४. समासकण्ड

अथ नामानमेव अञ्ञमञ्ञसम्बन्धीनं समासोति नामनिस्सितत्ता, सयञ्च नामिकत्ता नामानन्तरं समासो वुच्चते.

१. स्यादि स्यादिने+कत्थन्ति

इद+मधिकतं वेदितब्बं. पुब्बे वुत्तविधिग्गहणञायेन स्यादीति तदन्तस्स गहणं. सो च भिन्नत्थानं नामान+मेकत्थीभावो समासोति वुच्चते.

२. असङ्ख्यं विभत्ति+सम्पत्ति+समीप+साकल्या+भाव+यथा+ पच्छा+युगपदत्थे

पुब्बस्स+त्थपरं यस्स, अञ्ञत्थपरमञ्च यं;

नपुंसकं भवे यञ्च, त+दासंख्य+मिहे+स्सते.

सत्थन्तरे पसिद्धं यं, अब्ययीभावनामतो;

उपकुम्भं तिट्ठगु च, पातमेघंति तं यथा.

असङ्ख्यं स्याद्यन्तं विभत्यादीन+मत्थे वत्तमानं स्याद्यन्तेन सहे+कत्थं भवति. ‘‘अविग्गहो निच्चसमासो, पदन्तरविग्गहो चे’’ति पदन्तरविग्गहो. इत्थीसु तथा पवत्ताति विग्गय्ह विभत्यत्थे समासे कते –

२,११९. एकत्थतायं

एको अत्थो यस्स पकतिपच्चयादिसमुदायस्स सो एकत्थो. तस्स भावो पवत्तिनिमित्तं एकत्थता, ईयादि+णादि+समासविधानं, तस्मिं सति स्यादिलोपो होति.

९. तं नपुंसकन्ति

नपुंसकलिङ्गे च ‘‘पुब्बस्मा+मादितो’’ति सब्बविभत्तीनं लोपे च कते अधित्थि तिट्ठति, भो अधित्थि, अधित्थि पस्स, अधित्थि कतं, अधित्ति चरति, अधित्थि देहि, अधित्थि अपेहि, अधित्थि आयत्तं, अधित्थि पतिट्ठितं. एवं अधिकुमारि, अन्तभूतस्स अप्पधानस्स घपस्स ‘‘घपस्स+न्तस्सा+प्पधानस्सा’’ति पस्स रस्सो.

सह=सम्पन्नं ब्रह्मं सब्रह्मं. वुत्तनयेन एत्थ च उपरि च समासादयो होन्ति, एत्थ ‘‘अकाले सतत्थे’’ति सहस्स सादेसो. स्यादिम्हि कते ‘‘पुब्बस्मा+मादितो’’ति स्यादीनं लोपे च सम्पत्ते ‘‘ना+तो+मपञ्चमिया’’ति अपञ्चमिया पटिसेधो च अकारन्तअसंख्यसमासतो परासं सब्बविभत्तीनं अंआदेसो च होति. एव+मुपरिपि.

भिक्खानं समिद्धि सुभिक्खं, एत्थ घस्स रस्सो. सुभिक्खं तिट्ठति भो सुभिक्खं, सुभिक्खं पस्स. ना+स्मिंसु ‘‘वा ततिया सत्तमीनं’’ति विकप्पेन अं, सुभिक्खं सुभिक्खेन वा कतं, सुभिक्खं सुभिक्खेन वा चरति, सुभिक्खं देहि. पञ्चमियं अ+मब्भावा सुभिक्खा अपगच्छ, सुभिक्ख+मायत्तं, सुभिक्खं सुभिक्खे वा पतिट्ठितं.

समीपत्थे-कुम्भस्स समीपं उपकुम्भं, एवं उपनगरं, भो उपकुम्भं इच्चादि.

साकल्ये-तिणम्पि असेसेत्वाति सतिणं, तिणम्पि असेसेत्वा अज्झोहरणीय+मज्झोहरतीत्यत्थो. सेसं सब्रह्मसमं. अग्गिम्पि असेसेत्वाति साग्गि, अग्गिगन्थंपि असेसेत्वा अधीतेत्यत्थो. वारग्गहणं अधित्थिसमं.

अभावो सम्बन्धीभेदा बहुविधो, तत्र इद्धाभावेविगता इद्धि=विभूति सद्दिकानन्ति दुस्सद्दिकं. अत्थाभावेमक्खिकानं अभावो निम्मक्खिकं, निद्दरथं, निम्मसकं. अतिक्कमाभावे-अतिगतानि तिणानि नित्तिणं. उपभोगसम्बन्धीवत्तमानकालस्स अभावे-अतिगतं लहुपावुरणं अतिलहुपावुरणं, लहुपावुरणस्स ना+यं उपभोगता लोति अत्थो.

यथात्थो+नेकविधो, तत्र योग्गतायं-योग्गं रूप+मनुरूपं. विच्छायं-अद्धमासं अद्धमासं अनु अन्वद्धमासं, एवं पच्चत्तं. अत्थानतिवत्तियं-सत्तिं अनतिक्कम्म यथासत्ति. एवं यथाक्कमं, यथाबलं. बहुलाधिकारा या या परिसा यथापरिसा. सदिसत्थे-किखिया कण्हविच्छितधेनुया सदिसो सकिखि, सहस्स सादेसो. आनुपुब्बियं-जेट्ठानुक्कमेन अनुजेट्ठं.

पच्छाअत्थे-रथस्स पच्छा अनुरथं.

युगपदत्थे-चक्केन सह=एककालं सचक्कं, चक्केन एकक्खणे निधेतीति अत्थो.

३. यथा न तुल्ये

यथासद्दो तुल्यत्थे वत्तमानो स्याद्यन्तेन सहे+कत्थो न भवति. यथा देवदत्तो, तथा यञ्ञदत्तो. एत्थ उपमानभूतो यथासद्दो ‘तथा यञ्ञदत्तो’ति उपमेय्य+मपेक्खति, तस्मा ‘‘सापेक्ख+मसमत्थं भवती’’ति ञाया असमासे ‘‘न तुल्ये’’ति पटिसेधो किमत्थ+मिति चे. यस्मा ‘‘यथा देवदत्तो’’ति समुदायमेव उपमानं भवति, न विसुं यथासद्दो, तस्मा समुदायस्सेव उपमेय्यसापेक्खत्ते न असामत्थियता न विसुं यथासद्दस्स, तस्मा सादिस्से पत्तसमासस्स पटिसेधत्थ+मिदं. तुल्यत्थेति वत्तब्बे तुल्यं विना तुल्यता नत्थीति तुल्यत्थेति अवत्वा तुल्येति वुत्तं.

यथाकथञ्चि सादिस्सं, ञायते यत्थ सम्भवं;

उपमा नाम सा तस्सा, पपञ्चो बहुधा भवे.

४. यावा+वधारणे

यावसद्दो अवधारणे वत्तमानो स्याद्यन्तेन सहे+कत्थो भवति. अवधारणं=एत्तकतापरिच्छेदो. यावन्तानि अमत्तानि=भाजनानि यावामत्तं, इमिना समासे कते सेसं पुब्बसमं. जीवस्स यत्तको परिच्छेदो यावजीवं. यावतायुकं, ‘‘सकत्थे’’ति कपच्चयो. यत्तकेन अत्थो यावदत्थं.

५. पय्यपा बहि तिरो पुरे पच्छा वा पञ्चम्या

परिआदयो पञ्चम्यन्तेन सहे+कत्था होन्ति वा. परि पब्बता परिपब्बतं. वास्स वाक्यविकप्पत्थत्ता परि पब्बता इच्चादयोपि होन्ति. अप पब्बता अपपब्बतं, आ पाटलिपुत्ता आपाटलिपुत्तं, बहि गामा बहिगामं, तिरो पब्बता तिरोपब्बतं, पुरे भत्ता पुरेभत्तं, पच्छा भत्ता पच्छाभत्तं, सब्बं उपकुम्भसमं, इमिना समासो विसेसो. एव+मुपरिसुत्तेपि.

वात्य+धिकारो –

६. समीपा+यामेस्व+नु

‘‘असंख्य’’मिच्चादिना निच्चसमासस्स विकप्पत्थं समीपग्गहणं. अनुसद्दो सामीप्ये आयामे च वत्तमानो स्याद्यन्तेन सहे+कत्थो वा होति. एत्थ समीपग्गहणस्स भावप्पधानत्ता सामीप्यमेव गम्यतेति सामीप्येति वुत्तं. वनस्स अनु=समीपं अनुवनं, गङ्गाय अनु=आयामो अनुगङ्गं, गङ्गाय अनु वा बाराणसी.

७. तिट्ठग्वादीनि

तिट्ठगुआदीनि अञ्ञत्थेन सिद्धापि अस्मिं असंख्यसमासे निपातियन्ति. तिट्ठन्ति गावो यस्मिं कालेति तिट्ठन्तसद्द+गोसद्देहि पठमायोम्हि कते ‘‘वा+नेकञ्ञत्थे’’ति समासो, इमिना निपातना लोपे नपुंसकत्थे च कते सिम्हि गोस्स ‘‘गोस्सु’’ति उकारे ‘‘पुब्बस्मा+मादितो’’ति विभत्तिलोपो. एवं वहन्ती गावो यस्मिं कालेति वहग्गु इच्चादि. वेलाप्पकासकपातोआदीनम्पि एत्थेव सङ्गहो, पातो नहानन्ति सत्तमीअमादिसमासे पातनहानं, एवं सायनहानं, पातकालं, सायकालं, पातमेघं, सायमेघं, पातमग्गं, सायमग्गं, एत्थ ‘‘एओन+म वण्णे’’ति अकारो, निग्गहीतस्स लोपो च होति.

८. ओरे+परि+पटि+पारे+मज्झे+हेट्ठु+द्धा+धो+न्तो वा छट्ठिया.

ओरादयो सद्दा छट्ठियन्तेन सहे+कत्था वा होन्ति. ओरं गङ्गाय ओरेगङ्गा, उपरि सिखरस्स उपरिसिखरं, पटि=मुखं सोतस्स पटिसोतं, पारं यमुनाय पारेयमुनं, मज्झं गङ्गाय मज्झेगङ्गं, हेट्ठा पासादस्स हेट्ठापासादं, उद्धं गङ्गाय उद्धगङ्गं, अधो गङ्गाय अधोगङ्गं, अन्तो पासादस्स अन्तोपासादं. इमिना निपातनाव निग्गहीतलोपे च एकारे च कते ओरेच्चादि होति.

१०. अ+मादि

अ+मादिस्याद्यन्तं स्याद्यन्तेन सह बहुल+मेकत्तं होति.

उत्तरस्स पदस्स+त्थो, पधानं लिङ्ग+मस्स च;

दुतियन्तादिपदेकत्थो, बहुधा तं विभज्जते.

परेस+मिस्सते तञ्च, भिय्यो तप्पुरिसा+ख्यया;

तं यथा+त्र राजापच्चं, कत्थचीति+मितीदिसं.

अ+माद्यन्तानं कारकानं अकारकानञ्च समासो कत्थचिमेव वा होति. तञ्च बहुलंविधानेनाति दट्ठब्बं.

तत्थ दुतियातप्पुरिसो अमादि गत+निस्सिता+तीता+तिक्कन्त+पत्ता+पन्नादीहि भवति. सरणं गतोति समासे कते ‘‘एकत्थतायं’’ति विभत्तिलोपादि उपरि सब्बत्थ पुब्बसमं. सरणगतो, सरणगता. सरणगता, सरणगतायो. सरणगतं कुलं, सरणगतानि कुलानि इच्चादि. अरञ्ञगतो, भूमिगतो. धम्मं निस्सितो धम्मनिस्सितो, अत्थनिस्सितो. भवं अतीतो भवातीतो, कालातीतो. पमाणं अतिक्कन्तं पमाणातिक्कन्तं, लोकातिक्कन्तं. सुखं पत्तो सुखप्पत्तो, दुक्खप्पत्तो. सोतं आपन्नो सोतापन्नो, निरोधसमापन्नो, मग्गप्पटिपन्नो. रथं आरुळ्हो रथारुळ्हो. सब्बरत्तिं सोभणो सब्बरत्तिसोभणो, मुहुत्तसुखं. अकारकानं समासो अच्चन्तसंयोगे. वुत्तियेवो+पपदसमासे, तस्स निच्चत्ता. यथा कम्मं करोतीति कम्मकारो, कुम्भकारो, अत्थं कामेतीति अत्थकामो, धम्मकामो, धम्मं धारेतीति धम्मधरो, विनयधरो. सानं पचतीति सपाको, तन्तं वायतीति तन्तवायो, वरं आहरतीति वराहरो. न्त+मान+क्तवन्तेहि वाक्यमेव. धम्मं सुणन्तो, धम्मं सुणमानो, ओदनं भुत्तवा.

ततियातप्पुरिसो कितक+पुब्ब+सदिस+समो+नत्थ+कलह+निपुण+मिस्स+सखिलादीहि. बुद्धेन भासितो बुद्धभासितो धम्मो, एवं जिनदेसितो. सत्थारा वण्णितो सत्थुवण्णितो. विञ्ञूहि गरहितो विञ्ञुगरहितो, विञ्ञुप्पसत्थो, इस्सरकतं, सयं कतं, सुकेहि आहटं सुकाहटं, रञ्ञा हतो राजहतो, राजपीळितो. अग्गिना दड्ढो अग्गिदड्ढो, सप्पेन दट्ठो सप्पदट्ठो, सल्लेहि विद्धो सल्लविद्धो, इच्छाय पकतो इच्छापकतो, सीलसम्पन्नो. एवं सुखसहगतं, ञाणसम्पयुत्तं, मित्तसंसग्गो, पियविप्पयोगो, जातिथद्धो, गुणहीनो, गुणवुद्धो, चतुवग्गकरणीयं, चतुवग्गादिकत्तब्बं. काकेहि पेय्या काकपेय्या, नदी. क्वचि वुत्तियेव, उरसा गच्छतीति उरगो, पादेन पिवतीति पादपो. क्वचि वाक्यमेव, फरसुना छिन्नवा, काकेहि पातब्बा, दस्सनेन पहातब्बा. पुब्बादियोगे-मासेन पुब्बो मासपुब्बो. एवं मातुसदिसो, मातुसमो. एकूनवीसति, सीलविकलो, असिकलहो, वाचानिपुणो, यावकालिकसम्मिस्सं, वाचासखिलो. सत्थारा सदिसो सत्थुसदिसो, सत्थुकप्पो, पुञ्ञेन अत्थिको पुञ्ञत्थिको, गुणाधिको. दधिना उपसित्तं भोजनं दधिभोजनं, गुळेन संसट्ठो ओदनो गुळोदनो. कारकसम्बन्धो क्रियाय कतो, उपसित्तादिक्रियानं अपञ्ञायनेपि वुत्तियेवो+पसित्तादिक्रियान+माख्यापनतो नत्था+युत्तत्थता. एवं खीरोदनो. अस्सेन युत्तो रथो अस्सरथो, मग्गचित्तं, जम्बुया पञ्ञातो लक्खितो दीपो जम्बुदीपो, एकेन अधिका दस एकादस, जातिया अन्धो जच्चन्धो, पकतिया मेधावी पकतिमेधावी इच्चादि.

चतुत्थीतप्पुरिसो तदत्थ+अत्थ+हित+देय्यादीहि. तदत्थे-कथिनस्स दुस्सं कथिनदुस्सं, कथिनचीवरस्साति अत्थो. एवं चीवरदुस्सं, चीवरमूलं, यागुया अत्थाय तण्डुला यागुतण्डुला, भत्ततण्डुला, सङ्घस्स अत्थाय भत्तं सङ्घभत्तं, आगन्तुकभत्तं, एवं गमिकभत्तं, पासादाय दब्बं पासाददब्बं. एत्थ चा+यं निच्चसमासो, तस्स तिलिङ्गता च-भिक्खुसङ्घस्स अत्थो विहारो भिक्खुसङ्घत्थो विहारो, भिक्खुसङ्घत्था यागु, भिक्खुसङ्घत्थं चीवरं. यस्स अत्थो यदत्थो, यदत्था, यदत्थं. एवं तदत्थो, तदत्था, तदत्थं. तथा लोकहितो. बुद्धस्स देय्यं बुद्धदेय्यं पुप्फं. सङ्घदेय्यं चीवरं. इध न होति ‘‘सङ्घस्स दातब्बं’’.

पञ्चमीतप्पुरिसो अपगमन+भय+विरति+मोचनत्थादीहि. मेथुनस्मा अपेतो मेथुनापेतो, एवं पलापगतो, नगरनिग्गतो, पिण्डपातपटिक्कन्तो, कामतो निक्खन्तं कामनिक्खन्तं, रुक्खग्गा पतितो रुक्खग्गपतितो, सासनच्चुतो, आपत्ति- वुट्ठानं, धरणीतलग्गतो, सब्बभवेहि निस्सटो सब्बभवनिस्सटो. भयतादियोगे-राजतो भयं राजभयं, चोरभयं, अमनुस्सभयं, अग्गिभयं, पापभीतो, पापभीरुको. अकत्तब्बतो विरति अकत्तब्बविरति, एवं कायदुच्चरितविरति, वचीदुच्चरितविरति. बन्धना मुत्तो बन्धनमुत्तो, वनमुत्तो, बन्धनमोक्खो. कम्मसमुट्ठितं, उक्कट्ठुक्कट्ठं, ओमकोमकं. क्वचि वुत्तियेव, कम्मतो जातं कम्मजं, एवं चित्तजं, उतुजं, आहारजं. इध न होति ‘पासादा पतितो’.

छट्ठीतप्पुरिसो रञ्ञो पुत्तो राजपुत्तो, एवं राजपुरिसो, आचरियपूजको, बुद्धसावको, बुद्धरूपं, जिनवचनं, समुद्दघोसो, धञ्ञानं रासि धञ्ञरासि, पुप्फगन्धो, फलरसो, कायस्स लहुता कायलहुता. मरणस्सति, रुक्खमूलं, अयस्स पत्तो अयोपत्तो, एत्थ ‘‘मनाद्यापादीन+मो मये चे’’ति ओ. एवं सुवण्णकटाहं, पानीयथालकं, सप्पिकुम्भो, देवानं राजा देवराजा. पुमस्स लिङ्गं पुल्लिङ्गं, ‘‘पुं पुमस्सवा’’ति पुमस्स पुं, निग्गहीतलोपो, लस्स द्विभावो च. हत्थिपदं, इत्थिरूपं, भिक्खुनिसङ्घो, जम्बुसाखा, एत्थ ईकारूकारानं रस्सो. बहुलाधिकारा न्त+मान+निद्धारिय+पूरण+भाव+तित्तत्थेहि न होति. ममा+नुकुब्बं, ममा+नुकुरुमानो, गुन्नं कण्हा सम्पन्नखीरतमा, सिस्सानं पञ्चमो, पटस्स सुत्तता. क्वचि होतेव ‘वत्तमानसामीप्यं’. ब्राह्मणस्स सुक्का दन्ताति सापेक्खताय न होति. फलानं तित्तो, फलान+मासितो, फलानं सुहितो. ‘‘ब्राह्मणस्स उच्चं गेहं’’ति सापेक्खताय न होति. ‘‘रञ्ञो पाटलिपुत्तकस्स धनं’’ति धनसम्बन्धे छट्ठीति पाटलिपुत्तकेन सम्बन्धाभावा न होति. ‘‘रञ्ञो गो च अस्सो च पुरिसो चा’’ति भिन्नत्थताय वाक्यमेव. रञ्ञो गवस्सपुरिसा राजगवस्सपुरिसाति वुत्ति होतेव, एकत्थीभावा. सम्बन्धीसद्दानं पन निच्चसापेक्खत्तेपि गमकत्ता समासो, गमकत्तम्पि हि समासस्स निबन्धनं, यथा देवदत्तस्स गुरुकुलं, भगवतो सावकसङ्घोतिआदि.

सत्तमीतप्पुरिसो रूपे सञ्ञा रूपसञ्ञा, एवं रूपसञ्चेतना, संसारदुक्खं. चक्खुम्हि सन्निस्सितं विञ्ञाणं चक्खुविञ्ञाणं. धम्मे रतो धम्मरतो, धम्माभिरति, धम्मरुचि, धम्मगारवो, धम्मेसु निरुत्ति धम्मनिरुत्ति, दानाधिमुत्ति, भवन्तरकतं. दस्सने अस्सादो दस्सनस्सादो. अरञ्ञे वासो अरञ्ञवासो, विकालभोजनं, कालवस्सं, वनपुप्फं, वनमहिसो, गामसूकरो, समुद्दमच्छा, आवाटकच्छपो, आवाटमण्डूको, कूपमण्डूको, तित्थनावा. इत्थीसु धुत्तो इत्थिधुत्तो, अक्खधुत्तो. छायायं सुक्खो छायासुक्खो, अङ्गारपक्कं, चारकवनो. क्वचि वुत्तियेव, वने चरतीति वनचरको, कुच्छिम्हि सयन्तीति कुच्छिसया, थले तिट्ठतीति थलट्ठो, जलट्ठो, पब्बतट्ठो, मग्गट्ठो. पङ्के जातं पङ्कजं, सरोरुह+मिच्चादि. इध न होति, भोजने मत्तञ्ञुता, इन्द्रियेसु गुत्तद्वारता, आसने निसिन्नो, आसने निसीदितब्बं.

११. विसेसन+मेकत्थेन

विसेसनं स्याद्यन्तं विसेस्सेन स्याद्यन्तेन समानाधिकरणेनसहे+कत्थं होति.

समानत्थे पदे यत्थ, भेद्यभेदकवाचके;

विसेसनसमासो+यं, विसेस्सत्थपधानतो.

विसेस्सगत+मेव+त्र, लिङ्ग+मेतं परं ततो;

कम्मधारय+मिच्चे+स, समासो+ञ्ञेहि सञ्ञितो.

सुत्ते विसेस्सेनाति अवुत्तेपि विसेसनस्स सम्बन्धीसद्दत्ता सामत्थियतो लब्भमानआकड्ढितसद्दं पति ‘‘विसेस्सेना’’ति वुत्तं. वुत्तञ्च –

सामञ्ञवत्थु या वत्थ+न्तरतो तु विसेसिय;

एकप्पकारे ठपना, विसेसन+मिती+रितं.

एकप्पकारगं वत्थु, विसेस्सन्ति पवुच्चति;

पदानि यानि यानेव, सम्बन्ध+मुपयन्ति+ह;

गम्यते कामचारेन, विसेसन+विसेस्सताति.

एत्थ च उप्पलदब्बं रत्तुप्पलादितो विसेसयतीति नीलसद्दो विसेसनं. तेन विसेसियतीति उप्पलसद्दो विसेस्सं. अपि च भमर+ङ्गारादिसामञ्ञ नीलत्थतो विसेसियतीति नीलं विसेस्सं. न वत्थादीनं, उप्पलस्सेवाति विसेसनतो उप्पलं विसेसनंति कामचारेनेति वुत्तं. अपि च –

परितो अयन्त्य+नेन+त्था, परियायोति वुच्चति;

गोवाचाति पवुत्ते तु, वाचत्थो तु विसेसनं.

विसेस्से दिस्समाना या, लिङ्ग+संख्या+विभत्तियो;

तुल्याधिकरणे भिय्यो, कत्तब्बा ता विसेसनेति –

वुत्तत्ता महन्तो+च्चादीसु समानलिङ्गादयो दट्ठब्बा. भिय्योति किं, देवा पमाणं इच्चादि.

सो च छब्बिधो विसेसनपुब्बपदो, विसेसनुत्तरपदो, विसेसनोभयपदो, उपमानुत्तरपदो, सम्भावनापुब्बपदो, अवधारणपुब्बपदोति.

तत्थ विसेसनपुब्बपदे ताव-महन्तो च सो पुरिसो चाति वाक्ये इमिना सुत्तेन समासो. ‘‘ट न्त+न्तूनं’’ति न्तस्स टादेसे दीघो होति, महापुरिसो, महापुरिसा इच्चादि.

वाक्ये तुल्याधिकरणभाव पकासनत्थं च+त-सद्दपयोगो. वुत्तियन्तु समासेनेव तप्पकासनतो न तप्पयोगो. एव+मञ्ञत्रापि वुत्तत्थान+मप्पयोगो. एवं महावीरो, महामुनि. महन्तञ्च तं बलञ्चाति महाबलं, महब्भयं. सन्तो च सो पुरिसो चाति सप्पुरिसो. तथा पुब्बपुरिसो, अपरपुरिसो, पठमपुरिसो, मज्झिमपुरिसो, उत्तमपुरिसो, परपुरिसो, सेतहत्थी, कण्हसप्पो, नीलुप्पलं, रत्तुप्पलं, लोहितचन्दनं. क्वचि न होति, पुण्णो मन्तानीपुत्तो, चित्तो गहपति. पुमा च सो कोकिलो चाति पुङ्कोकिलो, उत्तरपदे पुमस्स पुं होति. एवं पुन्नागो.

खत्तिया च सा कञ्ञा चाति खत्तियकञ्ञा.

६७. इत्थियं भासितपुमि+त्थी पुमेवे+कत्थेति

भासितपुमा इत्थी पुमेव होतीति पुम्भावा इत्थिपच्चयानं निवत्ति होति. एवं रत्तलता, दुतियभिक्खा. ब्राह्मणी च सा दारिका चाति ब्राह्मणदारिका, नागमाणविका. इत्थियन्ति किं, कुमारिरतनं, समणिपदुमं. भासितपुमाति किं, गङ्गानदी, तण्हानदी, पथवीधातु. पुरत्थिमो च सो कायो चाति पुरत्थिमकायो. एत्थ च कायेकदेसे कायसद्दो. एवं पच्छिमकायो, उपरिमकायो, हेट्ठिमकायो, सब्बकायो, नवावासो, कतरनिकायो, हेतुपच्चयो. जीवितप्पधानं नवकं जीवितनवक+मिच्चादि.

विसेसनुत्तरपदे थेरा+चरिय+पण्डिता विसेसनं परञ्च भवति. यथा सारिपुत्तो च सो थेरो चाति सारिपुत्तत्थेरो, एवं महामोग्गल्लानत्थेरो, महाकस्सपत्थेरो, बुद्धघोसाचरियो, धम्मपालाचरियो, आचरियगुत्तिलो वा. महोसधो च सो पण्डितो चाति महोसधपण्डितो, एवं विधुरपण्डितो.

विसेसनोभयपदे यथा-सीतञ्च तं उण्हञ्चाति सीतुण्हं, सिनिद्धो च सो उण्हो चाति सिनिद्धुण्हो मासो. खञ्जो च सो खुज्जो चाति खञ्जखुज्जो, एवं अन्धबधिरो, कताकतं, छिद्दावछिद्दं, उच्चावचं, छिन्नभिन्नं, गतपच्चागतं. क्वचि पुब्बकालस्सापि परनिपातो, वासितो च सो लित्तो चाति लित्तवासितो, एवं नग्गमूसितो, सित्तसम्मट्ठो, भट्ठलुञ्जितो.

उपमनुत्तरपदे उपमानभूतं विसेसनं परं भवति, यथा सीहोति वुत्ते उपचरिता+नुपचरितसीहानं सामञ्ञप्पतीतियं मुनिसद्दो विसेसेति. एत्थ च –

उपमानो+पमेय्यानं, सधम्मत्तं सियो+पमा.

सा च वत्थु+वण्ण+आकारानं साम्येन होति. सीहोव सीहो, मुनि च सो सीहो चाति मुनिसीहो, मुनिवसभो, मुनिपुङ्गवो, बुद्धनागो, बुद्धादिच्चो. रंसी विय रंसी, सद्धम्मो च सो रंसी चाति सद्धम्मरंसी, एवं विनयसागरो. पुण्डरिकमिव पुण्डरिको, समणो च सो पुण्डरिको चाति समणपुण्डरिको, समणपदुमो. चन्दो विय चन्दो, मुखञ्च तं चन्दो चाति मुखचन्दो, मुखपदुमं इच्चादि.

सम्भावनापुब्बपदे यथा-धम्मोति बुद्धि धम्मबुद्धि, एवं धम्मसञ्ञा, धम्मसङ्खातो, धम्मसम्मतो, पाणसञ्ञिता, असुभसञ्ञा, अनिच्चसञ्ञा, धातुसञ्ञा, अत्तसञ्ञा, अत्तदिट्ठि इच्चादि.

अवधारणपुब्बपदे यथा-गुणो एव धनं गुणधनं, एवं सद्धाधनं, सीलधनं, पञ्ञारतनं, चक्खु एव इन्द्रियं चक्खुन्द्रियं, एवं चक्खायतनं, चक्खुधातु, चक्खुद्वारं, रूपारम्मण+मिच्चादि.

विसेसन+विसेस्सेहि, क्रियाय च सहे+रितो;

तेसं भावं विवेचेता, निपातो ब्यवच्छिन्दति.

अयोग+मञ्ञयोगञ्च, अच्चन्तायोग+मेवि+ति;

विवक्खातो पयुत्तोपि, एवत्थो ञायते यतो.

ब्यवच्छेदफलं वाक्यं, ततो चित्तो धनुद्धरो;

पात्थो धनुद्धरो नीलु+प्पल+मत्थीति तं यथा.

एत्थ निपातोति एव-इतिनिपातो, अप्पयुत्तोपि एवसद्दो एवं योजेतब्बो – ‘‘चित्तो धनुद्धरो एवा’’ति विसेसनेन युत्तो अयोगविवच्छेदको, धनुना योगे पतिट्ठापनतो ‘‘पात्थो एव धनुद्धरो’’ति विसेस्सेन युत्तो अञ्ञयोगविवच्छेदको, धनुद्धरत्तस्स पात्थसंखातअज्जुने एव पतिट्ठापनतो. ‘‘नीलुप्पल+मत्थेवा’’ति क्रियाय युत्तो अच्चन्तायोगविवच्छेदको, नीलुप्पलस्स सब्भावेयेव पतिट्ठापनतो.

२१. संख्यादि

एकत्थे समाहारे संख्यादि नपुंसकलिङ्गं भवति. तयो लोका समाहटा=चित्तेन सम्पिण्डिता, तिण्णं लोकानं समाहारोति वा वाक्ये विसेसनसमासे कते इमिना नपुंसकत्तं भवति. समाहारस्से+कत्ता एकवचनमेव, तिलोकं, भो तिलोक, तिलोकं, तिलोकेन इच्चादि. एवं तयो दण्डा तिदण्डं, तीणि मलानि समाहटानि, तिण्णं मलानं समाहारोति वा तिमलं, तिलक्खणं, चतुसच्चं, पञ्चसिक्खापदं, छट्ठायतनं, सत्ताहं, अट्ठसीलं, नवलोकुत्तरं, दससीलं, सतयोजनं. द्वे रत्तियो समाहटा द्विरत्तं.

१२. नञ

नऊच्चेतं स्याद्यन्तं स्याद्यन्तेन सहे+कत्थं होति. ञ्ञकारो ‘‘ट नञस्सा’’ति विसेसनत्थो ‘पामनपुत्तादीसु नस्स टो मा होतू’ति. न ब्राह्मणो अब्राह्मणो, ‘‘ट नञस्सा’’ति नस्स टादेसो. ञ्ञ-कारो एत्थेव विसेसनत्थो.

न-निसेधो सतो युत्तो, देसादिनियमं विना;

असतो वा+फलो तस्मा, कथ+मब्राह्मणोतिचे.

निसेधत्थानुवादेन, पटिसेधविधि क्वचि;

परस्स मिच्छाञाणत्ता+ख्यापनायो+पपज्जते.

दुविधो च+स्स नस्स अत्थो पसज्जपटिसेध+परियुदासवसेन. तत्थ यो ‘‘असूरिकपस्साराजदारा’’तिआदीसु विय उत्तरपदत्थस्स सब्बदा अभावं दीपेति, सो पसज्जपटिसेधवाची नाम. यो पन ‘‘अब्राह्मण+मानया’’तिआदीसु विय उत्तरपदत्थं परियुदासित्वा पटिक्खिपित्वा तंसदिसे वत्थुम्हि कारियं पटिपादयति, सो परियुदासवाची नाम. वुत्तञ्च –

पसज्जपटिसेधस्स, लक्खणं वत्थुनत्थिता;

वत्थुतो+ञ्ञत्र या वुत्ति, परियुदासलक्खणं.

यत्र अब्राह्मणादीसु, वत्थुं परियुदस्सति;

तक्रियायुत्तराजादिं, वदे सो परियुदासको.

पसज्जपटिसेधो तु, वत्थन्तर+मनादिय;

किञ्चिवत्थुनिसेधस्स, पसङ्गो न भवेय्य सो.

तदञ्ञो च तंविरुद्धो,

तदभावो च नञ्ञत्थो.

तदञ्ञत्थे – अब्राह्मणो, ब्राह्मणतो अञ्ञो तंसदिसोति वुत्तं होति. एवं अमनुस्सो, अस्समणो, न ब्याकता अब्याकता धम्मा. तब्बिरुद्धत्थे-न कुसला अकुसला, कुसलपटिपक्खाति अत्थो. एवं अलोभो, अमित्तो, अयं परियुदासनयो. तदभावे-न कत्वा अकत्वा, अकातुन पुञ्ञं, अकरोन्तो, अभावो भवति. अयं पसज्जपटिसेधनयो.

एत्थ च उभोसु परियुदासे ब्राह्मणा अञ्ञो ब्राह्मणधम्मे अप्पतिट्ठितो खत्तियादि ब्राह्मणसदिसोव अब्राह्मणोति वुत्ते पतीयते. इतरस्मिं पन पक्खे केनचि संसयनिमित्तेन खत्तियादो ब्राह्मणोति वुत्तस्स मिच्छाञाणनिवुत्ति करीयति ‘‘ब्राह्मणो+यं न भवति अब्राह्मणो’’ति, ब्राह्मणत्तज्झासितो न भवतीत्यत्थो. तत्थ सदिसत्तं विना मिच्छाञाणासम्भवा पयोगसामत्थिया च सदिसपटिपत्ति, तग्गता च लिङ्ग+सङ्ख्या भवन्ति. अतोयेव उच्चते ‘‘नञ्ञिवयुत्त+मञ्ञसदिसाधिकरणे, कथा हि अत्थसम्पच्चयो’’ति.

७५. अन सरेति

नञसद्दस्स सरे अन, न अस्सो अनस्सो, न अरियो अनरियो. एवं अनिस्सरो, अनिट्ठो, अनासवो. न आदाय अनादाय, अनोलोकेत्वा इच्छादि. बहुलाधिकारा अयुत्तत्थेहि केहिचि होति. पुन न गीयन्तीति अपुनगेय्या गाथा, अनोकासं कारेत्वा, अमूलामूलं गन्त्वा, अचन्दमुल्लोकिकानि मुखानि, असद्धभोजी, अलवणभोजी.

१३. कुपादयो निच्च+मस्यादिविधिम्हि

कुसद्दो पादयो च स्याद्यन्तेन सहे+कत्था होन्ति निच्चं स्यादिविधिविसयतो+ञ्ञत्थ. एत्थ अब्यभिचारिपादिसहचरणत्थेन कुइति निपातोव, न पथवीवाचको कुसद्दो. स्यादिविधिविसयो नाम ‘‘लक्खणित्थम्भूता’’ दिना पतिआदीनं विसये कतदुतिया, तञ्च अन्वद्धमासन्ति असंख्यसमास+मिव मा होतूति ‘‘अस्यादिविधिम्ही’’ति निसेधो. कुच्छितो ब्राह्मणो कुब्राह्मणो, निच्चसमासत्ता असपदेन विग्गहो.

१०७. सरे कद कुस्सु+त्तरत्थे

कुस्सु+त्तरत्थे वत्तमानस्स सरादो उत्तरपदे कदादेसो होति. ईसकं उण्हं कदुण्हं, कुच्छितं अन्नं कदन्नं, कदसनं. सरेति किं, कुपुत्ता, कुदारा, कुदासा, कुदिट्ठि.

१०८. का+प्पत्थे

अप्पत्थे वत्तमानस्स कुस्स का होतु+त्तरपदे. अप्पकं लवणं कालवणं. एवं कापुप्फं.

१०९. पुरिसे वाति

कुस्स का वा. कुच्छितो पुरिसो कापुरिसो, कुपुरिसो वा. पकट्ठो नायको पनायको, पधानं वचनं पावचनं भुसं वद्धं पवद्धं सरीरं, समं सम्मा वा आधानं समाधानं, विविधा मति विमति, विविधो विसिट्ठो वा कप्पो विकप्पो, अधिको देवो अतिदेवो, एवं अधिदेवो, अधिसीलं. सुन्दरो गन्धो सुगन्धो, कच्छितो गन्धो दुग्गन्धो, सुट्ठु कतं सुकतं, दुट्ठु कतं दुक्कतं अभि सिञ्चनं अभिसेकोति सनन्तो, अतिसयेन कत्वा, कतं पकरित्वा, पकतं, अतिसयेन थुतं अतित्थुतं, अतिक्कम्म थुतं अतित्थुतं, ईसं कळारो आकळारो, सुट्ठु बद्धो आबद्धो.

पादयो गताद्यत्थे पठमाय

पगतो आचरियो पाचरियो, एवं पन्तेवासी.

अच्चादयो कन्ताद्यत्थे दुतियाय

अतिक्कन्तो मञ्चं अतिमञ्चो. अतिमालो, ‘‘घपस्स+न्तस्सा+प्पधानस्सा’’ति मालासद्दे घस्स रस्सो. एव+मुपरिपि घपानं रस्सो.

अवादयो कुट्ठाद्यत्थे ततियाय

अवकुट्ठं कोकिलाय वनं अवकोकिलं, अवमयूरं. अवकुट्ठन्ति परिच्चत्तं.

परियादयो गिलानाद्यत्थे चतुत्थिया

परिगिलानो+ज्झेनाय परियज्झेनो.

न्यादयो कन्ताद्यत्थे पञ्चमिया

निक्खन्तो कोसम्बिया निक्कोसम्बि. अस्यादिविधिम्हीति किं, रुक्खं पति विज्जोतते.

१४. ची क्रियत्थेहि

चीपच्चयन्तो क्रियत्थेहि स्याद्यन्तेहि सहे+कत्थो होति. अमलीनं मलीनं करित्वाति विग्गय्ह ‘‘अभूततब्भावे करा+स+भूयोगे विकाराची’’ति चीपच्चयेकते इमिना समासो. एत्थ च-कारो ‘‘ची क्रियत्थेही’’ति विसेसनत्थो. ‘‘प्यो वा त्वास्स समासे’’ति प्य होति, प-कारो ‘‘प्ये सिस्सा’’ति विसेसनत्थो. मलिनीकरिय.

१५. भूसना+दरा+नादरेस्व+लं+सा+साति

भूसनादीस्व+त्थेस्व+ल+मादयो सद्दा एकत्था होन्ति. अलं करित्वा सक्करित्वा असक्करित्वाति विग्गय्ह समासे कते प्ये च ‘‘सा साधिकरा च चरिच्चा’’ति चादेसो पररूपञ्च. अलंकरिय, सक्कच्च, असक्कच्च.

१६. अञ्ञेचा+ति सुत्तेन समासे कते… एत्थ यथा द्वारं विवराति वुत्ते पकरणतो अग्गल+मिति विञ्ञायति, एव+मिधापि निपातपभावे अञ्ञे चाति सामञ्ञं चे+ति आगमानुसारेन लब्भमानविभत्यन्तपटिरूपनिपाताव विञ्ञायन्ति. अग्गतो भवित्वा पुरोभुय्य, अन्तरहितो हुत्वा तिरोभूय, अन्तरधानं कत्वा तिरोकरिय, उरसि कत्वा उरसिकरिय, मनसि कत्वा मनसिकरिय, मज्झे कत्वा मज्झेकरिय, तुण्ही भवित्वा तुण्ही भूय.

१७. वा+नेक+ञ्ञत्थे

अनेकं स्याद्यन्तं अञ्ञस्स पदस्स अत्थे एकत्थं वा होति.

पदन्तरस्स यस्स+त्थो, पधानं लिङ्ग+मस्स च;

समासो सो+य+मञ्ञत्थो, बहुब्बीहिपरव्हयो.

सो च नवविधो द्विपदो, भिन्नाधिकरणो, तिपदो, न-निपातपुब्बपदो, सहपुब्बपदो, उपमानपुब्बपदो, सङ्ख्योभयपदो, दिसन्तरालत्थो, ब्यतिहारलक्खणो चाति.

१. तत्थ द्विपदो तुल्याधिकरणो कम्मादीसु छसु विभत्यत्थेसु भवति.

(क) तत्थ दुतियत्थे ताव-आगता समणा इमं सङ्घारामन्ति आगतसमणो सङ्घारामो. सो च दुविधो तग्गुणा+तग्गुणवसेन. वुत्तञ्हि –

तग्गुणो+तग्गुणो चे+ति,

सो समासो द्विधा मतो.

तं यथा ‘नीयतं लम्ब-

कण्णो+’ ‘यं दिट्ठसागरो’.

तेसु यत्थ विसेसनभूतो अत्थो अञ्ञपदत्थग्गहणेन गय्हति, सो तग्गुणसंविञ्ञाणो, यथा ‘लम्बकण्ण+मानया’ति. यत्थ पन न गय्हति, सो अतग्गुणसंविञ्ञाणो, यथा ‘बहुधन+मानया’ति.

इध विसेसनस्स पुब्बनिपातो. एत्थ च आगतसद्दो च समणसद्दो च अत्तनो अत्थे अट्ठत्वा दुतियाविभत्यत्थभूते सङ्घारामसङ्खाते अञ्ञपदत्थे वत्तन्ति, ततो समासेनेव कम्मत्थस्स अभिहितत्ता पुन दुतिया न होति. तथा आगतसमणा सावत्थि, आगतसमणं जेतवनं. पटिपन्ना अद्धिका यं पटिपन्नद्धिको पथो, अभिरूळ्हाव, णिजायं नावं सा अभिरूळ्हवाणिजा नावा.

(ख) ततियत्थे-जितानि इन्द्रियानि येन सो जितिन्द्रियो समणो, एवं दिट्ठधम्मो, पत्तधम्मो, कतकिच्चो. विजिता मारा अनेनाति विजितमारो भगवा, पटिविद्धसब्बधम्मो. करणत्थे-छिन्नो रुक्खो येन सो छिन्नरुक्खो फरसु.

(ग) चतुत्थियत्थे-दिन्नो सुङ्को यस्स सो दिन्नसुङ्को राजा, दिन्नं भोजनं अस्साति दिन्नभोजनो.

(घ) पञ्चमियत्थे-निग्गता जना यस्मा सो निग्गतजनो गामो, निग्गतो अयो=सुखं यस्माति निरयो, निक्किले- सो. अपेतं विञ्ञाणं अस्माति अपेतविञ्ञाणो मतकायो, अपगतभयभेरवो अरहा.

(ङ) छट्ठियत्थे-छिन्ना हत्था यस्स सो छिन्नहत्थो. एवं परिपुण्णसङ्कप्पो खीणासवो, वीतो रागो अस्साति वीतरागो. द्वे पदानि अस्साति द्विपदो, द्विहत्थो पटो. तेविज्जोति एत्थ तिविज्जो एवाति सकत्थे णो वुद्धि च. चतुप्पदो, पञ्च चक्खूनि अस्साति पञ्चचक्खु भगवा, छळभिञ्ञो, ‘‘घपस्सा’’दिना रस्सत्तं. नवङ्गं सत्थुसासनं. दसबलो, अनन्तञाणो. तीणि दस परिमाण+मेसंति तिदसा देवा, इध परिमाणसद्दसन्निमानतो दससद्दो सङ्ख्याने वत्तते. अयं पच्चयो एतेसन्ति इदप्पच्चया, उत्तरपदे ‘‘इमस्सि+दं वा’’ति इमस्स इदं. को पभवो अस्साति किं पभवो कायो. विगतं मलं अस्साति विमलो, सुन्दरो गन्धो अस्साति सुगन्धं चन्दनं, एवं सुसीलो, सुमुखो, कुच्छितो गन्धो अस्साति दुग्गन्धं कुणपं, दुम्मुखो, दुट्ठु मनो अस्साति दुम्मनो, एवं दुस्सीलो. तपो एव धनं अस्साति तपोधनो. खन्तिसङ्खातं बलं अस्साति खन्तिबलो. इन्दोति नामं एतस्साति इन्दनामो.

छन्दजातादीसु विसेसनविसेसितब्बानं यथिच्छितत्ता उभयं पुब्बं निपतति, कमातिक्कमे पयोजनाभावा. जातो छन्दो अस्साति जातछन्दो, एवं छन्दजातो. सञ्जातपीतिसोमनस्सो, पीतिसोमनस्ससञ्जातो. मासजातो, जातमासो. छिन्नहत्थो, हत्थछिन्नो.