पच्चनीयं

नहेतु-नआरम्मणपच्चया

१३९. नसरणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अरणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया. एकं.

नसरणं नसनिदस्सनसप्पटिघं धम्मं पटिच्च अरणो सनिदस्सनसप्पटिघो धम्मो उप्पज्जति नआरम्मणपच्चया… तीणि. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया तीणि…पे… नोविगते तीणि.

हेतुपच्चया नआरम्मणे तीणि… नआरम्मणपच्चया हेतुया तीणि.

(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि वित्थारेतब्बं.)