अब्याकतसंयुत्त

खेमासुत्त

पुच्छा – अब्याकतसंयुत्ते पनावुसो पोराणकेहि धम्मसंगाहक महाथेरेहि पठमं संगीतं खेमासुत्तं कत्थ कं आरब्भ किस्मिं वत्थुस्मिं केन कथञ्च भासितं. कथञ्च तं भगवतापि पुन भासितं.

विस्सज्जना – अन्तरा च भन्ते सावत्थिं अन्तरा च साकेतं तोरणवत्थुस्मिं पदेसे राजानं पसेनदिं कोसलं आरब्भ खेमाय भिक्खुनिया भासितं. राजा भन्ते पसेनदि कोसलो येन खेमा भिक्खुनी तेनुपसङ्कमि, उपसङ्कमित्वा अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो भन्ते राजा पसेनदिकोसलो खेमं भिक्खुनिं एतदवोच ‘‘किं नुखो अय्ये होति तथागतो परंमरणा’’ति. तस्मिं भन्ते वत्थुस्मिं ‘‘अब्याकतं खो एतं महाराज भगवता होति तथागतो परं मरणा’’ति एवमादिना खेमाय भिक्खुनिया भासितं. भगवता च भन्ते अपरेन समयेन रञ्ञा पसेनदिकोसलेन पुट्ठेन एवमेव पुन भासितं.

किं पनय्ये नहोति तथागतो परं मरणा.

कुतूहलसालासुत्त

पुच्छा – तत्थेव आवुसो पोराणकेहि धम्मसंगाहकमहाथेरेहि नवमं संगीतं कुतूहलसालासुत्तं भगवता कत्थ कं आरब्भ किस्मिं वत्थुस्मिं कथञ्च भासितं.

विस्सज्जना – वेसालियं भन्ते वच्छगोत्तं परिब्बाजकं आरब्भ भासितं. वच्छगोत्तो भन्ते परिब्बाजको भगवन्तं उपसङ्कमित्वा ‘‘पुरिमानि भो गोतम दिवसानि पुरिमतरानि सम्बहुलानं नानातित्थियानं समणब्राह्मणानं परिब्बाजकानं कुतूहलसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तरकथा उदपादी’’ति एवमादिकं वचनं अवोच. तस्मिं भन्ते वत्थुस्मिं ‘‘अलञ्हि ते वच्छ कङ्खितुं, अलं विचिकिच्छितुं. कङ्खनीये च पन ते ठाने विचिकिच्छा उप्पन्ना’’ति एवमादिना भगवता भासितं.