपाकं गत’’न्ति ञत्वा ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं दिट्ठे दिट्ठमत्तं भविस्सती’’ति (उदा. १०) इमिना ओवादेन ओवदि. सोपि देसनापरियोसाने अन्तरवीथियं ठितोव देसनानुसारेन ञाणं पेसेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि.

सो अत्तनो किच्चं मत्थकप्पत्तं ञत्वा भगवन्तं पब्बज्जं याचित्वा अपरिपुण्णपत्तचीवरताय पत्तचीवरं परियेसन्तो सङ्कारट्ठानतो चोळक्खण्डानि संकड्ढति. अथ नं पुब्बवेरिको अमनुस्सो एकिस्सा तरुणवच्छाय गाविया सरीरे अधिमुच्चित्वा जीवितक्खयं पापेसि. सत्था सावत्थितो निक्खमन्तो अन्तरवीथियं बाहियं सङ्कारट्ठाने पतितं दिस्वा ‘‘गण्हथ, भिक्खवे, बाहियस्स दारुचीरियस्स सरीर’’न्ति नीहरापेत्वा सरीरकिच्चं कारेत्वा चातुमहापथे चेतियं कारापेसि. ततो सङ्घमज्झे कथा उदपादि – ‘‘तथागतो भिक्खुसङ्घेन बाहियस्स सरीरज्झापनकिच्चं कारेसि, धातुयो गहेत्वा चेतियं कारेसि, कतरमग्गो नु खो तेन सच्छिकतो, सामणेरो नु खो सो, भिक्खु नु खो’’ति चित्तं उप्पादयिंसु. सत्था तं अट्ठुप्पत्तिं कत्वा ‘‘पण्डितो, भिक्खवे, बाहियो’’ति उपरि धम्मदेसनं वड्ढेत्वा तस्स परिनिब्बुतभावं पकासेसि. पुन सङ्घमज्झे कथा उदपादि ‘‘न च सत्थारा बाहियस्स बहु धम्मो देसितो, अरहत्तं पत्तोति च वदेति. किं नामेत’’न्ति? सत्था ‘‘धम्मो मन्दो बहूति अकारणं, विसपीतकस्स अगदो विय चेसो’’ति वत्वा धम्मपदे गाथमाह –

‘‘सहस्समपि चे गाथा, अनत्थपदसंहिता;

एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति. (ध. प. १००);

देसनापरियोसाने चतुरासीति पाणसहस्सानि अमतपानं पिविंसु. इदञ्च पन बाहियत्थेरस्स वत्थु सुत्ते (उदा. १०) आगतत्ता वित्थारेन न कथितं. अपरभागे पन सत्था सङ्घमज्झे निसिन्नो बाहियत्थेरं खिप्पाभिञ्ञानं अग्गट्ठाने ठपेसीति.

कुमारकस्सपत्थेरवत्थु

२१७. नवमे चित्तकथिकानन्ति विचित्तं कत्वा धम्मं कथेन्तानं. थेरो किर एकस्सपि द्विन्नम्पि धम्मं कथेन्तो बहूहि उपमाहि च कारणेहि च मण्डयित्वा बोधेन्तो कथेति. तस्मा चित्तकथिकानं अग्गो नाम जातो.

तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे पटिसन्धिं गण्हित्वा वयप्पत्तो दसबलस्स धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं चित्तकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा देवमनुस्सेसु संसरन्तो कस्सपबुद्धसासनोसक्कनकाले सत्तन्नं भिक्खूनं अब्भन्तरो हुत्वा पब्बतमत्थके समणधम्मं कत्वा अपरिहीनसीलो ततो चुतो देवलोके निब्बत्तित्वा एकं बुद्धन्तरं सम्पत्तिं अनुभवमानो अम्हाकं सत्थु काले राजगहे एकिस्सा कुलदारिकाय कुच्छिम्हि उप्पन्नो. सा च पठमं मातापितरो याचित्वा पब्बज्जं अलभमाना कुलघरं गता गब्भं गण्हि. तम्पि अजानन्ती सामिकं आराधेत्वा तेन अनुञ्ञाता भिक्खुनीसु पब्बजिता. तस्सा गब्भनिमित्तं दिस्वा भिक्खुनियो देवदत्तं पुच्छिंसु, सो ‘‘अस्समणी’’ति आह. दसबलं पुच्छिंसु, सत्था उपालित्थेरं पटिच्छापेसि. थेरो सावत्थिनगरवासीनि कुलानि विसाखञ्च उपासिकं पक्कोसापेत्वा सोधेन्तो ‘‘पुरे लद्धो गब्भो, पब्बज्जा अरोगा’’ति आह. सत्था ‘‘सुविनिच्छितं अधिकरण’’न्ति थेरस्स साधुकारं अदासि.

सा भिक्खुनी सुवण्णबिम्बसदिसं पुत्तं विजायि. तं गहेत्वा राजा पसेनदिकोसलो पोसापेसि, कस्सपोति चस्स नामं कत्वा अपरभागे अलङ्करित्वा सत्थु सन्तिकं नेत्वा पब्बाजेसि. कुमारकाले पन पब्बजितत्ता भगवता ‘‘कस्सपं पक्कोसथ, इदं फलं वा खादनीयं वा कस्सपस्स देथा’’ति वुत्ते ‘‘कतरकस्सपस्साति. कुमारकस्सपस्सा’’ति एवं गहितनामत्ता ततो पट्ठाय वुड्ढकालेपि कुमारकस्सपोत्वेव वुच्चति. अपिच रञ्ञो पोसावनिकपुत्तत्तापि कुमारकस्सपोति तं सञ्जानिंसु.

सो पब्बजितकालतो पट्ठाय विपस्सनाय चेव कम्मं करोति, बुद्धवचनञ्च गण्हाति. अथ सो तेन सद्धिं पब्बतमत्थके समणधम्मं कत्वा अनागामिफलं पत्वा सुद्धावासे निब्बत्तो महाब्रह्मा तस्मिं समये आवज्जेन्तो कुमारकस्सपं दिस्वा ‘‘सहायको मे विपस्सनाय किलमति, गन्त्वा तस्स विपस्सनाय नयमुखं दस्सेत्वा मग्गफलपत्तिया उपायं करिस्सामी’’ति ब्रह्मलोके ठितोव पञ्चदस पञ्हे अभिसङ्खरित्वा रत्तिभागसमनन्तरे कुमारकस्सपत्थेरस्स वसनट्ठाने अन्धवने पातुरहोसि. थेरो आलोकं दिस्वा ‘‘को एत्था’’ति आह. ‘‘अहं पुब्बे तया सद्धिं समणधम्मं कत्वा अनागामिफलं पत्वा सुद्धावासे निब्बत्तब्रह्मा’’ति आह. केन कम्मेन आगतत्थाति? महाब्रह्मा अत्तनो आगतकारणं दीपेतुं ते पञ्हे आचिक्खित्वा ‘‘त्वं इमे पञ्हे उग्गण्हित्वा अरुणे उट्ठिते तथागतं उपसङ्कमित्वा पुच्छ, ठपेत्वा हि तथागतं अञ्ञो इमे पञ्हे कथेतुं समत्थो नाम नत्थी’’ति वत्वा ब्रह्मलोकमेव गतो.

थेरोपि पुनदिवसे सत्थारं उपसङ्कमित्वा वन्दित्वा महाब्रह्मुना कथितनियामेनेव पञ्हे पुच्छि. सत्था कुमारकस्सपत्थेरस्स अरहत्तं पापेत्वा पञ्हे कथेसि. थेरो सत्थारा कथितनियामेनेव उग्गण्हित्वा अन्धवनं गन्त्वा विपस्सनं गब्भं गाहापेत्वा अरहत्तं पापुणि. ततो पट्ठाय चतुन्नं परिसानं धम्मकथं कथेन्तो बहुकाहि उपमाहि च कारणेहि च मण्डेत्वा चित्तकथमेव कथेति. अथ नं सत्था पायासिरञ्ञो पञ्चदसहि पञ्हेहि पटिमण्डेत्वा सुत्तन्ते (दी. नि. २.४०६ आदयो) देसिते तं सुत्तन्तं अट्ठुप्पत्तिं कत्वा इमस्मिं सासने चित्तकथिकानं अग्गट्ठाने ठपेसीति.

महाकोट्ठितत्थेरवत्थु

२१८. दसमे पटिसम्भिदापत्तानन्ति चतस्सो पटिसम्भिदा पत्वा ठितानं महाकोट्ठितत्थेरो अग्गोति दस्सेति. अयं हि थेरो अत्तनो पटिसम्भिदासु चिण्णवसिभावेन अभिञ्ञाते अभिञ्ञाते महासावके उपसङ्कमित्वा पञ्हं पुच्छन्तोपि दसबलं उपसङ्कमित्वा पञ्हं पुच्छन्तोपि पटिसम्भिदासुयेव पञ्हं पुच्छति. इति इमिना चिण्णवसिभावेन पटिसम्भिदापत्तानं अग्गो नाम जातो.

तस्स पञ्हकम्मे अयमनुपुब्बिकथा – अयम्पि हि पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो अपरेन समयेन सत्थु धम्मकथं सुणन्तो सत्थारं एकं भिक्खुं पटिसम्भिदापत्तानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि. सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति. कोट्ठितमाणवोतिस्स नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा एकदिवसं सत्थु धम्मकथं सुत्वा पटिलद्धसद्धो पब्बजि. सो उपसम्पन्नकालतो पट्ठाय विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा निच्चकालं पटिसम्भिदासु चिण्णवसी हुत्वा पञ्हं पुच्छन्तो पटिसम्भिदासुयेव पुच्छति. अथ नं सत्था अपरभागे महावेदल्लसुत्तं (म. नि. १.४४९ आदयो) अट्ठुप्पत्तिं कत्वा पटिसम्भिदापत्तानं अग्गट्ठाने ठपेसीति.

ततियवग्गवण्णना.