थुपवंसो |ओ०.०००१|

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

यस्मिं सयिंसु जिनधातुवरा समन्ता

छब्बण्ण रंसि विसरेहि समुज्जलन्ता,

निम्माय लोकहितहेतु जिनस्स रूपं

तं थुपमब्भुत तमं सिरसा नमित्वा;

चक्खामहं सकल लोक हितावहस्स

थुपस्स सब्ब जन नण्दन कारणस्स,

वंसं सुरासुर नरिण्दवरेहि निच्चं

सम्पूजितस्स रतनुज्जल थूपिकस्स;

किञ्चापि सो यतिजनेन पुरातनेन

अत्वाय सीहळजनस्स कतो पुरापि,

वाक्केन सिहळभवेन’भिसङ्खमत्ता

अत्थं न साधहति सब्बजनस्स सम्मा;

यस्मा च मागध निरुत्तिकतोपि थूप-

वंसो विरुद्धनय सद्द समाकुलो सो,

वत्तब्बमेव च बहुम्पि यतो न वुत्तं

तम्हा अहं पुनपि वंसमि’मं वदामि;

सुणाथ साधवो सब्बे परिपुण्णमनाकुलं

वुच्चमानं मया साधु वंसं थूपस्स सत्थुनोति;

तत्थ थूपस्स वंसं वक्खामीति एत्थ तथागतो अरहं सम्मा सम्बुद्धो थूपारहो, पच्चेकबुद्धो थूपारहो, तथागतस्स सावको थूपारहो, राजा चक्कवत्ति थूपारहोति वचनतो थूपारहानं बुद्धादीनं धातुयो पतिट्ठापेत्वा कत चेतियं अब्भुनन तट्ठेन |ओ०.०००२| थूपोति वुच्चति, इध पन कञ्चन मालिक महाथूपो अधिप्पेतो, सो कस्स धातुयो पतिट्ठापेत्वा कतोति चे? योदीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धव्याकरणो समतिंसपारमियो पूरेत्वा परमाभिसम्बोधिं पत्वा धम्मचक्कप्पवत्तनतो पट्ठाय याव सुहद्द परिब्बाजक विनयान सब्ब बुद्धकिच्चानि निट्ठापेत्वा अनुपादियेसाय निब्बानधातुया परिनिब्बुतो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स धातुयो पतिट्ठापेत्वा कतो अयमेत्थ सङ्खेपो, वित्थारो पन वेदितब्बो?

२. इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्खेय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति. सो अञ्ञं कम्मं अकत्वा ब्रह्मणसिप्पमेव उग्गण्हि तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढनको अमच्चो आय पोत्थकं आहरित्वा सुवण्ण रजत मणिमुत्तादि भरिते गब्भे विवरित्वा एत्तकं ते कुमार मातु सन्तकं, एत्तकं पितुसन्तकं, एत्तकं अय्यक पय्यकानन्ति याव सत्तमा कुलपरिवट्टा धकं आचिक्खित्वा एतम्पटिजग्गाहीति आह. सो साधूति सम्पटिच्छित्वा अगारं अज्झावसन्तो एकदिवसं चिन्तेसि.

३. पुनब्भवे पटिसण्धिगहणं ताम दुक्खं, तथा निब्बत्त निब्बत्तट्ठाने सरीरभेदनं अहञ्च जानिधम्मो जराधम्मो व्याधिधम्मो मरणधम्मो. एवं भूतेन मया अजाति अजरं अव्याधिं अमरणं सुखं सीतलं निब्बानं गवेसितुं वट्टतीति नेक्खम्मकारणं चिन्तेत्वा पुन चिन्तेसि इमं धनं सब्बं मय्हं पितु पितामहादयो परलोकं गच्छन्ता एक कहापणम्पि गहेत्वा नगता मया पन गहेत्वा गमनकारणं कातुं वट्टतीति नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा हिमवन्तस्स पविसित्वा तापस पब्बज्जं पब्बजित्वा सत्ताहब्भन्तरेयेव अभिञ्ञा च समापत्तियो च निब्बत्तेत्व समापत्तिसुखेन वीतिनामेसि.

तदा दीपङ्करो नाम सत्था परयाभिसम्बोधिं पत्वा सत्त सत्ताहं बोधिसमीपेचेव वितिनामेत्वा सुनण्दारामे धम्मचक्कं पवत्तेत्वा कोटिसत्तानं देवमनुस्सानं धम्ममतं पायेत्वा चातुद्दीपिक महामेघो विय धम्मवस्सं वस्सेन्तो चतूहि खीणासय सतसहस्सेहि परिवुतो अनुपुब्बेन चारकं चरमानो रम्म नगरं पत्वा सुदस्सन महाविहारे पटिवसति तदा रम्मनगरवासिनो सप्पि फणितादीनि भेसज्जानि गहेत्वा पुप्फ धूप गण्धहत्था येन बुद्धो तेनपसङ्कमित्वा सत्थारं वन्दित्वा पुप्फादीहि पूजेत्वा एकमन्तं निसीदित्वा धम्मं सुत्वा स्वातनाय भगवन्तं निमन्तेत्वा उट्ठायासना दसबलं पदक्खीनं कत्वा पक्कमिंसु.

ते |ओ०.०००३| पुन दिवसे असदिस महादानं सज्जेत्वा दसबलस्स आगमन मग्गं सोधेन्ति. तस्मिं काले सुमेधतापसो अत्तनो अस्सम पदतो उग्गन्त्वा रम्मनगरवासीनं तेसं मनुस्सानं उपरिभागेन आकासेन गच्छन्ता ते हट्ठपहट्ठे मग्गं सोधेन्ते दिस्वा किन्नु खो कारणन्ति चिन्तेन्तो सब्बेसं पस्सन्तानंयेव आकासतो ओरु एकमन्ते ठत्थायह ते मनुस्से पुच्छि.’हम्भो कस्स पन इमं मग्गं सोधेथा’ति ते आहंसु भन्ते सुमेध तुम्हे किं नं जानाथ, दीपङ्करो नाम सत्था परमाभिसम्बोधिं पत्वा पवत्तवर धम्मचक्को जनपद चारिकं चरमानो अनुक्कमेन अम्हाकं नगरं पत्वा सुदस्सन महाविहारे पटिवसति. मयं तं भगवन्तं निमन्तयिम्ह तस्स भगवतो आगमनमग्गं सोधेमाति. तं सुत्वा सुमेधपण्डितो चिन्तेसि. बुद्धोति खो पनेस घोसोपि दुल्लभो, पगेव बुद्धुप्पादो तेन हि मयापि इमेहि मनुस्सेहि सद्धिं दसबलस्स आगमनमग्गं सोधेतुं वट्टतीति सो ते मनुस्से आह, सचे भो तुम्हे इमं मग्ग बुद्धस्स सोधेथ - सयहम्पि एकं ओकासं सम्पटिच्छत्वा अयं सुमेधपण्डितो महिद्धिको महानुभावोति जानन्ता दुब्बिसोधनं उदकसम्भिन्नं अतिविसमं एकं ओकासं सल्लक्खेत्वा इमं हकासं तुम्हे सोधेथ. अलङ्करोथाति अदंसु.

सुमेधपण्डितो बुद्धारम्मण पीतिं उप्पादेत्वा चिन्तेसि. अहम्पनिमं ओकासं इद्धीया परमदस्सनीय कातुं पहोमि एवं कतो पन मं न परितोसेति अज्ज पन मया कायवेय्यावच्चं कातुं वट्टतिति पंसुं आहरित्वा तं पहेसं पूरेनि, तस्स पन तस्मिं पदेसे असोधिते जयसुमन कुसुम सदिसि वण्णं दुपट्टचीवरं तिमण्डलं पटिच्छादेत्वा निवासेत्वा तस्सुपरि युण्णमापङ्गेन कुसुमकलापं परक्खिपन्तो विय विज्जुल्लता सस्सीरीकं कायबण्धनं बण्धित्वा कनक गिरिसिखर मत्थके लाखारसं परिसिञ्चन्ते विय सुवण्णचेतियं पवाळजालेन परिक्खिपन्तो विय सुवण्णङ्घकं रत्तकम्बलेन पटिमुञ्चन्तो विय सरद समय रजनिकरं रत्तवलाहकेन पटिच्छादेन्तो विय च लाखारसेन तिन्न किं सुकक्सुमवण्णं रत्तवर पसुकूल चीवरं पारिपित्वा गण्धकूगिद्व रतो कनकगुहातो सीहो विय निक्खमित्वा जळभिञ्ञानंयेव चतूहि खीणासव सतसहस्सेहि परिवुतो अमरगण परिवुतो दससतनयनो विय ब्रह्मगणपरिवुतो महा ब्रह्मा विय च अपरिमित समय समुपचिताय कुसलबलजनिताय अनोपमया बुद्धलीलाय तारागणपरिवुतो |ओ०.०००४| सरद समय रजनिकरो विय गगनतलं अलङ्गत पटियत्तं मग्गं पटिपज्जि.

५. सुमेधतापसोपि तेन अलङ्कत पटियत्तेन मग्गेन आगच्छन्तस्स दीपङ्करस्स भगवतो द्वत्तिंस वरलक्खण पतिमण्डितं असतिया अनुब्यञ्जनेहि अनुब्यञ्जितं ब्यामप्पहापरिक्खेप सस्सीरीकं इण्दनीलमणिसंकासोआकासे नानप्पकारा विज्जुल्लता विय छब्बण्णबुद्धरंसियो विस्सज्जेन्तं रूपग्गप्पत्तं अत्तभावं ओलोकेत्वा अज्ज मया दसबलस्स जीवितपरिच्चागं कातुं वट्टति मा भगवा कलले अक्कमि मणिमयं लकसेतुं अक्कमन्तो विय सद्धिं चतूहि खीणासव सतसहस्सेहि मम पिट्ठिं अक्कमन्तो गच्छतु तं मे भविस्सति दीघरत्तं हिताय सुखायाति केसे मोचेत्वा अजिनजटा वाकचीरानि कलेल पत्थरित्वा तत्थेव कललपिट्ठे निपज्जि निपन्नो च सचे अहं इच्छेय्यं सब्बकिलेसे झापेत्वा सङ्घनवको हुत्वा रम्मनगरं पविसेय्यं अञ्ञातकवेसेन पन मे किलेसे ण्धपेत्वा निब्बानपत्तिया किच्चं नत्थि, यंनूनाहं दीपङ्कर दसबलो विय परमाभिसम्बोधिं पत्वा धम्मनावं आरोपेत्वा महाजनं संसारसागरा उत्तारेत्वा पच्छा परिनिब्बायेय्यं. इदं मे पतिरुपन्ति चिन्तेत्वा अट्ठधम्मे समोधानेत्वा बुद्धभावाय अभिनीहारं कत्वा निपज्ज.

दीपङ्करोपि भगवा आगत्त्वा सुमेधपण्डितस्स सीससागे ठत्वा कललपिट्ठे निपन्नं तापसं दिस्वा अयं तापसो बुद्धत्थाय अभिनीहारं कत्वा निपन्तो, इज्झिस्सति नु खो एतस्स पत्थना उदाहु नोति उपधारेन्तो - अनागते गोतमो नाम बुद्धो भविस्सतीति ञत्वा ठितकोव परिस मज्झे व्याकासि, पस्सथ नो तुम्हे भिक्खवे इमं उग्गतपं तापसं कललपिट्ठे निपन्नन्ति. एवं भन्ते, अयं यिद्धत्थाय अभिनीहारं कत्वा निपन्नो समिज्झिस्सति इमस्स पत्थता कप्पसत सहस्साधिकानं चतुन्तं असङ्खेय्यानं मत्थके गोतमो नाम बुद्धो भविस्सतीति सब्बं व्याकासि.

वुत्तञ्हेतं बुद्धवंसे.

दीपङ्करो लोकविदू - आहुतीनं पटिग्गहो,

उस्सीसके मं ठत्वान - इदं वचनमब्रवि;

पस्सथ इमं तापसं - जटिल उग्गतापसं अपरिमेय्ये इतो कप्पे - अयं बुद्धो भविस्सति. अहु कपिलवहया रम्मा - निक्खमित्वा तथागतो. पधानं पदहित्वान - कत्वा दुक्कर कारिकं

बुद्धे लोके - केचि.

अजपाल |ओ०.०००५| रुक्खमूलस्मिं - निसीदित्वा तथागतो,

तत्थ पायासमग्गय्ह - नेरञ्जरमुपेहेति;

नेरञ्जराय तीरम्हि - पायासादाय सो जिनो,

पटियत्तवरमग्गेन - बोधिमूलञ्हि एहीति;

ततो पदक्खिणं कत्वा - बोधिमण्डं अनुत्तरो

अस्सत्थराक्खमूलम्हि - वुज्झिस्सति महायसो;

इमस्सजनिका माता - माया नाम भविस्सति, पिता सुद्धोदनो नाम - अयं हेस्सति गोतमो. अनासवा वीतरागा - सन्तचित्ता समाहिता,

कोलितो उपतिस्सो च - अग्गा हेस्सन्ति सावका;

आनण्दो नामुपट्ठाको - उपट्ठिस्सती’मं जिनं;

खेमा उप्पलवण्णा च - अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा - सन्तचित्ता समाहिता;

बोधि तस्स भगवतो अस्सत्थोति पवुच्चती’’ति.

अभिनीहार कथा

६. ततो दीपङ्करो दसबलो बोधिसत्तं पसंसित्वा अट्ठहि पुप्फ मुट्ठीहि पूजेत्वा पदक्खिणं कत्वा पक्कामि. तेपि चतूसत सहस्स खीणासवा बोधिसत्तं पुप्फेहि च गण्धेहि च पूजेत्वा पदप्फणं कत्वा पक्कमिंसु. देवमनुस्सा च तथेव पूजेत्वा वन्दित्वा अथ खो बोधिसत्तो दसबलस्स व्याकरणं सुत्वा बुद्धभावं करतलगतमिव मञ्ञमानो पमुदित हदयो सब्बेसु पटिक्कन्तेसु सयना वुट्ठाय पुप्फरासि मत्थके पल्लङ्कं आभुजित्वा निसिन्नो बुद्धकारकधम्मे उपधारेन्तो कहननु खो बुद्धकारक धम्मा, किं उद्धं अधो दिसासु वीदीयासूति अनुक्कमेन सकलं धम्मधातुं विचिनन्तो पोराणकबोधिसत्तेहि आसेवित निसेवित पठमं दानपारमिं दिस्वा तत्थ दळभिसमादान कत्वा एवं अनुक्कमेन सील - नेक्खम्म - पञ्ञा - वीरिय - खन्ति - सच्च - अधिट्ठान - मेत्ता - उपेक्खा पारमियोच दिस्वा तत्थदळ्ह समादानं कत्वा देवताहि अभित्थुतो आकासमबभुग्गनत्व हिम हिमवन्तमेव अगमासि.

दीपङ्करोपि सत्था चतूहि खीणासव सतसहस्सेहि परिवुतो रम्मनगरवासीहि पूजीयमानो देवताहि अभिनण्दियमानो अलङ्कत पटियत्तेन मग्गेन रम्मनगरं पविसित्वा पञ्ञत्तवरबुद्धासने निसीदि. भिक्खुसङ्घोपि अत्तनो अत्तनो पत्तासने निसीदि. रम्मनगरवासिनोपि उपासका बुद्धपमुखस्स भिक्खुसङ्घस्स महादानं |ओ०.०००६| दत्वा भगवन्तं भुत्ताविं ओनीत पत्तपाणिं मालागण्धादीहि पूजेत्वा दानानुमोदनं सोतुकामा निसीदिंसु. भगवापि तेसं अनुमोदनं करोन्तो दानकथं सीलकथं सग्गिकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसञ्च पकासेत्वा अमत परियोसानं धम्मकथं कथेसि.

एवं तस्स महजनस्स धम्मं देसेत्वा एकच्चे सरणेसु एकच्चे पञ्चसु सीलेसु एकच्चे सोतापत्तिफले एकच्चे सकदागामि फले एकच्चे अनागामी फले एकच्चे चतुसुपि फलेसु एकच्चे तीसु विज्जासु एकच्चे छळभिञ्ञासु एकच्चे अट्ठसु समापत्तिसु पतिट्ठापेत्वा उट्ठायासना रम्मनगरतो निक्खमित्वा सुदस्सन महाविहारमेव पाविसि.

वुत्तञ्हेतं

‘‘तदा ते भोजयित्वान - ससङ्घं लोकनायकं,

उफगछुञ्ञं सरणं तस्स - दीपङ्करस्स सत्थुनो,

सरणागमने कञ्चि - निवसेति तथागतो

कञ्चि पञ्चसु सीलेसु - सीले दसविधे परं;

कस्सचि देति सामञ्ञं - चतुरो फलमुत्तमे,

कस्सचि असथे धम्मे - देति सो पटिसम्भिदा;

कस्सचि वरसमापत्तियो - अट्ठ देति नरासभो,

तिस्सो कस्सचि विज्जायो - छळभिञ्ञ पवेच्छति;

तेन योगेन जनकायं - ओवदेति महामुनि,

तेन वित्थारिकं आसी - लोकनाथस्स सासनं;

महाहनूसभक्खण्धो - दीपङ्करसनामको,

बहू जने तारयति - परिमोचेति दुग्गतिं;

बोधनेय्यं जनं दिस्वा - सतसहस्सेपि योजने

खणेन उपगन्त्वान - बोधेति तं महामुनी’’ति;

इति सो दीपङ्करो सत्था वस्ससत सहस्सानि ठत्वा सत्तानं बण्धनमोक्खं कुरुमानो सब्बबुद्धकिच्चानि निट्ठापेत्वा नण्दारामे अनुपादिसेसाय निब्बानधातुया परिनिब्बायिनहेव धातुयो तस्स - सत्थुनो विकिरिंसु ता. ठिता एकघना हुत्वा - सुवण्णपटिमा विय सकलजम्बुदीपवासिनो मनुस्सा घनकोटिटिमसुवण्णट्ठिकाहि एवं छत्तिंस योजनिकं महाथूपमकंसु निवेदसि - केचि.

तेन |ओ०.०००७| वुत्तं

‘‘दीपङ्करो जिनो सत्था - नण्दारामम्हि निब्बुतो,

तत्थेव तस्स जिनथूपो - छत्तिंसुब्बेध योजनो‘‘;

‘‘पत्त चीवर परिक्खार - परिभोगञ्ज सत्थुनो,

बोधिमूले तदा थूपो - तीणि योजनमुग्गतो’’ति;

७. दीपङ्करस्स पन भगवतो अपरभागो एकं असङ्खेय्यं अतिक्कमित्वा कोण्डञ्ञो नाम सत्था उदपादि. तदा बोधिसत्तो विजितावि नाम चक्कवत्ति हुत्वा कोटिसतसहस्स सङ्खस्स बुद्ध पमुखस्स भिक्खुसङ्घस्स महादानं अदायि सत्था बोधिसत्तं बुद्धो भविस्सतीति व्याकरित्वा धम्मं देसेसि सो सत्थु धम्मंकथं सुत्वा रज्जि निय्यादेत्वा पब्बजि सो तीणि पिटकानि उग्गहेत्वा अट्ठ समापत्तियो पञ्चअभिञ्ञायोच उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. सोपि बुद्धो वस्ससतसहस्सानि ठत्वा सब्बबुद्धकिच्चानि निट्ठापेत्वा चण्दारामे परिनिब्बायि तस्सापि भगवतो धातुया न विकिरिंसु सकलजम्बुदीपवासिनो मनुस्सा समागन्त्वा सत्तयोजनिकासत्तरतनमयं हरितालमनोसिलायमत्तिकाकिच्चं तेल सप्पीहि उदककिच्चं कत्वा चेतियं निट्ठापेसुं

कोण्डञ्ञे किर सम्बुद्धो - चण्दारामे मनोरमे,

निब्बायि चेतियो तस्स - सत्तयोजनिको कतोति;

तस्स अपरभागे एकं असंङ्खय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे चत्तारो बुद्धा उप्पज्जिंसु - मङ्गलो सुमनो रेवतो योहितोति. मङ्गलस्स पन भगवतो काले बोधिसत्तो सुरुचि नाम ब्राह्मणो हुत्वा सत्थारं निमन्तेस्सामीति उपसङ्कमित्वा मधुर धम्मंकतं सुत्वा स्वातनाय निमन्तेत्वा कोटिसतसहस्स सङ्खस्स बुद्धपमुखस्स सङ्घस्स सत्ताहं गवपानं नाम दानमदासि सत्था अनुमोदनं करोन्तो महापुरिसं आमन्तेत्वा त्वं कप्पसतसहस्साधिकानं द्वन्नं असङ्खेय्यानं मत्थके गोतमो नाम बुद्धो भविस्ससीति व्याकासि महापुरिसो व्याकरणं सुत्वा अहं किर बुद्धो भविस्सामि को मे घरावासेन अत्थो पब्बजिस्समीति चिन्तत्वा तथारूपं सम्पत्तिं केळपिण्डं वीय पहाय सत्थु सन्तिके पब्बजित्वा बुद्धवचनं उग्गण्हित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्ति, तस्मिम्पि बुद्धे परिनिब्बुते धातुयो न विकिरिंसु, जम्बुदीपवासिनो पुब्बे विय तिंसयोजनकं थूपमकंसु.

तेन |ओ०.०००८| वुत्तं ‘‘उय्याने वसभो नाम - बुद्धो निब्बायि मङ्गलो, तत्थेव तस्स जिनथूपो - तिंसयोजनमुग्गितो’’ति.

तस्स अपरभागे सुमनो नाम सत्था उदपादि तदा महासत्तो अतुलो नाम नागराजा हुत्वा निब्बत्ति-महिद्धिको महानुभावो सो बुद्धो उप्पन्नोति सुत्वा ञातिसङ्घपरिवुतो नागभवना निक्खमित्वा कोटिसतसहस्स भिक्खुपरिवारस्स तस्स भगवतो दिब्बतुरियेहि उपहारं कारेत्वा महादानं पवत्तेत्वा पच्चेकं दुस्सयुगानि दत्वा सरणेसु पतिट्ठासि सोपि नं सत्था अनागते बुद्धो भविस्ससीति व्याकासि तस्मिम्पि बुद्धे परिनिब्बुते धातुयो न विकिरिंसु जम्बुदीपवासनो पुब्बे विय चतुयोजनिकं थूपमकंसु.

तेन वुत्तं

‘‘सुमनो यसधरो - बुद्धो अग्गारामम्ह निब्बुतो,

तत्थेव तस्स जिनथूपो - चतुयोजनमुग्गतो’’ति;

तस्स अपरभागे रेवतो नाम सत्था उदपादि तदा बोधिसत्तो अतिदेवो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसन सुत्वा सरणेसु पतिट्ठाय सिरसि अञ्जलिं पग्गहेत्वा तस्स सत्थुनो किलेसप्पहाने वण्णं वत्वा उत्तरासङ्घेन पूजमकासि. सोपि नं सत्था बुद्धो भविस्सतिति व्याकासि तस्मिं पन बुद्धे परिनिब्बुते धातुयो विकिरिंसु.

तेन वुत्तं

‘‘रेवतो पवरो बुद्धो - निब्बुतो सो महापुरे,

धातु वित्थारिकं आसी - तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे सोभितो नाम सत्था उदपादि तदा बोधिसत्तो अजितो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्टाय बुद्धपमुखस्स सङ्घस्स महादानं अदासि. सोपि नं सत्था बुद्धो भविस्ससीति व्याकासि तस्सापि भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘सोभितो वरसम्बुद्धो - सीहरामम्हि निब्बुतो,

धातुवित्थारिकं आसी - तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे एकमसङ्खेय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे तयो बुद्धा निब्बत्तिंसु - अनोमदस्सि पदुमो नारदोति. अनोमदस्सिस्स भगवतो काले बोधिसत्तो एको

१. यसवरो धीरो - केचि.

यक्ख |ओ०.०००९| सेनापति अहोसि महिद्धिको महानुभावो अनेक कोटिसतसहस्सानं यक्खानं अधिपति. सो बुद्धो उप्पन्नोति सुत्वा आगन्त्वा बुद्धपमुखस्स सङ्घस्स महादानमदासि सत्थापि तं अनागते बुद्धो भविस्ससीति व्याकासि. अनोमदस्सिम्हि पन भगवति परिनिब्बुते धातुयो न विकिरिंसु जम्बुदीपवासिनो पञ्चवीसयोजनकं थूपं करिंसु

तेन वुत्तं

‘‘अनोमदस्सि जिनो सत्था - धम्मारामम्हि निब्बुतो,

तत्थेव तस्स जिनथूपो - उब्बेधा पण्णुवीसती’ति;

तस्स अपरभागे पदुमो नाम सत्था उदपादि तथागते अगामकारञ्ञे विहरेन्ता बोधिसत्तो सीहो हुत्वा सत्थारं निरोधसमापत्तिया समापन्नं दिस्वा पसन्नचित्तो वन्दित्वा पदक्खिणं कत्वा पीतिसोमनस्सजातो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणं पीतिं अविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जिवितपरिच्चागं कत्वा पयिरुपासमानो अट्ठासि सत्था सत्ताहच्चयेन निरोधा वुट्ठितो सीहं ओलोकेत्वा भिक्खुसङ्घेपि चित्तं पसादेत्वा सङ्घं वन्दिस्सती‘‘ति भिक्खुसङ्घो आगच्छतूति चिन्तेसि भिक्खु तावदेव आगमिंसु सीहो सङ्घे चित्तं पसादेसि. सत्था तस्स मनं ओलोकेत्वा अनागते बुद्धो भविस्सतीति व्याकासि तस्स पन भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘पदुमो जिनवरो सत्था - धम्मारामम्हि निब्बुतो,

धातु वित्थारिकं आसि - तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे नारदो नाम सत्था अहोसि तदा बोधिसत्तो, इसिपब्बज्जं पब्बजित्वा पञ्चसु अभिञ्ञासु अट्ठसुच समापत्तिसुचिण्णवसी हुत्वा बुद्धपमुखस्स सङ्घस्स महादानं दत्वा लोहित चण्दनेन पूजमकासि सोपि नं अनागतो बुद्धो भविस्सतीति व्याकासि नारद पन भगवतो धातुयो एकघना अहेसुं. सब्बे देव मनुस्सा सन्निपतित्वा चतुयोजनिकं थूपं करिंसु.

तेन वुत्तं

‘‘नारदो जिनवसभो - निब्बुतो सुदस्सने पुरे,

तत्थेव तस्स थूपवरो - चतुयोजनमुग्गतो’’ति;

तस्स अपरभागे एकमसङ्खेय्यमतिक्कमित्वा इतो कप्पसतसहस्स मत्थके एकस्मिं कप्पे पदुमुत्तरो नाम सत्था उदपादि. तदा बोधिसत्तो जटिलो नाम महारट्ठिको हुत्वा बुद्धपमुखस्स सङ्घस्स चिवरदानमदासि. सोपि तं अनागतो बुद्धो भविस्सतीति व्याकासि. |ओ०.००१०| पदुमुत्तरस्सापि भगवतो धातुयो एकघना अहेसुं. सब्बे देवमनुस्सा सन्निपतित्वा द्वादस योजनिकं महाथूपमकंसु.

तेन वुत्तं

‘‘पदुमुत्तरो जिनो बुद्धो - नण्दारामम्हि निब्बुतो,

तत्थेव तस्स थूपवरो - द्वादसुब्बेधयोजनो’’ति;

तस्स अपरभागे तिंसकप्प सहस्सानि अतिक्कमित्वा सुमेधो सुजातो चाति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु सुमेधस्स पन भगवतो काले बोधिसत्तो उत्तरो नाम मानवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं विस्सज्जेत्वा बुद्धपमुखस्स सङ्घस्स महादानं दत्वा धम्मं सुत्वा सरणेसु पतिट्ठाय निक्खमित्वा पब्बजि सोपि नं अनागते बुद्धो भविस्सतीति व्याकासि. सुम्धेस्स पन भगवतो धातुयो विकिरिंसु

तेन वुत्तं

‘‘सुमेधो जिनवरो बुद्धो - मेधारामम्हि निब्बुतो,

धातुवित्थारिकं आसि - तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे सुजातो नाम सत्था उदपादि. तदा बोधिसत्तोचक्कवत्तिराजा हुत्वा बुद्धो उप्पन्नोति सुत्वा उपसंकमित्वा धम्मं सुत्वा बुद्धपमुखस्स सङ्घस्स सद्धिं सत्तहि रतनेहि चतुमहादीपं रज्जं दत्वा सत्थु सन्तिके पब्बजि सकलरट्ठवासिनो रट्ठुप्पादं गहेत्वा आरामिक किच्चं साधेन्ता बुद्धपमुखस्स सङ्घस्स निच्चं महादानमदंसु. सोपि नं सत्था अनागते बुद्धोभविस्सतीति व्याकासि सुजातस्स पन भगवतो धातुयो एकघना अहेसुं जम्बुदीपवासिनो तिगावुतं थूपमकंसु

तेन वुत्तं

‘‘सुजातो जिनवरो बुद्धो सीलारामम्हि निब्बुतो,

तत्थेव चेतियो तस्स - तीणि गावुतमुग्गतो’’ति;

तस्स अपरभागे अट्ठारस कप्पसतमत्थके एकस्मिं कप्पे पियदस्सि अत्थदस्सि धम्मदस्सिति तयो बुद्धा निब्बत्तिंसु पियदस्सि बुद्धकाले बोधिसत्तो कस्सपो नाम माणवो तिण्णं वेदानं पारगतो हुत्वा सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्स धन परिच्चागेन सङ्घारामं कारेत्वा सरणेसु च सीलेसु च पतिट्ठासि अथ नं सत्था अट्ठारस कप्प सतच्चयेन बुद्धो भविस्सतीति व्याकासि पियदस्सिस्स भगवतोपि धातुयो एकघनाव अहेसुं जम्बुदीपवासिनो सन्निपतित्वा तियोजनिकं महाथूपमकंसु.

तेन |ओ०.००११| वुत्तं

‘‘पियदस्सि मुनिवरो - सललारामम्हि निब्बुतो,

तत्थेव तस्स जिनथूपो - तीणि योजनमुग्गतो’’ति;

तस्स अपरभागे अत्थदस्सि नाम भगवा उदपादि तदा बोधिसत्तो महिद्धिको महानुभावो सुसिमो नाम तापसो हुत्वा भगवतो सन्तिके धम्मं सुत्वा पसीदित्वा दिब्बानि मण्दारव पदुमपारिच्छत्तकादीनि पुप्फानि आहरित्वा चातुद्वीपिक महामेघो विय पुप्फवस्सं वस्सेत्वा समन्ततो पुप्फमण्डप पुप्फअगघिय तोरणादीनि कत्वा मण्दारव पुप्फच्छत्तेन दसबलं पूजेसि सोपि नं भगवा अनागतो गोतमो नाम बुद्धो भविस्सतीति वाकासि. तस्स पन भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘अत्थदस्सि जिनवरो - अनोमारामम्हि निब्बुतो,

धातुवित्थारिकं आसि - तेसु तेसु च रट्ठतो’’ति;

तस्स अपरभागे धम्मदस्सि नाम सत्था उदपादि. तदा बोधिसत्तो सक्का देवराजा दिब्बगण्धपुप्फेहि च दिब्बतुरियेहि च पूजं अकासि सोपि नं बुद्धो भविस्सतीति व्याकासि. धम्मदस्सिस्स पन भगवतो धातुयो एकघना अहेसुं. जम्बुदीपवासिनो तियोजनिकं थूपमकंसु.

तेन वुत्तं

‘‘धम्मदस्सि महावीरो-केलासारमम्हि निब्बुतो,

तत्थेव थूपवरो तस्स-तीणि योजनमुग्गतो’’ति;

तस्स अपरभागे चतुनवुतिकप्प मत्थके एकस्मिं कप्पे एकोव सिद्धत्थो नाम सत्था उदपादि. तदा बोधिसत्तो उग्गतेजो अभिञ्ञाबल सम्पन्नो मङ्गलो नाम तापसो हुत्वा महाजम्बुफलं आहरित्वा तथागस्स अदासि सत्था तं फलं परिभुञ्जित्वा चतुनवुति कप्पमत्थके बुद्धो भविस्सतीति व्याकासि तस्सापि भगवतो धातुयो न विकिरिंसु, चतुयोजनिकं रतनमयं थूपमकंसु.

तेन वुत्तं

‘‘सिद्धत्तो मुनिवरो बुद्धो अनोमारमम्हि निब्बुतो,

तत्थेव तस्स थूपवरो-चतुयोजनमुग्गतो’’ति;

तस्स अपरभागे इतो द्वानवुति कप्पमत्थके तिस्सो फुस्सोति एकस्मिं कप्पे देव बुद्धा निब्बत्तिंसु तिस्सस्स भगवतो काले बोधिसत्ता महाभोगो महायसो सुजातो नाम खत्तियो हुत्वा इसिपब्बज्जं पब्बजित्वा महिद्धिकभावं पत्वा बुद्धो |ओ०.००१२| उप्पन्नोति सुत्वा दिब्बमण्दारव पदुम पारिच्छत्त पुप्फानि आदाय चतुपरिसमज्झे गच्छन्तं तथागतं पूजेसि. आकासे पुप्फवितानमिव अट्ठासि सोपि नं सत्था इतो द्वानवुति कप्पमत्थके बुद्धो भविस्सतीति व्याकासि. तस्सापि भगवतो धातुयो न विकिरिंसु धातुयो गहेत्वा तियोजनिकं थूपमकंसु.

तेन वुत्तं

‘‘तिस्सो जिनवरो बुद्धो-नण्दारामम्हि निब्बुतो

तत्थेव तस्स थूपवरो-तीणि योजनमुस्सितो’’ति;

तस्स अपरभागे फुस्सो नाम बुद्धो उदपादि तदा बोधिसत्तो विजितावि नाम खत्तियो हुत्वा महारज्जं पहाय सत्थु सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा महाजनस्स धम्मकथं कथेत्वा सीलपारमिञ्च पूरेसि. सोपि नं बुद्धो तथेव व्याकासि तस्स पन भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘फुस्सो जिनवरो सत्था-सुनन्दारामम्हि निब्बुतो

धातुवित्थारिकं आसि-तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे इतो एकनवुति कप्पमत्थके विपस्सि नाम बुद्धो उदपादि तदा बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा सत्तरतन खचितं सोवण्णमहापीठं भगवतो अदासि सोपि नं इतो एकनवुतिकप्पमत्थके बुद्धो भविस्सतीति व्याकासि तस्स पन भगवतो धातुयो न विकिरिंसु सब्बे देवमनुस्सा सन्तिपतित्वा धातुयो गहेत्वा सत्तयोजनिकं थूपमकंसु.

तेन वुत्तं

‘‘विपस्सि जिनवरो वीरो-सुमित्तारामम्हि निब्बुतो,

तत्थेव सो थूपवरो-सत्तयोजनिको कतो’’ति;

तस्स अपरभागे इतो एकतिंस कप्पमत्थके सिखी वेस्सभूति द्वे बुद्धा निब्बत्तिंसु सिखिस्स भगवतो काले बोधिसत्तो अरिण्दमो नाम राजा हुत्वा बुद्धपमुखस्स सङ्घस्स सचिवरं महादानं पवत्तेत्वा सत्तरतन पतिमण्डितं हत्थिरतनं दत्वा हत्थिप्पमाणं कत्वा कप्पिय भण्डमदासि सोपि नं इतो एकतिंस कप्पे बुद्धो भविस्सतीति व्याकासि, सिखिस्स भगवतो धातुयो एकघना हुत्वा अट्ठंसु, सकल जम्बुदीपवासिनो पन मनुस्सा धातुयो गहेत्वा तियोजनुब्बेधं सत्तरतनमयं हिमगिरि सदिस सोभं थूपमकंसु.

सिखी |ओ०.००१३| मुनिवरो बुद्धो-दुस्सारामम्हि निब्बुतो,

तत्थेव तस्स थूपवरो-तीणि योजनमुग्गतो’’ति;

तस्स अपरभागे वेस्सभू नाम सत्था उदपादि. तदा बोधिसत्तो सुदस्सनो नाम राजा हुत्वा बुद्धपमुखस्स सङ्घस्स सचीवरमहादानं दत्वा तस्स सन्तिके पब्बजित्वा आचारगुणसम्पन्नो बुद्धरतने चिततीकार पीति बहुलो अहोसि सेपि नं सत्था इतो एकतिंसकप्पे बुद्धो भविस्सतीति व्याकासि वेस्सभुस्स पन भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘वेस्सभू जिनवरो सत्था-खेमारामम्हि निब्बुतो;

धातुवित्थारिकं आसि-तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे इमस्मिं कप्पे चत्तारो बुद्धा निब्बत्तिंसु ककुसण्धो कोनागमनो कस्सपो अम्हाकं भगवाति कतुसण्धस्स पन भगवतो कालो बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धपमुखस्स सङ्घस्स सपत्तचीवरं दानञ्चेव अञ्जनादि भेसज्जानि च दत्वा सत्थु धम्मदेसनं सुत्वा पब्बजि सोपि नं सत्था व्याकासि तस्स पन भगवतो धातुयो न विकिरिंसु सब्बे सन्निपतित्वा धातुयो गहेत्वा गावुतुब्बेधं थूपमकंसु.

तेन वुत्तं