१. विभङ्गवारो
नहेतुपच्चयो
५. सञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासञ्ञोजनं पटिच्च अविज्जासञ्ञोजनं. (१)
नोसञ्ञोजनं धम्मं पटिच्च नोसञ्ञोजनो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं नोसञ्ञोजनं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… (याव असञ्ञसत्ता). (१)
नोसञ्ञोजनं धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च अविज्जासञ्ञोजनं. (२)
सञ्ञोजनञ्च नोसञ्ञोजनञ्च धम्मं पटिच्च सञ्ञोजनो धम्मो उप्पज्जति नहेतुपच्चया – विचिकिच्छासञ्ञोजनञ्च सम्पयुत्तके च खन्धे पटिच्च अविज्जासञ्ञोजनं. (३)
(संखित्तं. आसवगोच्छकसदिसं. नआरम्मणापि सब्बे उद्धरितब्बा.)