४. बुद्धेनिया वत्थुम्हि अयमानुपुब्बीकथा

जम्बुदीपे किर पुब्बे पाटलिपुत्तनगरे सत्तासीतीकोटिनिहितधनं एकं सेट्ठिकुलं अहोसि, तस्स पन सेट्ठिनो एकायेव धीता अहोसि नामेन बुद्धेनिनाम, तस्सा सत्तवस्सिककाले मातापितरो कालमकंसु, तस्मिं कुले सब्बं सापतेय्यं तस्सायेव अहोसि, सा किर अभिरूपा पासादिका परमाय वण्णपोक्खरताय समन्नागता देवच्छरपटिभागा पियाच अहोसि मनापा, सद्धा पसन्ना रतनत्तयमामिका पटिवसति, तस्मिं पन नगरे सेट्ठिसेनापतिउपराजादयो तं अत्तनो पादपरिचारिकं कामयमाना मनुस्से पेसेसुं पण्णाकारेहि सद्धिं, सा तं सुत्वा चिन्तेसि, मय्हं मातापितरो सब्बं विभवं पहाय मता, मया पन तथा अगन्तब्बं, किं मे पतिकुलेन, केवलं वित्तविनासाय भवति, मया पनि मं धनं बुद्धसासनेयेव निदहितुं वट्टतीति चिन्तेसि, चिन्तेत्वा च पन तेसं न मय्हं पतिकुलेनत्थोति पटिक्खिपि, सा ततो पट्ठाय महादानं पवत्तेन्ती समणब्रह्मणे सन्तप्पेसि, तेनेत्थ.

१. चतुद्दिसायातजिनत्रजानं,

आपानभूतं घरमासि तस्सा;

यदिच्छित प्पच्चयलाभ हेतु,

देवद्दुमोवासि महानुभावो.

२. पुप्फूपहारादि वितानलङ्कता,

पदीप पञ्ञत्त सुभासनावली;

सुखासनासीन वसीहिलङ्कता,

तस्सासि तस्मिं वरदानसाला.

३. सुधोतहत्था सुचिपुञ्ञचित्ता,

सदादरा रक्खितपञ्चसीला;

बुद्धेनिनामा करुणा गुणग्गा,

अदा महादानवरं पसत्थन्ति.

अथापरभागे एको अस्सवाणिजको अस्स-वाणिज्जाय पुब्बन्तापरन्तं गच्छन्तो आगम्म इमिस्सा गेहे निवासं गण्हि, अथ सो वाणिजो तं दिस्वा धीतुसिनेहं पति ट्ठा पे त्वा गन्धमालवत्थालङ्कारादीहि तस्सा उपकारको हुत्वा गमनकाले अम्म एतेसु अस्सेसु तव रुच्चनकं अस्सं गण्हाहीति आह, सापि अस्से ओलोकेत्वा एकं सिन्धवपोतकं दिस्वा एतं मे देहीति आह, वाणिजो अम्म एसो सिन्धवपोतको, अप्पमत्ता हुत्वा पटिजग्गाहीति वत्वा तं पटिपादेत्वा अगमासि. सापि तं पटिजग्गमाना आकासगामिभावं ञत्वा सम्मा पटिजग्गन्ती एवं चिन्तेसि, पुञ्ञकरणस्स मे सहायो लद्धोति, अगतपुब्बाच मे भगवतो समारं मारबलं विधमेत्वा बुद्धभूतस्स जयमहाबोधिभूमि, यन्नूनाहं तत्थ गन्त्वा भगवतो जयमहाबोधिं वन्देय्यन्ति चिन्तेत्वा ब हू रजतसुवण्णमालादयो कारापेत्वा एकदिवसं अस्स मभिरुय्ह आकासेन गन्त्वा बोधिमालके ठत्वा आगच्छन्तुअय्या सुवण्णमाला पूजेतुंति उग्घोसेसि. तेनेत्थ.

४. यतो पट्ठायहं बुद्ध, सासने सुद्धमानसा;

पसन्ना तेन सच्चेन, ममानुग्गहबुद्धिया.

५. आगच्छन्तु नमस्सन्तु, बोधिं पूजेन्तु साधुकं;

सोण्णमालाहि सम्बुद्ध, पुत्ता अरियसावका.

६. सुत्वा तं वचनं अय्या, बहू सीहळवासिनो;

आगम्म नभसा तत्थ, वन्दिं सुच महिंसुचाति.

ततो प्पतुति सा कुमारिका बुद्धसासने अतीव पसन्ना निच्चमेव अस्स मभिरुय्ह आगन्त्वा अरियेहि सद्धिं महाबोधिं सुवण्णमालाहि पूजेत्वा गच्छति, अथ पाटलिपुत्तनगरोपवने वनचरा तस्सा अभिण्हं गच्छन्तिया च आगच्छन्तिया च रूपसम्पत्तिं दिस्वा रञ्ञो कथेसुं. महाराज एवरूपा कुमारिका अस्स मभिरुय्ह आगन्त्वा निबद्धं वन्दित्वा गच्छति. देवस्सानुरूपा अग्गमहेसी भवितुन्ति, रा जा तं सुत्वा तेनहि भणे गण्हथ नं कुमारिं, मम अग्गमहेसिं करोमीति पुरिसे पयोजेसि, तेन पयुत्तपुरिसा बोधिपूजं कत्वा आगच्छन्तिं गण्हामाति तत्थ निलीना गहणसज्जा अट्ठंसु, तदा सा कुमारिका अस्स मभिरुय्ह महाबोधिमण्डं गन्त्वा वीतरोगेहि सद्धिं पुप्फपूजं कत्वा वन्दित्वा निवत्ति, अथ तेसु एको धम्मरक्खित त्थेरोनाम तस्सा एव माह, भगिनि तं अन्तरामग्गे चोरा गण्हितुकामा ठिता, असुकट्ठानं पत्वा अप्पमत्ता सीघं गच्छाति, सापि गच्छन्ती तं ठानं पत्वा चोरेहि अनुबन्धिता अस्सस्स पण्हिया सञ्ञं दत्वा पक्कामि, चोरा पच्छतो पच्छतो अनुबन्धिंसु. अस्सो वेगं ज ने त्वा आकास मुल्लङ्घि, कुमारिका वेगं सन्धारेतुं असक्कोन्ती अस्सस्स पिट्ठितो परिगलित्वा पतन्ती मया कतूपकारं सर पुत्ताति आह, सो पतन्तिं दिस्वा वेगेना गन्त्वा पिट्ठियं निसीदापेत्वा आकासतो नेत्वा स क ट्ठा ने येव पतिट्ठापेसि. तस्मा.

७. तिरच्छानगतापेवं, सरन्ता उपकारकं;

न जहन्तीति मन्त्वान, कतञ्ञू होन्तु पाणिनोति.

ततो सा कुमारिका सत्ता सीतिकोटिधनं बुद्धसासनेयेव चजित्वा यावजीवं सीलं रक्खित्वा उपोसथकम्मं क त्वा त तो चुता सुत्त प्पबुद्धो विय देवलोके निब्बत्तीति.

८. अतितरुणवया भो मातुगामापि एवं,

विविधकुसलकम्मं कत्व सग्गं वजन्ति;

कुसलफलमहन्तं मञ्ञमाना भवन्ता,

भवथ कथ मुपेक्खा दानमानादिकम्मे.

बुद्धेनिया वत्थुं चतुत्थं.