२. धुतङ्गनिद्देसो
२२. इदानि येहि अप्पिच्छतासन्तुट्ठितादीहि गुणेहि वुत्तप्पकारस्स सीलस्स वोदानं होति, ते गुणे सम्पादेतुं यस्मा समादिन्नसीलेन योगिना धुतङ्गसमादानं कातब्बं. एवञ्हिस्स अप्पिच्छतासन्तुट्ठितासल्लेखपविवेकापचयवीरियारम्भसुभरतादिगुणसलिलविक्खालितमलं सीलञ्चेव सुपरिसुद्धं भविस्सति, वतानि च सम्पज्जिस्सन्ति. इति अनवज्जसीलब्बतगुणपरिसुद्धसब्बसमाचारो पोराणे अरियवंसत्तये पतिट्ठाय चतुत्थस्स भावनारामतासङ्खातस्स अरियवंसस्स अधिगमारहो भविस्सति. तस्मा धुतङ्गकथं आरभिस्साम.
भगवता हि परिच्चत्तलोकामिसानं काये च जीविते च अनपेक्खानं अनुलोमपटिपदंयेव आराधेतुकामानं कुलपुत्तानं तेरसधुतङ्गानि अनुञ्ञातानि. सेय्यथिदं – पंसुकूलिकङ्गं, तेचीवरिकङ्गं, पिण्डपातिकङ्गं, सपदानचारिकङ्गं, एकासनिकङ्गं, पत्तपिण्डिकङ्गं, खलुपच्छाभत्तिकङ्गं, आरञ्ञिकङ्गं, रुक्खमूलिकङ्गं, अब्भोकासिकङ्गं, सोसानिकङ्गं, यथासन्थतिकङ्गं, नेसज्जिकङ्गन्ति. तत्थ –
अत्थतो लक्खणादीहि, समादानविधानतो;
पभेदतो भेदतो च, तस्स तस्सानिसंसतो.
कुसलत्तिकतो चेव, धुतादीनं विभागतो;
समासब्यासतो चापि, विञ्ञातब्बो विनिच्छयो.
२३. तत्थ अत्थतोति ताव रथिकसुसानसङ्कारकूटादीनं यत्थ कत्थचि पंसूनं उपरि ठितत्ता अब्भुग्गतट्ठेन तेसु तेसु पंसुकूलमिवाति पंसुकूलं, अथ वा पंसु विय कुच्छितभावं उलतीति पंसुकूलं, कुच्छितभावं गच्छतीति वुत्तं होति. एवं लद्धनिब्बचनस्स पंसुकूलस्स धारणं पंसुकूलं, तं सीलमस्साति पंसुकूलिको. पंसुकूलिकस्स अङ्गं पंसुकूलिकङ्गं. अङ्गन्ति कारणं वुच्चति. तस्मा येन समादानेन सो पंसुकूलिको होति, तस्सेतं अधिवचनन्ति वेदितब्बं.
एतेनेव नयेन सङ्घाटिउत्तरासङ्गअन्तरवासकसङ्खातं तिचीवरं सीलमस्साति तेचीवरिको. तेचीवरिकस्स अङ्गं तेचीवरिकङ्गं.
भिक्खासङ्खातानं पन आमिसपिण्डानं पातोति पिण्डपातो, परेहि दिन्नानं पिण्डानं पत्ते निपतनन्ति वुत्तं होति. तं पिण्डपातं उञ्छति तं तं कुलं उपसङ्कमन्तो गवेसतीति पिण्डपातिको. पिण्डाय वा पतितुं वतमेतस्साति पिण्डपाती, पतितुन्ति चरितुं, पिण्डपाती एव पिण्डपातिको. पिण्डपातिकस्स अङ्गं पिण्डपातिकङ्गं.
दानं वुच्चति अवखण्डनं, अपेतं दानतोति अपदानं, अनवखण्डनन्ति अत्थो. सह अपदानेन सपदानं, अवखण्डनरहितं अनुघरन्ति वुत्तं होति. सपदानं चरितुं इदमस्स सीलन्ति सपदानचारी, सपदानचारी एव सपदानचारिको. तस्स अङ्गं सपदानचारिकङ्गं.
एकासने भोजनं एकासनं, तं सीलमस्साति एकासनिको. तस्स अङ्गं एकासनिकङ्गं.
दुतियभाजनस्स पटिक्खित्तत्ता केवलं एकस्मिंयेव पत्ते पिण्डो पत्तपिण्डो. इदानि पत्तपिण्डगहणे पत्तपिण्डसञ्ञं कत्वा पत्तपिण्डो सीलमस्साति पत्तपिण्डिको. तस्स अङ्गं पत्तपिण्डिकङ्गं.
खलूति पटिसेधनत्थे निपातो. पवारितेन सता पच्छा लद्धं भत्तं पच्छाभत्तं नाम, तस्स पच्छाभत्तस्स भोजनं पच्छाभत्तभोजनं, तस्मिं पच्छाभत्तभोजने पच्छाभत्तसञ्ञं कत्वा पच्छाभत्तं सीलमस्साति पच्छाभत्तिको. न पच्छाभत्तिको खलुपच्छाभत्तिको. समादानवसेन पटिक्खित्तातिरित्तभोजनस्सेतं नामं. अट्ठकथायं पन वुत्तं खलूति एको सकुणो. सो मुखेन फलं गहेत्वा तस्मिं पतिते पुन अञ्ञं न खादति. तादिसो अयन्ति खलुपच्छाभत्तिको. तस्स अङ्गं खलुपच्छाभत्तिकङ्गं.
अरञ्ञे निवासो सीलमस्साति आरञ्ञिको. तस्स अङ्गं आरञ्ञिकङ्गं.
रुक्खमूले निवासो रुक्खमूलं, तं सीलमस्साति रुक्खमूलिको. रुक्खमूलिकस्स अङ्गं रुक्खमूलिकङ्गं. अब्भोकासिकसोसानिकङ्गेसुपि एसेव नयो.
यदेव सन्थतं यथासन्थतं, इदं तुय्हं पापुणातीति एवं पठमं उद्दिट्ठसेनासनस्सेतं अधिवचनं. तस्मिं यथासन्थते विहरितुं सीलमस्साति यथासन्थतिको. तस्स अङ्गं यथासन्थतिकङ्गं.
सयनं पटिक्खिपित्वा निसज्जाय विहरितुं सीलमस्साति नेसज्जिको. तस्स अङ्गं नेसज्जिकङ्गं.
सब्बानेव पनेतानि तेन तेन समादानेन धुतकिलेसत्ता धुतस्स भिक्खुनो अङ्गानि, किलेसधुननतो वा धुतन्ति लद्धवोहारं ञाणं अङ्गं एतेसन्ति धुतङ्गानि. अथ वा धुतानि च तानि पटिपक्खनिद्धुननतो अङ्गानि च पटिपत्तियातिपि धुतङ्गानि. एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो.
सब्बानेव पनेतानि समादानचेतनालक्खणानि. वुत्तम्पि चेतं ‘‘यो समादियति, सो पुग्गलो. येन समादियति, चित्तचेतसिका एते धम्मा. या समादानचेतना, तं धुतङ्गं. यं पटिक्खिपति, तं वत्थू’’ति. सब्बानेव च लोलुप्पविद्धंसनरसानि, निल्लोलुप्पभावपच्चुपट्ठानानि अप्पिच्छतादिअरियधम्मपदट्ठानानि. एवमेत्थ लक्खणादीहि वेदितब्बो विनिच्छयो.
समादानविधानतोतिआदीसु पन पञ्चसु सब्बानेव धुतङ्गानि धरमाने भगवति भगवतोव सन्तिके समादातब्बानि. परिनिब्बुते महासावकस्स सन्तिके. तस्मिं असति खीणासवस्स, अनागामिस्स, सकदागामिस्स, सोतापन्नस्स, तिपिटकस्स, द्विपिटकस्स, एकपिटकस्स, एकसङ्गीतिकस्स, अट्ठकथाचरियस्स. तस्मिं असति धुतङ्गधरस्स, तस्मिम्पि असति चेतियङ्गणं सम्मज्जित्वा उक्कुटिकं निसीदित्वा सम्मासम्बुद्धस्स सन्तिके वदन्तेन विय समादातब्बानि, अपिच सयम्पि समादातुं वट्टति एव. एत्थ च चेतियपब्बते द्वे भातिकत्थेरानं जेट्ठकभातु धुतङ्गप्पिच्छताय वत्थु कथेतब्बं. अयं ताव साधारणकथा.
१. पंसुकूलिकङ्गकथा
२४. इदानि एकेकस्स समादानविधानप्पभेदभेदानिसंसे वण्णयिस्साम. पंसुकूलिकङ्गं ताव ‘‘गहपतिदानचीवरं पटिक्खिपामि, पंसुकूलिकङ्गं समादियामी’’ति इमेसु द्वीसु वचनेसु अञ्ञतरेन समादिन्नं होति. इदं तावेत्थ समादानं.
एवं समादिन्नधुतङ्गेन पन तेन सोसानिकं, पापणिकं, रथियचोळं, सङ्कारचोळं, सोत्थियं, न्हानचोळं, तित्थचोळं, गतपच्चागतं, अग्गिडड्ढं, गोखायितं, उपचिकाखायितं, उन्दूरखायितं, अन्तच्छिन्नं, दसाच्छिन्नं, धजाहटं, थूपचीवरं, समणचीवरं, आभिसेकिकं, इद्धिमयं, पन्थिकं, वाताहटं, देवदत्तियं, सामुद्दियन्तिएतेसु अञ्ञतरं चीवरं गहेत्वा फालेत्वा दुब्बलट्ठानं पहाय थिरट्ठानानि धोवित्वा चीवरं कत्वा पोराणं गहपतिचीवरं अपनेत्वा परिभुञ्जितब्बं.
तत्थ सोसानिकन्ति सुसाने पतितकं. पापणिकन्ति आपणद्वारे पतितकं. रथियचोळन्ति पुञ्ञत्थिकेहि वातपानन्तरेन रथिकाय छड्डितचोळकं. सङ्कारचोळन्ति सङ्कारट्ठाने छड्डितचोळकं. सोत्थियन्ति गब्भमलं पुञ्छित्वा छड्डितवत्थं. तिस्सामच्चमाता किर सतग्घनकेन वत्थेन गब्भमलं पुञ्छापेत्वा पंसुकूलिका गण्हिस्सन्तीति तालवेळिमग्गे छड्डापेसि. भिक्खू जिण्णकट्ठानत्थमेव गण्हन्ति. न्हानचोळन्ति यं भूतवेज्जेहि ससीसं न्हापिता काळकण्णिचोळन्ति छड्डेत्वा गच्छन्ति.
तित्थचोळन्ति न्हानतित्थे छड्डितपिलोतिका. गतपच्चागतन्ति यं मनुस्सा सुसानं गन्त्वा पच्चागता न्हत्वा छड्डेन्ति. अग्गिडड्ढन्ति अग्गिना डड्ढप्पदेसं. तञ्हि मनुस्सा छड्डेन्ति. गोखायितादीनि पाकटानेव. तादिसानिपि हि मनुस्सा छड्डेन्ति. धजाहटन्ति नावं आरोहन्ता धजं बन्धित्वा आरूहन्ति. तं तेसं दस्सनातिक्कमे गहेतुं वट्टति. यम्पि युद्धभूमियं धजं बन्धित्वा ठपितं, तं द्विन्नम्पि सेनानं गतकाले गहेतुं वट्टति.
थूपचीवरन्ति वम्मिकं परिक्खिपित्वा बलिकम्मं कतं. समणचीवरन्ति भिक्खुसन्तकं. आभिसेकिकन्ति रञ्ञो अभिसेकट्ठाने छड्डितचीवरं. इद्धिमयन्ति एहिभिक्खुचीवरं. पन्थिकन्ति अन्तरामग्गे पतितकं. यं पन सामिकानं सतिसम्मोसेन पतितं, तं थोकं रक्खित्वा गहेतब्बं. वाताहटन्ति वातेन पहरित्वा दूरे पातितं, तं पन सामिके अपस्सन्तेन गहेतुं वट्टति. देवदत्तियन्ति अनुरुद्धत्थेरस्स विय देवताहि दिन्नकं. सामुद्दियन्ति समुद्दवीचीहि थले उस्सारितं.
यं पन सङ्घस्स देमाति दिन्नं, चोळकभिक्खाय वा चरमानेहि लद्धं, न तं पंसुकूलं. भिक्खुदत्तियेपि यं वस्सग्गेन गाहेत्वा वा दीयति, सेनासनचीवरं वा होति, न तं पंसुकूलं. नो गाहापेत्वा दिन्नमेव पंसुकूलं. तत्रपि यं दायकेहि भिक्खुस्स पादमूले निक्खित्तं, तेन पन भिक्खुना पंसुकूलिकस्स हत्थे ठपेत्वा दिन्नं, तं एकतोसुद्धिकं नाम. यं भिक्खुनो हत्थे ठपेत्वा दिन्नं, तेन पन पादमूले ठपितं, तम्पि एकतोसुद्धिकं. यं भिक्खुनोपि पादमूले ठपितं, तेनापि तथेव दिन्नं, तं उभतोसुद्धिकं. यं हत्थे ठपेत्वा लद्धं, हत्थेयेव ठपितं, तं अनुक्कट्ठचीवरं नाम. इति इमं पंसुकूलभेदं ञत्वा पंसुकूलिकेन चीवरं परिभुञ्जितब्बन्ति इदमेत्थ विधानं.
अयं पन पभेदो, तयो पंसुकूलिका उक्कट्ठो मज्झिमो मुदूति. तत्थ सोसानिकंयेव गण्हन्तो उक्कट्ठो होति. पब्बजिता गण्हिस्सन्तीति ठपितकं गण्हन्तो मज्झिमो. पादमूले ठपेत्वा दिन्नकं गण्हन्तो मुदूति.
तेसु यस्स कस्सचि अत्तनो रुचिया गिहिदिन्नकं सादितक्खणे धुतङ्गं भिज्जति. अयमेत्थ भेदो.
अयं पनानिसंसो, ‘‘पंसुकूलचीवरं निस्साय पब्बज्जा’’ति (महाव. १२८) वचनतो निस्सयानुरूपपटिपत्तिसब्भावो, पठमे अरियवंसे पतिट्ठानं, आरक्खदुक्खाभावो, अपरायत्तवुत्तिता, चोरभयेन अभयता, परिभोगतण्हाय अभावो, समणसारुप्पपरिक्खारता, ‘‘अप्पानि चेव सुलभानि च तानि च अनवज्जानी’’ति (अ. नि. ४.२७; इतिवु. १०१) भगवता संवण्णितपच्चयता, पासादिकता, अप्पिच्छतादीनं फलनिप्फत्ति, सम्मापटिपत्तिया अनुब्रूहनं, पच्छिमाय जनताय दिट्ठानुगतिआपादनन्ति.
मारसेनविघाताय, पंसुकूलधरो यति;
सन्नद्धकवचो युद्धे, खत्तियो विय सोभति.
पहाय कासिकादीनि, वरवत्थानि धारितं;
यं लोकगरुना को तं, पंसुकूलं न धारये.
तस्मा हि अत्तनो भिक्खु, पटिञ्ञं समनुस्सरं;
योगाचारानुकूलम्हि, पंसुकूले रतो सियाति.
अयं ताव पंसुकूलिकङ्गे समादानविधानप्पभेदभेदानिसंसवण्णना.
२. तेचीवरिकङ्गकथा
२५. तदनन्तरं पन तेचीवरिकङ्गं ‘‘चतुत्थकचीवरं पटिक्खिपामि, तेचीवरिकङ्गं समादियामी’’ति इमेसं अञ्ञतरवचनेन समादिन्नं होति.
तेन पन तेचीवरिकेन चीवरदुस्सं लभित्वा याव अफासुकभावेन कातुं वा न सक्कोति, विचारकं वा न लभति, सूचिआदीसु वास्स किञ्चि न सम्पज्जति, ताव निक्खिपितब्बं. निक्खित्तपच्चया दोसो नत्थि. रजितकालतो पन पट्ठाय निक्खिपितुं न वट्टति, धुतङ्गचोरो नाम होति. इदमस्स विधानं.
पभेदतो पन अयम्पि तिविधो होति. तत्थ उक्कट्ठेन रजनकाले पठमं अन्तरवासकं वा उत्तरासङ्गं वा रजित्वा तं निवासेत्वा इतरं रजितब्बं. तं पारुपित्वा सङ्घाटि रजितब्बा. सङ्घाटिं पन निवासेतुं न वट्टति. इदमस्स गामन्तसेनासने वत्तं. आरञ्ञके पन द्वे एकतो धोवित्वा रजितुं वट्टति. यथा पन कञ्चि दिस्वा सक्कोति कासावं आकड्ढित्वा उपरिकातुं, एवं आसन्ने ठाने निसीदितब्बं. मज्झिमस्स रजनसालायं रजनकासावं नाम होति, तं निवासेत्वा वा पारुपित्वा वा रजनकम्मं कातुं वट्टति. मुदुकस्स सभागभिक्खूनं चीवरानि निवासेत्वा वा पारुपित्वा वा रजनकम्मं कातुं वट्टति. तत्रट्ठकपच्चत्थरणम्पि तस्स वट्टति. परिहरितुं पन न वट्टति. सभागभिक्खूनं चीवरम्पि अन्तरन्तरा परिभुञ्जितुं वट्टति. धुतङ्गतेचीवरिकस्स पन चतुत्थं वत्तमानं अंसकासावमेव वट्टति. तञ्च खो वित्थारतो विदत्थि, दीघतो तिहत्थमेव वट्टति.
इमेसं पन तिण्णम्पि चतुत्थकचीवरं सादितक्खणेयेव धुतङ्गं भिज्जति. अयमेत्थ भेदो.
अयं पनानिसंसो, तेचीवरिको भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन. तेनस्स पक्खिनो विय समादायेव गमनं, अप्पसमारम्भता, वत्थसन्निधिपरिवज्जनं, सल्लहुकवुत्तिता, अतिरेकचीवरलोलुप्पप्पहानं, कप्पिये मत्तकारिताय सल्लेखवुत्तिता, अप्पिच्छतादीनं फलनिप्फत्तीति एवमादयो गुणा सम्पज्जन्तीति.
अतिरेकवत्थतण्हं, पहाय सन्निधिविवज्जितो धीरो;
सन्तोससुखरसञ्ञू, तिचीवरधरो भवति योगी.
तस्मा सपत्तचरणो, पक्खीव सचीवरोव योगिवरो;
सुखमनुविचरितुकामो, चीवरनियमे रतिं कयिराति.
अयं तेचीवरिकङ्गे समादानविधानप्पभेदभेदानिसंसवण्णना.
३. पिण्डपातिकङ्गकथा
२६. पिण्डपातिकङ्गम्पि ‘‘अतिरेकलाभं पटिक्खिपामि, पिण्डपातिकङ्गं समादियामी’’ति इमेसं अञ्ञतरवचनेन समादिन्नं होति.
तेन पन पिण्डपातिकेन ‘‘सङ्घभत्तं, उद्देसभत्तं, निमन्तनभत्तं, सलाकभत्तं, पक्खिकं, उपोसथिकं, पाटिपदिकं, आगन्तुकभत्तं, गमिकभत्तं, गिलानभत्तं, गिलानुपट्ठाकभत्तं, विहारभत्तं, धुरभत्तं, वारकभत्त’’न्ति एतानि चुद्दस भत्तानि न सादितब्बानि. सचे पन ‘‘सङ्घभत्तं गण्हथा’’तिआदिना नयेन अवत्वा ‘‘अम्हाकं गेहे सङ्घो भिक्खं गण्हातु, तुम्हेपि भिक्खं गण्हथा’’ति वत्वा दिन्नानि होन्ति, तानि सादितुं वट्टन्ति. सङ्घतो निरामिससलाकापि विहारे पक्कभत्तम्पि वट्टतियेवाति इदमस्स विधानं.
पभेदतो पन अयम्पि तिविधो होति. तत्थ उक्कट्ठो पुरतोपि पच्छतोपि आहटभिक्खं गण्हति, पत्तद्वारे ठत्वा पत्तं गण्हन्तानम्पि देति, पटिक्कमनं आहरित्वा दिन्नभिक्खम्पि गण्हति, तं दिवसं पन निसीदित्वा भिक्खं न गण्हति. मज्झिमो तं दिवसं निसीदित्वापि गण्हति, स्वातनाय पन नाधिवासेति. मुदुकोस्वातनायपि पुनदिवसायपि भिक्खं अधिवासेति. ते उभोपि सेरिविहारसुखं न लभन्ति, उक्कट्ठोव लभति. एकस्मिं किर गामे अरियवंसो होति, उक्कट्ठो इतरे आह – ‘‘आयामावुसो, धम्मसवनाया’’ति. तेसु एको एकेनम्हि, भन्ते, मनुस्सेन निसीदापितोति आह. अपरो मया, भन्ते, स्वातनाय एकस्स भिक्खा अधिवासिताति. एवं ते उभो परिहीना. इतरो पातोव पिण्डाय चरित्वा गन्त्वा धम्मरसं पटिसंवेदेसि.
इमेसं पन तिण्णम्पि सङ्घभत्तादिअतिरेकलाभं सादितक्खणेव धुतङ्गं भिज्जति. अयमेत्थ भेदो.
अयं पनानिसंसो, ‘‘पिण्डियालोपभोजनं निस्साय पब्बज्जा’’ति (अ. नि. ४.२७; इतिवु. १०१) वचनतो निस्सयानुरूपपटिपत्तिसब्भावो, दुतिये अरियवंसे पतिट्ठानं, अपरायत्तवुत्तिता, ‘‘अप्पानि चेव सुलभानि च तानि च अनवज्जानी’’ति भगवता संवण्णितपच्चयता, कोसज्जनिम्मद्दनता, परिसुद्धाजीवता, सेखियपटिपत्तिपूरणं, अपरपोसिता, परानुग्गहकिरिया, मानप्पहानं, रसतण्हानिवारणं, गणभोजनपरम्परभोजनचारित्तसिक्खापदेहि अनापत्तिता, अप्पिच्छतादीनं अनुलोमवुत्तिता, सम्मापटिपत्तिब्रूहनं, पच्छिमजनतानुकम्पनन्ति.
पिण्डियालोपसन्तुट्ठो, अपरायत्तजीविको;
पहीनाहारलोलुप्पो, होति चातुद्दिसो यति.
विनोदयति कोसज्जं, आजीवस्स विसुज्झति;
तस्मा हि नातिमञ्ञेय्य, भिक्खाचरियाय सुमेधसो.
एवरूपस्स हि –
‘‘पिण्डपातिकस्स भिक्खुनो,
अत्तभरस्स अनञ्ञपोसिनो;
देवापि पिहयन्ति तादिनो,
नो चे लाभसिलोकनिस्सितो’’ति.
अयं पिण्डपातिकङ्गे समादानविधानप्पभेदभेदानिसंसवण्णना.
४. सपदानचारिकङ्गकथा
२७. सपदानचारिकङ्गम्पि ‘‘लोलुप्पचारं पटिक्खिपामि, सपदानचारिकङ्गं समादियामी’’ति इमेसं अञ्ञतरवचनेन समादिन्नं होति.
तेन पन सपदानचारिकेन गामद्वारे ठत्वा परिस्सयाभावो सल्लक्खेतब्बो. यस्सा रच्छाय वा गामे वा परिस्सयो होति, तं पहाय अञ्ञत्थ चरितुं वट्टति. यस्मिं घरद्वारे वा रच्छाय वा गामे वा किञ्चि न लभति, अगामसञ्ञं कत्वा गन्तब्बं. यत्थ किञ्चि लभति, तं पहाय गन्तुं न वट्टति. इमिना च भिक्खुना कालतरं पविसितब्बं, एवञ्हि अफासुकट्ठानं पहाय अञ्ञत्थ गन्तुं सक्खिस्सति. सचे पनस्स विहारे दानं देन्ता अन्तरामग्गे वा आगच्छन्ता मनुस्सा पत्तं गहेत्वा पिण्डपातं देन्ति वट्टति. इमिना च मग्गं गच्छन्तेनापि भिक्खाचारवेलायं सम्पत्तगामं अनतिक्कमित्वा चरितब्बमेव. तत्थ अलभित्वा वा थोकं लभित्वा वा गामपटिपाटिया चरितब्बन्ति इदमस्स विधानं.
पभेदतो पन अयम्पि तिविधो होति. तत्थ उक्कट्ठो पुरतो आहटभिक्खम्पि पच्छतो आहटभिक्खम्पि पटिक्कमनं आहरित्वा दिय्यमानम्पि न गण्हति, पत्तद्वारे पन पत्तं विस्सज्जेति. इमस्मिञ्हि धुतङ्गे महाकस्सपत्थेरेन सदिसो नाम नत्थि. तस्सपि पत्तविस्सट्ठट्ठानमेव पञ्ञायति. मज्झिमो पुरतो वा पच्छतो वा आहटम्पि पटिक्कमनं आहटम्पि गण्हति, पत्तद्वारेपि पत्तं विस्सज्जेति, न पन भिक्खं आगमयमानो निसीदति. एवं सो उक्कट्ठपिण्डपातिकस्स अनुलोमेति. मुदुको तं दिवसं निसीदित्वा आगमेति.
इमेसं पन तिण्णम्पि लोलुप्पचारे उप्पन्नमत्ते धुतङ्गं भिज्जति. अयमेत्थ भेदो.
अयं पनानिसंसो, कुलेसु निच्चनवकता, चन्दूपमता, कुलमच्छेरप्पहानं, समानुकम्पिता, कुलूपकादीनवाभावो, अव्हानानभिनन्दना, अभिहारेन अनत्थिकता, अप्पिच्छतादीनं अनुलोमवुत्तिताति.
चन्दूपमो निच्चनवो कुलेसु,
अमच्छरी सब्बसमानुकम्पो;
कुलूपकादीनवविप्पमुत्तो,
होतीध भिक्खु सपदानचारी.
लोलुप्पचारञ्च पहाय तस्मा,
ओक्खित्तचक्खु युगमत्तदस्सी;
आकङ्खमानो भुवि सेरिचारं,
चरेय्य धीरो सपदानचारन्ति.
अयं सपदानचारिकङ्गे समादानविधानप्पभेदभेदानिसंसवण्णना.
५. एकासनिकङ्गकथा
२८. एकासनिकङ्गम्पि ‘‘नानासनभोजनं पटिक्खिपामि, एकासनिकङ्गं समादियामी’’ति इमेसं अञ्ञतरवचनेन समादिन्नं होति.
तेन पन एकासनिकेन आसनसालायं निसीदन्तेन थेरासने अनिसीदित्वा ‘‘इदं मय्हं पापुणिस्सती’’ति पतिरूपं आसनं सल्लक्खेत्वा निसीदितब्बं. सचस्स विप्पकते भोजने आचरियो वा उपज्झायो वा आगच्छति, उट्ठाय वत्तं कातुं वट्टति. तिपिटकचूळाभयत्थेरो पनाह ‘‘आसनं वा रक्खेय्य भोजनं वा, अयञ्च विप्पकतभोजनो, तस्मा वत्तं करोतु, भोजनं पन मा भुञ्जतू’’ति. इदमस्स विधानं.
पभेदतो पन अयम्पि तिविधो होति. तत्थ उक्कट्ठो अप्पं वा होतु बहु वा, यम्हि भोजने हत्थं ओतारेति, ततो अञ्ञं गण्हितुं न लभति. सचेपि मनुस्सा ‘‘थेरेन न किञ्चि भुत्त’’न्ति सप्पिआदीनि आहरन्ति, भेसज्जत्थमेव वट्टन्ति, न आहारत्थं. मज्झिमो याव पत्ते भत्तं न खीयति, ताव अञ्ञं गण्हितुं लभति. अयञ्हि भोजनपरियन्तिको नाम होति. मुदुको याव आसना न वुट्ठाति ताव भुञ्जितुं लभति. सो हि उदकपरियन्तिको वा होति याव पत्तधोवनं न गण्हाति ताव भुञ्जनतो, आसनपरियन्तिको वा याव न वुट्ठाति ताव भुञ्जनतो.
इमेसं पन तिण्णम्पि नानासनभोजनं भुत्तक्खणे धुतङ्गं भिज्जति. अयमेत्थ भेदो.
अयं पनानिसंसो, अप्पाबाधता, अप्पातङ्कता, लहुट्ठानं, बलं, फासुविहारो, अनतिरित्तपच्चया अनापत्ति, रसतण्हाविनोदनं अप्पिच्छतादीनं अनुलोमवुत्तिताति.
एकासनभोजने रतं,
न यतिं भोजनपच्चया रुजा;
विसहन्ति रसे अलोलुपो,
परिहापेति न कम्ममत्तनो.
इति फासुविहारकारणे,
सुचिसल्लेखरतूपसेविते;
जनयेथ विसुद्धमानसो,
रतिमेकासनभोजने यतीति.
अयं एकासनिकङ्गे समादानविधानप्पभेदभेदानिसंसवण्णना.
६. पत्तपिण्डिकङ्गकथा
२९. पत्तपिण्डिकङ्गम्पि ‘‘दुतियकभाजनं पटिक्खिपामि, पत्तपिण्डिकङ्गं समादियामी’’ति इमेसं अञ्ञतरवचनेन समादिन्नं होति.
तेन पन पत्तपिण्डिकेन यागुपानकाले भाजने ठपेत्वा ब्यञ्जने लद्धे ब्यञ्जनं वा पठमं खादितब्बं, यागु वा पातब्बा. सचे पन यागुयं पक्खिपति, पूतिमच्छकादिम्हि ब्यञ्जने पक्खित्ते यागु पटिकूला होति, अप्पटिकूलमेव च कत्वा भुञ्जितुं वट्टति. तस्मा तथारूपं ब्यञ्जनं सन्धाय इदं वुत्तं. यं पन मधुसक्करादिकं अप्पटिकूलं होति, तं पक्खिपितब्बं. गण्हन्तेन च पमाणयुत्तमेव गण्हितब्बं. आमकसाकं हत्थेन गहेत्वा खादितुं वट्टति. तथा पन अकत्वा पत्तेयेव पक्खिपितब्बं. दुतियकभाजनस्स पन पटिक्खित्तत्ता अञ्ञं रुक्खपण्णम्पि न वट्टतीति इदमस्स विधानं.
पभेदतो पन अयम्पि तिविधो होति. तत्थ उक्कट्ठस्स अञ्ञत्र उच्छुखादनकाला कचवरम्पि छड्डेतुं न वट्टति. ओदनपिण्डमच्छमंसपूवेपि भिन्दित्वा खादितुं न वट्टति. मज्झिमस्स एकेन हत्थेन भिन्दित्वा खादितुं वट्टति, हत्थयोगी नामेस. मुदुको पन पत्तयोगी नाम होति, तस्स यं सक्का होति पत्ते पक्खिपितुं, तं सब्बं हत्थेन वा दन्तेहि वा भिन्दित्वा खादितुं वट्टति.
इमेसं पन तिण्णम्पि दुतियकभाजनं सादितक्खणे धुतङ्गं भिज्जति. अयमेत्थ भेदो.
अयं पनानिसंसो, नानारसतण्हाविनोदनं. अत्रिच्छताय पहानं, आहारे पयोजनमत्तदस्सिता, थालकादिपरिहरणखेदाभावो, अविक्खित्तभोजिता, अप्पिच्छतादीनं अनुलोमवुत्तिताति.
नानाभाजनविक्खेपं, हित्वा ओक्खित्तलोचनो;
खणन्तो विय मूलानि, रसतण्हाय सुब्बतो.
सरूपं विय सन्तुट्ठिं, धारयन्तो सुमानसो;
परिभुञ्जेय्य आहारं, को अञ्ञो पत्तपिण्डिकोति.
अयं पत्तपिण्डिकङ्गे समादानविधानप्पभेदभेदानिसंसवण्णना.
७. खलुपच्छाभत्तिकङ्गकथा
३०. खलुपच्छाभत्तिकङ्गम्पि ‘‘अतिरित्तभोजनं पटिक्खिपामि, खलुपच्छाभत्तिकङ्गं समादियामी’’ति इमेसं अञ्ञतरवचनेन समादिन्नं होति.
तेन पन खलुपच्छाभत्तिकेन पवारेत्वा पुन भोजनं कप्पियं कारेत्वा न भुञ्जितब्बं. इदमस्स विधानं.
पभेदतो पन अयम्पि तिविधो होति. तत्थ उक्कट्ठो यस्मा पठमपिण्डे पवारणा नाम नत्थि, तस्मिं पन अज्झोहरियमाने अञ्ञं पटिक्खिपतो होति, तस्मा एवं पवारितो पठमपिण्डं अज्झोहरित्वा दुतियपिण्डं न भुञ्जति. मज्झिमो यस्मिं भोजने पवारितो, तदेव भुञ्जति. मुदुको पन याव आसना न वुट्ठाति ताव भुञ्जति.
इमेसं पन तिण्णम्पि पवारितानं कप्पियं कारापेत्वा भुत्तक्खणे धुतङ्गं भिज्जति. अयमेत्थ भेदो.
अयं पनानिसंसो, अनतिरित्तभोजनापत्तिया दूरभावो, ओदरिकत्ताभावो, निरामिससन्निधिता, पुन परियेसनाय अभावो, अप्पिच्छतादीनं अनुलोमवुत्तिताति.
परियेसनाय खेदं, न याति न करोति सन्निधिं धीरो;
ओदरिकत्तं पजहति, खलुपच्छाभत्तिको योगी.
तस्मा सुगतपसत्थं, सन्तोसगुणादिवुड्ढिसञ्जननं;
दोसे विधुनितुकामो, भजेय्य योगी धुतङ्गमिदन्ति.
अयं खलुपच्छाभत्तिकङ्गे समादानविधानप्पभेदभेदानिसंसवण्णना.
८. आरञ्ञिकङ्गकथा
३१. आरञ्ञिकङ्गम्पि ‘‘गामन्तसेनासनं पटिक्खिपामि, आरञ्ञिकङ्गं समादियामी’’ति इमेसं अञ्ञतरवचनेन समादिन्नं होति.
तेन पन आरञ्ञिकेन गामन्तसेनासनं पहाय अरञ्ञे अरुणं उट्ठापेतब्बं. तत्थ सद्धिं उपचारेन गामोयेव गामन्तसेनासनं.
गामो नाम यो कोचि एककुटिको वा अनेककुटिको वा परिक्खित्तो वा अपरिक्खित्तो वा समनुस्सो वा अमनुस्सो वा अन्तमसो अतिरेकचातुमासनिविट्ठो यो कोचि सत्थोपि.
गामूपचारो नाम परिक्खित्तस्स गामस्स सचे अनुराधपुरस्सेव द्वे इन्दखीला होन्ति, अब्भन्तरिमे इन्दखीले ठितस्स थाममज्झिमस्स पुरिसस्स लेड्डुपातो. तस्स लक्खणं यथा तरुणमनुस्सा अत्तनो बलं दस्सेन्ता बाहं पसारेत्वा लेड्डुं खिपन्ति, एवं खित्तस्स लेड्डुस्स पतनट्ठानब्भन्तरन्ति विनयधरा. सुत्तन्तिका पन काकनिवारणनियमेन खित्तस्साति वदन्ति. अपरिक्खित्तगामे यं सब्बपच्चन्तिमस्स घरस्स द्वारे ठितो मातुगामो भाजनेन उदकं छड्डेति, तस्स पतनट्ठानं घरूपचारो. ततो वुत्तनयेन एको लेड्डुपातो गामो, दुतियो गामूपचारो.
अरञ्ञं पन विनयपरियाये ताव ‘‘ठपेत्वा गामञ्च गामूपचारञ्च सब्बमेतं अरञ्ञ’’न्ति (पारा. ९२) वुत्तं. अभिधम्मपरियाये ‘‘निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ्ञ’’न्ति (विभ. ५२९) वुत्तं. इमस्मिं पन सुत्तन्तिकपरियाये ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति इदं लक्खणं. तं आरोपितेन आचरियधनुना परिक्खित्तस्स गामस्स इन्दखीलतो अपरिक्खित्तस्स पठमलेड्डुपाततो पट्ठाय याव विहारपरिक्खेपा मिनित्वा ववत्थपेतब्बं.
सचे पन विहारो अपरिक्खित्तो होति, यं सब्बपठमं सेनासनं वा भत्तसाला वा धुवसन्निपातट्ठानं वा बोधि वा चेतियं वा दूरे चेपि सेनासनतो होति, तं परिच्छेदं कत्वा मिनितब्बन्ति विनयट्ठकथासु वुत्तं. मज्झिमट्ठकथायं पन विहारस्सपि गामस्सेव उपचारं नीहरित्वा उभिन्नं लेड्डुपातानं अन्तरा मिनितब्बन्ति वुत्तं. इदमेत्थ पमाणं.
सचेपि आसन्ने गामो होति, विहारे ठितेहि मानुसकानं सद्दो सुय्यति, पब्बतनदीआदीहि पन अन्तरितत्ता न सक्का उजुं गन्तुं. यो तस्स पकतिमग्गो होति, सचेपि नावाय सञ्चरितब्बो, तेन मग्गेन पञ्चधनुसतिकं गहेतब्बं. यो पन आसन्नगामस्स अङ्गसम्पादनत्थं ततो ततो मग्गं पिदहति, अयं धुतङ्गचोरो होति.
सचे पन आरञ्ञिकस्स भिक्खुनो उपज्झायो वा आचरियो वा गिलानो होति, तेन अरञ्ञे सप्पायं अलभन्तेन गामन्तसेनासनं नेत्वा उपट्ठातब्बो. कालस्सेव पन निक्खमित्वा अङ्गयुत्तट्ठाने अरुणं उट्ठापेतब्बं. सचे अरुणुट्ठानवेलायं तेसं आबाधो वड्ढति, तेसंयेव किच्चं कातब्बं. न धुतङ्गसुद्धिकेन भवितब्बन्ति इदमस्स विधानं.
पभेदतो पन अयम्पि तिविधो होति. तत्थ उक्कट्ठेन सब्बकालं अरञ्ञे अरुणं उट्ठापेतब्बं. मज्झिमो चत्तारो वस्सिके मासे गामन्ते वसितुं लभति. मुदुको हेमन्तिकेपि.
इमेसं पन तिण्णम्पि यथा परिच्छिन्ने काले अरञ्ञतो आगन्त्वा गामन्तसेनासने धम्मस्सवनं सुणन्तानं अरुणे उट्ठितेपि धुतङ्गं न भिज्जति. सुत्वा गच्छन्तानं अन्तरामग्गे उट्ठितेपि न भिज्जति. सचे पन उट्ठितेपि धम्मकथिके मुहुत्तं निपज्जित्वा गमिस्सामाति निद्दायन्तानं अरुणं उट्ठहति, अत्तनो वा रुचिया गामन्तसेनासने अरुणं उट्ठपेन्ति, धुतङ्गं भिज्जतीति अयमेत्थ भेदो.
अयं पनानिसंसो, आरञ्ञिको भिक्खु अरञ्ञसञ्ञं मनसिकरोन्तो भब्बो अलद्धं वा समाधिं पटिलद्धुं लद्धं वा रक्खितुं, सत्थापिस्स अत्तमनो होति. यथाह – ‘‘तेनाहं, नागित, तस्स भिक्खुनो अत्तमनो होमि अरञ्ञविहारेना’’ति (अ. नि. ६.४२; ८.८६). पन्तसेनासनवासिनो चस्स असप्पायरूपादयो चित्तं न विक्खिपन्ति, विगतसन्तासो होति, जीवितनिकन्तिं जहति, पविवेकसुखरसं अस्सादेति, पंसुकूलिकादिभावोपि चस्स पतिरूपो होतीति.
पविवित्तो असंसट्ठो, पन्तसेनासने रतो;
आराधयन्तो नाथस्स, वनवासेन मानसं.
एको अरञ्ञे निवसं, यं सुखं लभते यति;
रसं तस्स न विन्दन्ति, अपि देवा सइन्दका.
पंसुकूलञ्च एसोव, कवचं विय धारयं;
अरञ्ञसङ्गामगतो, अवसेसधुतायुधो.
समत्थो नचिरस्सेव, जेतुं मारं सवाहिनिं;
तस्मा अरञ्ञवासम्हि, रतिं कयिराथ पण्डितोति.
अयं आरञ्ञिकङ्गे समादानविधानप्पभेदभेदानिसंसवण्णना.
९. रुक्खमूलिकङ्गकथा
३२. रुक्खमूलिकङ्गम्पि ‘‘छन्नं पटिक्खिपामि, रुक्खमूलिकङ्गं समादियामी’’ति इमेसं अञ्ञतरवचनेन समादिन्नं होति.
तेन पन रुक्खमूलिकेन सीमन्तरिकरुक्खं, चेतियरुक्खं, निय्यासरुक्खं, फलरुक्खं, वग्गुलिरुक्खं, सुसिररुक्खं, विहारमज्झे ठितरुक्खन्ति इमे रुक्खे विवज्जेत्वा विहारपच्चन्ते ठितरुक्खो गहेतब्बोति इदमस्स विधानं.
पभेदतो पन अयम्पि तिविधो होति. तत्थ उक्कट्ठो यथारुचितं रुक्खं गहेत्वा पटिजग्गापेतुं न लभति. पादेन पण्णसटं अपनेत्वा वसितब्बं. मज्झिमो तं ठानं सम्पत्तेहियेव पटिजग्गापेतुं लभति. मुदुकेन आरामिकसमणुद्देसे पक्कोसित्वा सोधापेत्वा समं कारापेत्वा वालुकं ओकिरापेत्वा पाकारपरिक्खेपं कारापेत्वा द्वारं योजापेत्वा वसितब्बं. महदिवसे पन रुक्खमूलिकेन तत्थ अनिसीदित्वा अञ्ञत्थ पटिच्छन्ने ठाने निसीदितब्बं.
इमेसं पन तिण्णम्पि छन्ने वासं कप्पितक्खणे धुतङ्गं भिज्जति. जानित्वा छन्ने अरुणं उट्ठापितमत्तेति अङ्गुत्तरभाणका. अयमेत्थ भेदो.
अयं पनानिसंसो, रुक्खमूलसेनासनं निस्साय पब्बज्जाति (महाव. १२८) वचनतो निस्सयानुरूपपटिपत्तिसब्भावो, अप्पानि चेव सुलभानि च तानि च अनवज्जानीति (अ. नि. ४.२७; इतिवु. १०१) भगवता संवण्णितपच्चयता, अभिण्हं तरुपण्णविकारदस्सनेन अनिच्चसञ्ञासमुट्ठापनता, सेनासनमच्छेरकम्मारामतानं अभावो, देवताहि सहवासिता, अप्पिच्छतादीनं अनुलोमवुत्तिताति.
वण्णितो बुद्धसेट्ठेन, निस्सयोति च भासितो;
निवासो पविवित्तस्स, रुक्खमूलसमो कुतो.
आवासमच्छेरहरे, देवता परिपालिते;
पविवित्ते वसन्तो हि, रुक्खमूलम्हि सुब्बतो.
अभिरत्तानि नीलानि, पण्डूनि पतितानि च;
पस्सन्तो तरुपण्णानि, निच्चसञ्ञं पनूदति.