२५. स्वादीहि क्णो
सुआदीहि लविसये क्णो होति. कानुबन्धत्ता न वुद्धि. धम्मं सुणोति. परस्सरलोपे सुणोन्ति. कम्मे-क्ये दीघे सूयति, सूयन्ति. द्वित्ते सुय्यति सुय्यन्ति+च्चादि. इञागमे सुणिस्सति, सुणिस्सन्ति. कम्मे-क्यलोपे वुद्धि. सोस्सति, सोस्सन्ति इच्चादि. असुणि सुणि, असुणिंसु सुणिंसु.