अनुरुद्धसंयुत्त
बाळ्हगिलानसुत्त
पुच्छा – अनुरुद्धसंयुत्ते आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि दसमं संगीतं बाळ्हगिनानसुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं.
विस्सज्जना – सावत्थियं भन्ते सम्बहुले भिक्खू आरब्भ आयस्मता अनुरुद्धत्थेरेन भासितं. सम्बहुला भन्ते भिक्खू आयस्मन्तं अनुरुद्धं आबाधिकं दुक्खितं बाळ्हगिलानं एतदवोचुं ‘‘कतमेनायस्मतो अनुरुद्धस्स विहारेन विहरतो उप्पन्ना सारीरिका दुक्खा वेदना चित्तं न परियादाय तिट्ठन्ती’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘चतूसु खो मे आवुसो सतिपट्ठानेसु सुप्पतिट्ठितचित्तस्स विहरतो उप्पन्ना सारीरिका दुक्खा वेदना चित्तं न परियादाय तिट्ठन्ती’’ति एवमादिना आयस्मता अनुरुद्धत्थेरेन भासितं.