१. धम्मसोण्डकस्स वत्थुम्हि अयमानुपुब्बीकथा
तत्थ तेसं वत्थून मुप्पत्तियो द्विधा भवन्ति जम्बुदीपे सीहळदीपेचाति, तत्थ जम्बुदीपे ताळीस, सीहळदीपे तेसट्ठि, तेसु ताव जम्बुदीपुप्पत्तिवत्थूनि आवि भविस्सन्ति, ततोपि धम्मसोण्डकस्स वत्थु आदि, कथं, अम्हाकं किर भगवतो पुब्बे इमस्मिंयेव भद्दकप्पे कस्सपोनाम सत्था लोके उदपादि, तस्स खो पन भगवतो सासनन्तरधानतो न चिरेनेव कालेन अम्हाकं बोधिसत्तो बाराणसीरञ्ञो अग्गमहेसिया कुच्छिस्मिं निब्बत्ति, तस्सु प्पत्ति कालसमनन्तरमेव सब्बसत्तानं मनसि धम्मसञ्ञा उदपादि, तस्मास्स धम्मसोण्डोतिनाम मकंसु, सो पनेसो कुमारो महन्तेन परिवारेन वड्ढेन्तो सब्बसिप्पेसु निप्फत्तिं पत्वा पितरा उपरज्जेन पूजितो हुत्वा दानादयो दसकुसलकम्मपथे पूरेन्तो पितुअच्चयेनामच्चेहि रज्जेनाभिसिञ्चितो अहोसि, सो पनेस धम्मसोण्डकमहाराजा देवनगरसदिसे बाराणसीनगरे चक्कवत्तिसदिसं बाराणसीरज्जं कारेन्तो मासद्धमासच्चयेन सिरिसयनगतो एवं चिन्तेसि, ममेवं रज्जसिरिमनुभवनं न सोभति धम्मवियोगेन, दिवाकर विरहितो नभो वियातिआदिना नानाकारणं चिन्तेसि, तेनेत्थ.
१. पुञ्ञेन सीलादिमयेन पुब्बे,
कतेन पत्तोस्मि अतन्दितेन,
मसक्कसारे विय देवराजा;
राजत्तमिद्धे पुरमुत्तमम्हि.
२. रूपेन हारीनयनुस्सवेन,
सद्देन सम्मा सवणामतेन,
गन्धेन घानुस्सवसोभनेन,
रसञ्ञपुञ्ञेन रसेनचापि.
३. फस्सेन गत्तस्स सुफस्सदेन,
समिद्धिपत्तोस्मि महिद्धिकोहं,
नेवेत्तकेनेव पमादभाव,
मा पज्जितुं युत्तरूपन्ति ञत्वा.
४. दस्सामि अङ्गअपि जीवितञ्च,
धञ्ञं धनं चापि पसन्नचित्तो,
सोस्सामि धम्मं सिवमादधानं,
जिनेरितं जातिजरापहाणं.
५. न सोभति यथाकासं, जलं धामपतिंविना,
रज्जकरणं तथा मय्हं, विना धम्मा न सोभति.
६. न सोभति हथा रत्ति, निसानाथं विना सदा,
रज्जकरणं तथा मय्हं, विना धम्मा न सोभति.
७. अलङ्कतोपि चे हत्थी, विना दाठा न सोभति,
रज्जकरणं तथा मय्हं, विना धम्मा न सोभति.
८. यथा कल्लोलमालीयं,
विना वेला न सोभति,
रज्जकरणं तथा मय्हं,
विना धम्मा न सोभति.
९. यथा सुमण्डितो राजा,
कुपटो नेव सोभति,
रज्जकरणं तथा मय्हं,
विना धम्मा न सोभति.
१०. धम्ममेव सुणिस्सामि, धम्मे मे रमती मनो,
न हि धम्मा परं अत्थि, धम्ममूलं तिसम्पदन्ति.
एवं चिन्तेत्वा पातोव सिरिगब्भा निक्खम्म सुसज्जिते समुस्सितसेतच्छत्ते राजपल्लेङ्के अमच्चगण परिवुतो निसीदि देवराजाविय विरोचमानो, निसिन्नो पन राजा अमच्चे एवमाह, यो पनेत्थ भोन्तो बुद्धभासितेसु धम्मेसु किञ्चिधम्मं जानाति, सो भासतु, सोतुमिच्छामिधम्मन्ति, ते सब्बेपि मयं देव न जानामाति आहंसु, तं सुत्वा अ न त्त म नो राजा एवं चिन्तेसि, यन्नूनाहं हत्थिक्खन्धे सहस्सं ठपेत्वा नगरे भेरिंचरापेय्यं, यं अप्पेवनाम कोचि धनलोभेन चातुप्पदिकायपि गाथाय धम्मं देसेय्य. तं मे दीघरत्तं हिताय सुखाय भविस्सतीति, ततो सो तथा कत्वापि धम्मदेसकं अलभन्तो पुन द्विसहस्सं तिचतुपञ्चसहस्सन्तियावकोटिप्पकोटिंदम्मीति, ततो गाम निगम जनपदे, ततो सेट्ठिट्ठानं सेनापति उपराजट्ठाना दयोपि, पुन सेतच्छत्तं दम्मि, राजवेसं पहाय अत्तानं दासं सावेत्वा धम्मदेसेन्तस्स दम्मिति वत्वा भेरि चरापेत्वापि धम्म देसकमलभित्वा संविग्गो किम्मे धम्मवियोगेन रज्जेनाति अमच्चानं रज्जं नीय्यातेत्वा सद्धम्मगवेसको धम्मसोण्डकमहाराजा महावनं पाविसि गाम निगम राजधानि परम्पराय, तेनेत्थ.
११. पुरे भेरिं चरापेत्वा,
धम्मसोण्डो नराधिपो;
सद्धम्मज्झेसकं सत्थु,
अलद्धा धनकोटिहि.
१२. दासो होमि पहायाहं,
राजत्तं देसकस्स मे;
इच्चाह सो महीपालो,
अहो धम्मेसु लोलता.
१३. रज्जं नीय्यातयित्वान, अमच्चानं मनोरमं,
वनं पाविसि सो राजा, गवेसं धम्ममुत्तमन्ति.
महावनं पविट्ठक्खणे पन महासत्तस्स पुञ्ञतेजेन सक्कस्सासनं उण्हाकारं दस्सेसि, अथ देवराजा चिन्तेसि अकामं मे पण्डुकम्बल सिलासनं उण्हमहोसि, किन्नुखो कारणन्ति लोकं ओलोकेन्तो सक्को देवराजा धम्मसोण्डक महाराजानं सकलजम्बुदीपं विचिनित्वा सद्धम्मज्झेसकं अलभित्वा वनं पविट्ठभावं अद्दस, धम्मसोण्डकमहाराजा सद्धम्मत्थाय रज्ज धन बन्धु जीवितम्पि पहाय अरञ्ञं पविट्ठो, न सो वतायं योवा सोवा सत्तो, इमस्मिंयेव कप्पे बुद्धो भविस्सति, बुद्धबोधिसत्तो चायं अज्जेव महारञ्ञं पविट्ठो सद्धम्मं अलद्धा महादुक्खं पापुणेय्य, न चेतं युत्तं, अज्ज मया तत्थ गन्थब्बं धम्मामतरसेन तमभिसिञ्चित्वा रज्जे पहिट्ठापेतुन्ति चिन्तेत्वा अत्तभावं विजहित्वा भयानकं महन्तं रक्खसवेसं निम्मिणित्वा महासत्ताभिमुखो अविदूरे अत्तानं दस्सेसि, तेनेत्थ.
१४. ब्यग्घच्छसीहमहिसो रगहत्थिदीपि,
मिगाकुलं कण्टकसेलरुक्खं;
नरानमिन्दो पविसित्वकाननं,
इतोचितो विब्भमि धम्मकामो.
१५. तस्सानुभावेन पुरिन्ददस्स,
सिलासनं उण्हमहोसि कामं;
तेनेव सो लोकमुदिक्खमानो,
अद्दक्खि धीरं विपिने चरन्तं.
१६. मयज्ज तं धम्मरसेन सम्मा,
सन्तप्पयित्वा गमनं वरन्ति;
मन्त्वा सुभीमञ्जनकूटवण्णं,
महामुखं निग्गत भीमदाठं.
१७. दित्तग्गिसङ्कास विसालनेत्तं,
मज्झेन भग्गं चिपिटग्गनासं;
खरतम्बदाठिं घनमस्सुवन्तं,
नीलोदरं गज्जितभीमघोसं.
१८. करोरुहं तिक्खसलोहितायतं,
विसालधोतायतखग्गहत्थं;
गदायुधेनङ्कितमञ्ञबाहुं,
दट्ठोट्ठभीमं सवलीललाटं.
१९. मनुस्समंसादनरत्तपानं,
भयानकं कक्खलयक्खवण्णं;
सुमापयित्वान वनन्तरस्मिं,
दस्सेसि अत्तं स नराधिपस्साति.
अथ महासत्तो अत्तनो अविदूरे ठितं रक्खसं अद्दक्खि, तं दिस्वानास्स भयंवा छम्भितत्तंवा चित्थुत्रासमत्तंवा नाहोसि, किमत्र चिन्तेसि, अपिनाम एवरूपो पिरक्खसो धम्मं जानेय्य, यन्नूनाहं तस्स सन्तिके धम्मं सुणिस्सामि, तम्मे दीघरत्तं हिताय सुखाय भविस्सतीति चिन्तेसि. चिन्तेत्वा चपन अज्ज मया तमुपसङ्कम्म पुच्छितं वट्टतीति गन्त्वा रक्खसेन सद्धिं सल्लपन्तो आह.
२०. अस्मिं वनस्मिं तरुसण्ड मण्डिते;
सुफुल्लितानेकलताकुलाकुले;
अधिग्गहीतो सि महानुभाव,
पुच्छामि तं देव वदेहि कङ्खं.
२१. धम्मं गवेसं वनमागतोम्हि,
पहाय रज्जं अपि ञातिसङ्घं;
जानासि चे सम्म वदेहि मय्हं,
एकम्पि गाथं सुगतेन देसितं.
ततो यक्खो आह.
२२. धम्मं पजानामहमेकदेसं,
जिनेरितं साधुतरं रसानं,
देसेमि चेहं तव धम्म मग्गं,
तुवञ्हि किं काहसि देसकस्साति.
अथ महासत्तो आह.
२३. रज्जे ठितो अस्समहं सचे भो,
अनप्परूपं पकरोमि पूजं;
इदानि एको वनमज्झपत्तो,
करोमि किं देहमिमं ठपेत्वा.
२४. यदिच्छसि त्वं मम मंसलोहितं,
करोमहं सङ्गहमज्ज तेन,
न चत्थि अञ्ञं तव अच्चनीयं,
देसेहि धम्मं सुगत प्पसत्थन्ति.
ततो यक्खो आह.
२५. भुत्वान मंसं सुहितोव सन्तो,
हन्त्वा पिपासं रुधिरं पिवित्वा;
धम्मं कथेतुं पभवामि तुय्हं,
वत्तुं न सक्कोमि खुदापरेतोति.
अथ महासत्तो आह.
२६. भुत्वा तुवं मं पथमञ्हि यक्ख,
पच्छा तु देसेस्ससि कस्स धम्मं;
धम्मस्स मय्हं तव मंसलाभं,
त्वमेव जानाहि यथा भवेय्याति.
एवं वुत्ते सक्को देवानमिन्दो साधु महाराज अहमेव युत्तं जानामीति वत्वा तस्साविदूरे तिगावुतुब्बेधं अञ्जनवण्णं महन्तं पब्बतं मापेत्वा महाराज इममारुय्ह पब्बतमुद्धनिट्ठितो मम मुखे पततु, अहं पतन्थस्स ते धम्मं देसेस्सामि, एवं सन्ते तुय्हं धम्मपटिलाभो, मय्हंच मंसपटिलाभो भविस्सतीति. तं सुत्वा महासत्तो अनमतग्गे संसारे संसरतो मे सीहब्यग्घच्छमच्छकच्छपविहङ्गादीनं भक्खभूतस्स जातीसु पमाणं नत्ति, अज्ज मया सम्बुद्धस्स धम्मत्थाय जीवितं परिच्चजितुं वट्टतीति चिन्तेत्वा एवमाह.
२७. संसारवट्टेसु विवट्टमाना,
पप्पोन्ति दुक्खं जनता अनेका;
एतञ्हि भो अत्तनो वा परस्स,
अत्थाय नाहोसि अहोसि तुच्छं.
२८. त्वमदिन्नहारी तिच पारदारिको,
पाणातिपातीसि मुसा अभासि;
त्व मज्जपायीति अकासि दोसं,
पग्गय्ह दुक्खं बहुसो ददन्ति.
२९. एतञ्हि भो अत्तनो वा परस्स,
अत्थाय नाहोसि अहोसि तुच्छं;
रुक्खा पपाता पपतित्वकेचि,
दुब्बन्धिया दुग्गविसादनेन.
३०. ब्याधीहि नानाखरवेदनाहि,
मरन्ति सत्ता उतुवेदनाहि;
एतञ्हि भो अत्तनो वा परस्स,
अत्थाय नाहोसि अहोसि तुच्छं.
३१. ब्यग्घच्छमच्छो रगकुच्छियञ्हि,
मतस्स मे नत्थि पमाणसङ्खा;
एतञ्हि भो अत्तनो वा परस्स,
अत्थाय नाहोसि अहोसि तुच्छं.
३२. एतज्ज मे दुच्च ज मत्तदानं,
न होति देविस्सरियादिकाय;
सब्बञ्ञुभावं पन पापुणित्वा,
संसारतो नित्तरणाय सत्ते.
३३. त्वं सम्म मय्हं बहुसो पकारी,
तस्मा तवेतं वचनं करोमि;
असंकितो देसय मय्हधम्मं,
समिज्झते दानि मनोरथो तेति.
एवञ्च पन वत्वा महासत्तो पब्बतमारुय्ह ठितो आह, अहमज्ज रज्जेन सद्धिं जीवितञ्च सरीरमंसञ्च सद्धम्मत्थाय दम्मीति सोमनस्सप्पत्तो हुत्वा सम्म धम्मं देसेहीति वत्वा तस्मिं महादाठं महामुखं विवरित्वा ठिते तस्साभिमुखो उपपति. अथ सक्को देवानमिन्दो सोमनस्सो अच्छरियप्पत्तो अत्तभावं विजहित्वा अलङ्कतदिब्बत्तभावं मापेत्वा आकासे तरुणसुरियो विय ओभासमानो आकासतो पतन्तं महासत्तं उभोहि हत्थेहि दळ्हं पतिगण्हित्वा देवलोकं नेत्वा पण्डुकम्बल सिलासने निसीदापेत्वा दिब्बमयेहि गन्धमालादीहि पूजेत्वा सयं धम्मं सुत्वा पसन्नो पसन्नाकारं कत्वा कस्सपदसबलेन देसिताय अनिच्चादिपरिदीपिकाय.
३४. अनिच्चाव त सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखोति.
गाथाय धम्मदेसनेन तस्स मनोरथं मत्थकं पापेत्वा देवलोके महन्तं सिरिविभवं दस्सेत्वा आनेत्वा सकरज्जेयेव पतिट्ठापेत्वा अप्पमत्तो होति महाराजाति ओवदित्वा देवलोकमेव अगमासीति.
३५. इति अमितसिरिं वा जीवितं वापि सन्तो,
न सुमरिय पसत्थं धम्ममेवा चरन्ति;
तनुतर विभवानं अप्पमायूनमम्भो,
इह कुसलपमादो को नु तुम्हादिसानन्ति.
धम्मसोण्डकवत्थुं पठमं.