६८. क्वचि पच्चयेति

पच्चये पुमभावे अतिसयेन ब्यत्ता ब्यत्ततरा, ब्यत्ततमा. ‘‘तस्सं तत्र, ताय ततो, तस्सं वेलायं तदा’’[‘‘… एत्थन्तरे रूपानि आचरियसंघरक्खित महासामित्थेरमतेन इमिनाव ‘‘क्वचि पच्चयेति सुत्तेन सिद्धानि, तेनेव तानि इमस्मिं सुत्ते उदाहटानि. आचरियमोग्गल्लानमहाथेरमतेन पने+तानि ‘‘सब्बादयो वुत्तिमत्तेति सुत्तेन सिद्धानि. तोआदीनं विभत्यत्थे विहितपच्चयत्ता, तदन्थानञ्च णादिवुत्तित्ता द्विन्नम्पि थेरानं मता अविरुद्धा.]