६. त्यादिकण्ड
अथ त्यादयो क्रियावाचीहि धातूहि वुच्चन्ते.
क्रियं आचिक्खतीति आख्यातन्ति क्रियापदस्स पुब्बाचरियसञ्ञा. काल+कारक+पुरिसपरिदीपकं क्रियालक्खणं त्याद्यन्तं अलिङ्गञ्च, वुत्तम्पि चे+तं –
यं तिकालं तिपुरिसं, क्रियावाची तिकारकं;
अतिलिङ्गं द्विवचनं, त+दाख्यातन्ति वुच्चति.
१४. क्रियत्था बहुलं –ति
च सब्बत्थ वत्तते. क्रिया अत्थो एतस्साति क्रियत्थो धातु, सो च दुविधो सकम्मका+कम्मकवसेन. तत्थ यस्मिं क्रियत्थे कत्तुवाचिम्हा कम्मं गवेसीयते, सो सकम्मको. इतरो अकम्मको.
तत्र सकम्मका कम्मापेक्खं क्रियं वदन्ति, यथा कटं करोति, गामं गच्छति, ओदनं पचति. अकम्मका कम्मनिरपेक्खं क्रियं वदन्ति, यथा अच्छति सेति तिट्ठति. क्रियाति च गमनपचनादिको असत्तसम्मतो कत्तरि कम्मे वा पतिट्ठितो कारकसमूहसाधियो पदत्थो वुच्चति. अपि च –
करणं भवनं चापि, कर+भूहि कथीयते;
ततो क्रियादिवाचत्तं, पाकादीनं कथं भवे.
कर+भूधातूहि करणञ्च भवनञ्च वुच्चति, पाक+गमनादीहि तेसं क्रियाभवनानं वाच्चत्तं कथं भवतीति वुत्तं होति. पुनपि –
पाकादीनञ्हि वाच्चत्तं, करभूसु न युज्जति;
तं बहुतरवाच्चत्तं, पाकादीसु न युज्जति.
तं नाम –
कारियरूपा हि धात्वत्था, सत्तायुत्ता च ते+खिला;
ततो क्रिया च भावो च, सामञ्ञं तेसु गम्यते.
१. वत्तमानेति अन्ति सि थ मि म ते अन्ते से व्हे ए म्हे.
वत्तमाने आरद्धापरिसमत्ते अत्थे वत्तमानतो क्रियत्था त्यादयो होन्ति. क्रियाधिकारत्ता ‘‘क्रियत्था’’ति वुत्तं. तेस+मनियमे –
१४. पुब्बपरच्छक्कान+मेकानेकेसु तुम्हा+म्ह+सेसेसु द्वे द्वे मज्झिमु+त्तम+पठमा
एकानेकेसु तुम्हअम्हसद्दवचनीयेसु तदञ्ञसद्दवचनीयेसु च कारकेसु पुब्बच्छक्कानं परच्छक्कानञ्च मज्झिमु+त्तम+पठमा द्वे द्वे होन्ति यथाक्कमं. तत्थति अन्तीति पठमपुरिसो, आदो निद्दिट्ठत्ता. सि थ इति मज्झिमपुरिसो, मज्झे निद्दिट्ठत्ता. मि म इति उत्तमपुरिसो. उत्तमसद्दो+यं सभावतो तिपभुतीन+मन्त+माह. परच्छक्केपि ते अन्तेतिआदिना एवं योजेतब्बं. एवं सेसेसु भविस्सतिआदीसु सत्तसु पच्चयविधानसुत्तेसुपि योजेतब्बं.
इदानि भूवादीन+मट्ठगणानं भूवादिगणेसु भू=सत्ताय+मिति पठमधातुतो परा त्यादयो योजीयन्ते. तत्थ ‘‘एकम्हि वत्तब्बे एकवचनं’’ति त्यादीसु परभूतेसु कत्तु+कम्म+भावेसुयेव क्यविकरणलविकरणा होन्तीति ‘‘क्यो भावकम्मेस्व+परोक्खेसु मान+न्त+त्यादीसु’’ ‘‘कत्तरि लो’’ इच्चादिना तेसं विकरणानं विधाना त्यादयो कत्तु+कम्म+भावेस्वेव विञ्ञायन्तीति कत्तरि तिम्हिलो. के ते विकरणा –
पुब्बापरभागट्ठाना, भिन्नधातुविभत्तियो;
निस्साय पच्चया होन्ति, एते विकरणा सियुं.
५,८२. युवण्णान+मे, ओ पच्चये
इवण्णु+वण्णन्तानं क्रियत्तानं ए+ओ होन्ति यथाक्कमं पच्चयेति ऊस्सो+कारो.
५,८९. एओन+मय+वा सरे
सरे परे एओन+मयवा होन्ति यथाक्कमंति ओस्स अवादेसो. सो पुरिसो साधु भवति, सा इत्थी साधु भवति, चित्तं साधु भवति.
उत्तत्ता कत्तु आख्याते, ततिया न च कत्तरि;
पठमाविभत्ति होतेव, अत्थमत्तं अपेक्खिय.
सतिपि क्रियायेकत्ते कत्तूनं बहुत्ता ‘‘बहुम्हि वत्तब्बे बहुवचनं’’ति अन्ति.
१६१. क्वचि विकरणानन्ति
विकरणानं क्वचि लोपो होतीति लविकरणस्स लोपो, सेसं पुरिमसदिसं. ते पुरिसा भवन्ति. मज्झिमपुरि- सेकवचनं सि, त्वं भवसि. बहुवचनं थपच्चयो, तुम्हे भवथ. उत्तमपुरिसेकवचनं मिपच्चयो.
५७. हिमिमेस्व+स्स
अकारस्स दीघो होति हिमिमेसु. अहं भवामि. बहुवचनं मपच्चयो, मयं भवाम. एवं परच्छेक्केपि-भवते, भवन्ते. भवसे, भवव्हे. भवे, भवम्हे. केचि दीघं कत्वा पठन्ति, ‘‘ब्यञ्जने दीघरस्सा’’ति दीघो, भवाम्हे.
एत्थ च –
लज्जा सत्ता ठिति जागरणं,
वुद्धि क्खय जीवित मरणं;
कीळा रुचि रोचते इत्येवं,
वुत्ता अकम्मकधातु सब्बे.
–ति वुत्तत्ता कम्मं दुतिया न.
पच=पाके, अकारो उच्चारणत्थो, एव+मुपरिपि. पच इति ठिते लविकरणं, विकरणलोपादि पुरिमसमं. सो ओदनं पचति, ते पचन्ति. त्वं पचसि, तुम्हे पचथ. अहं पचामि, मयं पचाम. परच्छक्के-पचते, पचन्ते. पचसे, पचव्हे. पचे, पचाम्हे.
१,२२. विप्पटिसेधे
विप्पटिसेधनं=अञ्ञमञ्ञपटिसेधनं विप्पटिसेधो. पठममज्झिमपुरिसानं द्विन्नं एकत्थ पसङ्गे मज्झिमपुरिसबहुवचनं थपच्चयो. सो च पचति, त्वञ्च पचसि, तुम्हे पचथ. तुल्यबलविरोधिनो हि विप्पटिसेधा पठममज्झिमउत्तमपुरिसानं तिण्णं एकत्थ पसङ्गे उत्तमपुरिसबहुवचनं होति, सो च पचति, त्वञ्च पचसि, अहञ्च पचामि मयं पचामाति भवति.
अम+गम=गमने –
५,१७३. गम यमि+सा+स दिसानं वा च्छङ
एतेसं धातूनं च्छङ वा होति न्त+मान+त्यादीसु. सो गामं गच्छति. अन्ति –
७४. गरुपुब्बा रस्सा रे+न्तेन्तीनं
गरुपुब्बस्मा रस्सा न्ते+न्तीनं रे वा होति.
अक्खरनियमो छन्दं,
गरुलहुनियमो भवे वुत्ति;
दीघो संयोगादिपुब्बो,
रस्सो गरु लहु तु रस्सो.
गच्छरे गच्छन्ति. त्वं गच्छसि, तुम्हे गच्छथ. अहं गच्छामि, मयं गच्छाम. च्छादेसाभावपक्खे ‘‘ऊ लस्से’’ति एकारे गमेति. परलोपे गमेन्ति. गमेसि, गमेथ. गमेमि, गमेम. परच्छक्केपि सो गच्छते, गच्छरे गच्छन्ते. गच्छसे, गच्छव्हे. गच्छे, गच्छाम्हे.
पुरे अधम्मो दिब्बति, पुरा मरामीति च तंसमीपे तब्बोहारूपचारेन वत्तमानवचनं. वुत्तञ्हि –
आरद्धा+निट्ठितं किच्चं, वत्तमानन्ति वुच्चति;
वत्तमानसमीपञ्च, वत्तमानन्ति वुच्चति.
किमिव ते –
गङ्गाच तंसमीपञ्च, यतो गङ्गाति ञायते;
गङ्गायं पातु+मागच्छ, घोसो गङ्गाय+मित्यपि.
मुख्या+मुख्यत्थभेदेन, वत्तमानं ततो द्विधा;
मुख्यञ्हि रुळ्हि+मापन्नं, त+दारोपा अमुख्यताति.
पुरे+पुरासद्देहि वा अनागतता गम्यते, तदा तस्स वत्तमानत्ता. कालब्यत्तयो वा एसो, भवन्त्येव हि कालन्तरेपि त्यादयो बाहुलका ‘‘सन्तेसु परिगूहामि’’ ‘‘कायस्स भेदा अभिसम्परायं, सहब्यतं गच्छति वासवस्स’’ ‘‘अतिवेलं नमस्सिस्सं’’ति. ‘‘कुतो नु त्वं आगच्छसि, राजगहतो आगच्छामी’’तिआदीसु पन पच्चुप्पन्नसमीपे वत्तमानवचनं.
५,१७५. गम वद दानं घम्म वज्ज दज्जा
गमादीनं घम्मादयो वा होन्ति न्त+मान+त्यादीसु. घम्मति, घम्मन्ति इच्चादि.
कम्मे –
उपसग्गवसा कोचि, अकम्मोपि सकम्मको;
यथा+भिभूयते रागो, तापसेन महिद्धिनाति –
वुत्तत्ता अकम्मकतो कम्मनि अनुपुब्बा भूधातुतो त्यादयो होन्ति.
५,१७. क्यो भावकम्मेस्व+परोक्खेसु मान+न्त+त्यादीसु
भावकम्मविहितेसु परोक्खावज्जितेसु मान+न्त+त्यादीसु परेसु क्यो होति क्रियत्था. ककारो+नुबन्धकारियत्थो. ‘‘न ते कानुबन्ध+नागमेसू’’ति पटिसेधा ओकाराभावो. अनुभूयति सुखं देवदत्तेन.
एत्थ च –
आख्यातेन अवुत्तत्ता, कत्तुतो ततिया न तु;
दुतिया होति कम्मस्स, वुत्तत्ता पठमापि+ध.
अनुभूयन्ति सम्पत्तियो तया. अनुभूयसि त्वं देवदत्तेन. अनुभूयथ तुम्हे. अहं अनुभूयामि, तया मयं अनुभूयाम. द्वित्ते अनुभुय्यति+च्चादि. एवं परच्छक्के.
भावे अदब्बवुत्तिनो भावस्स एकत्ता एकवचनमेव. तञ्च पठमपुरिसेकवचनेयेव सम्भवति, नेव+ञ्ञं, बहुलंविधाना. भूयति भूयते देवदत्तेन, सम्पति भवनन्त्यत्थो.
पचधातुतो कम्मे क्यो.
३७. क्यस्सति
क्रियत्था क्यस्स ईञ वा होति. ञो आद्यावयवत्थो. देवदत्तेन ओदनो पचीयति पच्चति, रेआदेसे ओदना पचीयरे पचीयन्ति, पच्चरे पच्चन्ति. चवग्गपुब्बरूपानि. त्वं पचीयसि पच्चसि, तुम्हे पचीयथ पच्चथ. अहं पचीयामि पच्चामि, मयं पचीयाम पच्चाम. परच्छक्के देवदत्तेन ओदनो पचीयते इच्चादि.
गमितो कम्मे च्छङ च ईञआगमे च कते तेन गामो गच्छीयति, गामा गच्छीयन्ति. गच्छीयसि, गच्छीयथ. गच्छीयामि, गच्छीयाम. एवं परच्छक्के. गमीयति गम्मति, गमीयन्ति गम्मन्ति. गमीयसि गम्मसि, गमीयथ गम्मथ, गमीयामि गम्मामि, गमीयाम गम्माम परच्छक्केपि एवं. तथा घम्मीयति, घम्मीयन्ति इच्चादि.
क्रियत्था कत्तरि त्यादि, कम्मस्मिञ्च सकम्मका;
भावे वा+कम्मका कम्मा+वचनिच्छाय मञ्ञते.
तथा हि विज्जमानस्सापि कम्मास्स अवचनिच्छायं इदं वुच्चति –
सतोपि न विवक्खा+स्स, असतोपि च सा भवे;
तं यथा+नुदरा कञ्ञा, वञ्झावद्धितको यथा.
विवक्खा लोकिका एसा, असक्य+मतिवत्तितुं;
कथ+मेस विपरियासो, लोको एवा+नयुज्जते.
(वत्तमानपच्चयनयो).
२. भविस्सति स्सति स्सन्ति स्सति स्सथ स्सामि स्साम स्सते स्सन्ते स्ससे स्सव्हे स्सं स्साम्हे
भविस्सति=अनारद्धे अत्थे वत्तमानतो क्रियत्था स्सत्यादयो होन्ति.
३५. अ+ई+स्सादीनं ब्यञ्जनस्सिञ
क्रियत्था परेसं अआदीनं ईआदीनं स्सादीनञ्च ब्यञ्जनस्सि+ञ होति विभासा. ववत्थितविभासा+यं. स्सेति स्सादीनं स्सतिआदीनञ्चावयवो गहितो, ‘‘ऊब्यञ्जनस्सा’’ति सिद्धेपि त्यादीसु एतेसमेवाति नियमत्थो+य+मारम्भो. लस्साकारलोपे ओ+अवादेसे भविस्सति, भविस्सन्ति. भविस्ससि, भविस्सथ. भविस्सामि, भविस्साम. भविस्सते, भविस्सन्ते. भविस्ससे, भविस्सव्हे. भविस्सं, भविस्साम्हे.
कम्मे –
४९. क्यस्स स्से
क्यस्स वा लोपो होति स्से. सुखं तया अनुभविस्सति, अनुभविस्सन्ति. अनुभविस्ससि, अनुभविस्सथ. अनुभविस्सामि, अनुभविस्साम. अञ्ञत्र अनुभूयिस्सति, अनुभूयिस्सन्ति इच्चादि. एवं परच्छक्के. भावे-भूयिस्सति भूयिस्सते.
कत्तरि-पचिस्सति, पचिस्सन्ति इच्चादि. कम्मे-पचिस्सति ओदनो देवदत्तेन, पचीयिस्सति, पच्चिस्सति. पच्चिस्सन्ति ओदना पचीयिस्सन्ति, पचीयिस्सरे, पच्चिस्सरे, पच्चिस्सन्ति.
गमितो कत्तरि-सो गच्छिस्सति, ते गच्छिस्सन्ति. त्वं गच्छिस्ससि, तुम्हे गच्छिस्सथ. अहं गच्छिस्सामि, मयं गच्छिस्साम. गच्छिस्सते, गच्छिस्सन्ते. गच्छिस्ससे, गच्छिस्सव्हे. गच्छिस्सं, गच्छिस्साम्हे. सग्गं गमिस्सति, गमिस्सन्ति. गमिस्ससि, गमिस्सथ. गमिस्सामि, गमिस्साम इच्चादि. कम्मे-गच्छियिस्सति, गच्छियिस्सन्ति इच्चादि. क्यलोपे गमिस्सति, गमिस्सन्ति इच्चादि. तथा घम्मिस्सति घम्मीयिस्सति, घम्मिस्सन्ति, घम्मीयिस्सन्ति इच्चादि.
३. नामे गरहाविम्हयेसु
नामसद्दे निपाते सति गरहायं विम्हये च गम्यमाने स्सत्यादयो होन्ति. इमे हि नाम कल्याणधम्मा पटिजानिस्सन्ति. एत्थ ‘‘ज्यादीहि क्ना’’ति क्नाविकरणे ‘‘ञास्सने जा’’ति जादेसो. न हि नाम भिक्खवे तस्स मोघपुरिसस्स पाणेसु अनुद्दया भविस्सति. कथञ्हि नाम सो भिक्खवे मोघपुरिसो सब्बमत्तिकामयं कुटिकं करिस्सति. विम्हये-अच्छरियं वत भो, अब्भुतं वत भो, सन्तेन वत भो पब्बजिता विहारेन विहरन्ति, यत्र हि नाम सञ्ञी समानो जागरो पञ्चमत्तानि सकटसतानि निस्साय निस्साय अतिक्कन्तानि नेव दक्खिति, न पन सद्दं सोस्सति. अच्छरियं अन्धो नाम पब्बत+मारोहिस्सति, बधिरो नाम सद्दं सोस्सति. (भविस्सन्तिपच्चयनयो).
४. भूते ई उं ओ त्थ इं म्हा आ ऊ से व्हं अ म्हे
भूते परिसमत्ते अत्थे वत्तमानतो क्रियत्था ईआदयो होन्ति. भूतानज्जतने उपरि वक्खमानत्ता इमे ईआदयो भूतज्जतने. ‘‘सुवो अहोसि आनन्दो’’तिआदीसु भूतसामञ्ञेव भवन्ति.
अहस्सु+भयतो अड्ढ-रत्तं वा तदुपड्ढतं;
अन्तोकत्वान विञ्ञेय्यो, अहो अज्जतनो इति;
तदञ्ञो पन यो कालो, सो+नज्जतनसञ्ञितो.
इति पठमपुरिसेकवचनं ई,
१५. आ+ई+स्सादीस्व+ञ वा
आआदो ईआदो स्सादो च क्रियत्थस्स वा अञ होतीति धातुतो पुब्बं अञ. ‘‘कत्तरि लो’’ति लो, एकार+अवादेसा च.
३८. एय्याथ+स्से+अ+आ+ई+थानं ओ+अ+अं+त्थ+त्थो+व्होक
एय्याथादीनं ओआदयो वा होन्ति यथाक्कमंति ईस्सत्थो, अभवित्थो, भवित्थो, अभवत्थो, भवत्थो. ‘‘आ ई ऊ म्हा स्सा स्सम्हानं वा’’ति ईस्स रस्सत्तं. सो अभवि भवि, अभवी भवी.
३९. उंस्सिं+स्वं+सु
तिउंस्स इंसु+अंसु वा होन्ति. अभविंसु भविंसु, अभवंसु भवंसु, अभवुं भवुं.
४२. ओस्स अ+इ+त्थ+त्थो
ओस्स अआदयो वा होन्ति. अभव भव, अभवि भवि, इञागमे अभवित्थ भवित्थ, अभवत्थ भवत्थ, अभवित्थो भवित्थो, अभवत्थो भवत्थो.
४३. सि
ओस्स सि वा होति. अभविसि भविसि, अभवसि भवसि. अभवो भवो.
४५. म्हात्थान+मुञ
एसं उञ वा होति. ईआदिसम्बन्धीनमेव गहणं. अभवुत्थ भवुत्थ.
४६. इंस्स च सिञ
इंस्स च सिञ वा होति म्हात्थानञ्च बहुलं. इकारञ्ञकारा उच्चारणआद्यावयवत्था. अभवसित्थ भवसित्थ, अभवित्थ भवित्थ, अभवत्थ भवत्थ, अभविसिं भविसिं, अभवसिं भवसिं, अभविं भविं. उञागमे आस्स रस्सो. अभवुम्ह भवुम्ह अभवुम्हा भवुम्हा. सिञागमे अभवसिम्ह भवसिम्ह अभवसिम्हा भवसिम्हा अभविम्ह भविम्ह अभविम्हा भविम्हा अभवम्ह भवम्ह अभवम्हा भवम्हा. परच्छक्के – ‘‘एय्याथा’’दिना त्थे अभवित्थ भवित्थ अभवत्थ भवत्थ. रस्से अभवथ भवथ, अभवा भवा, अभवु भवु. अभविसे भविसे, अभवसे भवसे, अभविव्हं भविव्हं अभवव्हं भवव्हं, अस्स अ+मादेसे अभवं भवं अभव भव, अभविम्हे भविम्हे अभवम्हे भवम्हे. कम्मे सुखं तया अनुभूयित्थो अन्वभूयत्थो अनुभूयत्थो अन्वभूसि अनुभूसी अन्वभूयी अनुभूयी, अन्वभूयिंसु अनुभूयिंसु अन्वभूयंसु अनुभूयंसु अन्वभूयुं अनुभूयुं इच्चादि. भावे-तेन अभूयित्थो भूयित्थो अभूयत्थो भूयत्थो अभूयि भूयि अभूयी भूयी. तेन अभूयत्थ भूयत्थ अभूय भूय अभूया भूया.
सो अपचित्थो पचित्थो इच्चादि कत्तुसमं. कम्मे-अपचीयित्थो पचीयित्थो अपचीयत्थो पचीयत्थो. चवग्गपुब्ब- रूपे अपच्चित्थो पच्चित्थो अपच्चत्थो पच्चत्थो अपचीयि पचीयि अपचीयी पचीयी अपच्चि पच्चि अपच्ची पच्ची, अपचीयिंसु पचीयिंसु अपचिंसु पचिंसु अपचीयंसु पचीयंसु अपच्चंसु पच्चंसु अपचीयुं पचीयुं अपच्चुं पच्चुं इच्चादि कत्तुसमं, पुब्बरूपोव विसेसो.
सो गामं अगच्छित्थो गच्छित्थो इच्चादि पुरिमसमं.
३०. डंसस्स च ञ्छङ
डंसस्स च गमिस्स च ञ्छङ वा होति आ+ईआदीसु. अगञ्छित्थो गञ्छित्थो अगञ्छत्थो गञ्छत्थो अगञ्छि गञ्छि अगञ्छी गञ्छी इच्चादि.
२९. गमिस्सा
आआदो ईआदो च गमिस्स आ होति वा. सो अगा अगमि गमि अगमित्थो गमित्थो अगमत्थो गमत्थो. ईपच्चये लस्साकारस्स ‘‘हिमिमेस्व+स्सा’’ति एत्थ ‘‘अस्सा’’ति योगविभागा दीघे ‘‘दीघा ईस्सा’’ति ईस्स सिआदेसो, अगमासि अगमि गमि अगमी गमी, अगमिंसु गमिंसु अगमंसु गमंसु अगमुं गमुं. ओस्स अआदेसे अज्झगुं. त्वं अज्झगा परस्स लोपो. तुम्हे अज्झगुत्थ. अहं अज्झगं, मयं अज्झगम्ह. परच्छक्के – ‘‘एय्याथा’’दिना त्थे सो अगच्छित्थ गच्छित्थ अगञ्छित्थ गञ्छित्थ अगमित्थ गमित्थ अगम गम अगमा गमा. ते अगमू गमू, ओस्स आआदेसे अज्झगुं. त्वं अगमिसे गमिसे. तुम्हे अगमिव्हं. ‘‘एय्याथा’’ दिना अ+मादेसे अहं अगमं गमं अज्झगं. मयं अगमिम्हे गमिम्हे. कम्मेअगच्छीयि अगमीयि, अगच्छियुं अगमियुं इच्चादि. तथा अघम्मी घम्मी इच्चादि.
१३. मायोगे ई+आआदी
मायोगे सति ईआदयो आआदयो च वा होन्ति. सककालतो कालन्तरेपि पच्चयविधानत्थो+यं. मा भवं अभवित्थो इच्चादि. वाविधानास्सत्यादि+एय्यादि+त्वादयोपि होन्ति, मा भवं भविस्सति, मा भवं भवेय्य, मा भवं भवतु इच्चादि. (ईआदिपच्चयनयो).
५. अनज्जतने आ ऊओ त्थ अ म्हा त्थ त्थुं से व्हं इं म्हसे
अविज्जमानज्जतने भूतत्थे वत्तमानतो क्रियत्था आआदयो होन्ति वा. ‘‘एय्याथा’’दिना त्थे ‘‘आ ई ऊ म्हा’’ इच्चादिना रस्से च सो अभवत्थ भवत्थ अभव भव अभवा भवा, ते अभवु भवु अभवू भवू. ओ, ‘‘ओस्सा’’तिआदिना अआदयो, अभव भव अभवि भवि अभवत्थ भवत्थ अभवत्थो भवत्थो, सिआदेसे अभवसि भवसि अभवो भवो. तुम्हे अभवत्थ भवत्थ. अहं अभवं भवं अभव भव, मयं अभवम्ह भवम्ह अभवम्हा भवम्हा. सो अभवत्थ भवत्थ. ते अभवत्थुं भवत्थुं. त्वं अभवसे भवसे. तुम्हे अभवव्हं भवव्हं. ‘‘इस्स च सिञ’’ति सिं, अहं अभवसिं भवसिं अभविं भविं. मयं अभवम्हसे भवम्हसे. कम्मे-त्थे सुखं तया अनुभूयित्थ, इञागमाभावे अनुभूयत्थ इच्चादि. भावे-अभूयत्थ भूयत्थ इच्चादि.
सो ओदनं अपचत्थ पचत्थ इच्चादि कत्तुसमं. कम्मे-अपचीयत्थ पचीयत्थ अपच्चत्थ पच्चत्थ अपचीय पचीय अपचीया पचीया अपच्च पच्च अपच्चा पच्चा. अपचीयु पचीयु अपचीयू पचीयू अपच्चु पच्चु अपच्चू पच्चू इच्चादि. ‘‘मायोगे ई+आआदी’’ति मायोगेपि आआदयो, मा भवं अपच्चत्थ इच्चादि.
तथा अगच्छत्थ गच्छत्थ इच्चादि पुरिमसमं. तथा अगमत्थ गमत्थ इच्चादिपि अघम्मत्थ घम्मत्थ इच्चादिपि. (अनज्जतनपच्चयनयो).
६. परोक्खे अ उ ए त्थ अ म्ह त्थ रे त्थो व्हो इ म्हे
अपच्चक्खे भूतानज्जतने वत्तमानतो क्रियत्था अआदयो होन्ति. अक्खानं=इन्द्रियानं परं परोक्खं. तस्मिं. ‘‘अपरोक्खेसू’’ति वचना क्य+लादिविकरणा न होन्ति.
५,७१. परोक्खायञ्च
परोक्खायं पठम+मेकस्सरं सद्दरूपं द्वे भवति. ‘‘भूस्स वुक’’ इतिआदीसु वुक, भूव भूव इति द्वित्ते –
५,७५. लोपो+नादिब्यञ्जनस्स
द्वित्ते पुब्बस्स आदितो+ञ्ञस्स ब्यञ्जनस्स लोपो होति.
१८. पुब्बस्स अ
अआदीसु द्वित्ते पुब्बस्स भूस्स अ होति.
५,७८. चतुत्थदुतियानं ततियपठमा
द्वित्ते पुब्बेसं चतुत्थदुतियानं ततियपठमा होन्ति यथाक्कमंति बकारे सो बभूव किर, ते बभुवु किर. त्वं बभुवे किर, इञ तुम्हे बभुवित्थ किर. अहं बभुव किर, मयं बभुविम्ह किर. सो बभुवित्थ किर, ते बभुविरे किर. त्वं बभुवित्थो किर, तुम्हे बभुविव्हो किर. अहं बभुवि किर, मयं बभुविम्हे किर. कम्मे-अनुपभुव किर इच्चादि. भावेबभुव बभुवित्थ किर.
पपच, पपचु. पपचे, इञागमे पपचित्थ. अञ्ञत्र ‘‘संयोगादिलोपो’’ति लोपो, पपचित्थ. पपच, पपचिम्ह. पपचित्थ, पपचिरे. पपचित्थो पपचिथो, पपचिव्हो. पपचि, पपचिम्हे. एवं कम्मे.
अआदिपच्चये द्विभावे अनादिब्यञ्जनलोपे पुब्बस्स ‘‘कवग्गहानं चवग्गजा’’ति चवग्गजकारे ‘‘ब्यञ्जने दीघरस्सा’’ति दीघे च कते सो गामं जगाम किर, जगमु. जगमे, जगमित्थ. जगम, जगमिम्ह. जगमित्थ, जगमिरे. जगमित्थो, जगमिव्हो. जगमि, जगमिम्हे. एवं कम्मे.
मूळ्हविक्खित्तब्यासत्तचित्तेन अत्तनापि क्रिया कता अभिनिब्बत्तिकाले+नुपलद्धासमाना फलेना+नुमीयमाना परोक्खाव वत्थुतो. तेन उत्तमविसयेपि पयोगसम्भवो. (परोक्खापच्चयनयो).
७. य्योदो वा+तिपत्तियं स्सा स्संसु स्से स्सथ स्सं स्सम्हा स्सथ स्सिंसुस्ससेस्सव्हेस्सिं स्साम्हसे.
एय्यादो विसये क्रियातिपत्तियं स्सादयो होन्ति. विधुरपच्चयोपनिपाततो कारणवेकल्लतो वा क्रियातिपतन+मनिप्फत्ति क्रियातिपत्ति. एते च स्सादयो सामत्थिया अतीतानागतेस्वेव होन्ति, न वत्तमाने, तत्र क्रियातिपत्यसम्भवा. इञागमे स्सास्स वा रस्से च सचे सो पठमवये पब्बज्जं अलभिस्स, अरहा अभविस्स भविस्स अभविस्सा भविस्सा वा, ते च तं अलभिस्संसु, अरहन्तो अभविस्संसु भविस्संसु. ‘‘एय्याथा’’दिना स्सेस्स वा अकारे त्वं अभविस्स भविस्से. तुम्हे अभविस्सथ. अहं अभविस्सं. रस्से मयं अभविस्सम्ह भविस्सम्ह अभविस्सम्हा भविस्सम्हा. परच्छक्के-सो अभविस्सथ, अभविस्सिंसु. अभविस्ससे, अभविस्सव्हे. अभविस्सिं, अभविस्साम्हसे.
कम्मे-तेन सुखं अन्वभविस्स, अन्वभविस्संसु क्यलोपो. अन्वभूयिस्स अन्वभूयिस्सा इच्चादि. भावे-तेन अभूयिस्स भूयिस्स अभूयिस्सा भूयिस्सा. अभूयिस्सथ भूयिस्सथ.
एवं तण्डुलादिसाधनं अलभिस्स, ओदनं अपचिस्स पचिस्स इच्चादि. कम्मे-तेन ओदनो अपचिस्स पचिस्स अपचिस्सा पचिस्सा अपचीयिस्स पचीयिस्स अपचीयिस्सा पचीयिस्सा अपच्चिस्स पच्चिस्स अपच्चिस्सा पच्चिस्सा इच्चादि.
सो अगच्छिस्स गच्छिस्स अगच्छिस्सा गच्छिस्सा इच्चादि. च्छादेसा+भावे अगमिस्स गमिस्स अगमिस्सा गमिस्सा इच्चादि. कम्मे-अगच्छिस्स गच्छिस्स अगच्छीयिस्स इच्चादि. अगमिस्स गमिस्स अगमीयिस्स इच्चादि. तथा अघम्मिस्स इच्चादि. (क्रियातिपत्तिपच्चयनयो).
८. हेतुफलेस्वे+य्य एय्युं एय्यासि एय्याथ एय्यामि एय्याम एथ एरं एथो एय्याव्हो एय्यं एय्याम्हे.
हेतुभूतायं फलभूतायञ्च क्रियायं वत्तमानतो क्रियत्था एय्यादयो होन्ति वा. लविकरणवुद्धिआदि पुब्बसमं. परिकप्पे –