२५. तादत्थ्ये

तादत्थ्ये चतुत्थी सिया. तदत्थस्स भावे, तादत्थ्यं, तस्मिं तदत्थभावे जोतनीयेव चतुत्थी सिया. तदत्थस्स भावोति निमित्तनिमित्तीसम्बन्धे छट्ठी, तस्मा छट्ठापवादो+यं. समेपि निमित्तनिमित्तीनं सम्बन्धे निमित्तभूतयूपतोव चतुत्थी, नो निमित्तीभूतदारुतो. यूपाय दारु, पाकाय वजति, बुद्धस्सत्थाय जीवितं परिच्चजामि, नेव दवाय, न मदाय, ऊनस्स पारिपूरिया, अत्थाय हिताय सुखाय संवत्तति, लोकानुकम्पाय, फासु विहाराय.

इच्चायं कच्चायने उपरि वक्खमानस्स चतुत्थीति साधितत्ता इध छट्ठीति दीपनत्थं वुच्चते –

कस्स सादु नरुच्चति, मा अयस्मन्तानम्पि सङ्घभेदो रुच्चित्थ, खमति सङ्घस्स, भत्त+मस्स नच्छादेतीति छट्ठी सम्बन्धवचनिच्छायं, न चे+वं विरोधो सिया, सदिसरूपत्ता, एवंविधेसु च सम्बन्धस्स सद्दिकानुमतत्ता. तथा हि भागवुत्तिया ‘‘उपपदविभत्ति छट्ठिया+पवादा’’ति वुत्तं, सद्दन्तरे विहिता विभत्ति उपपदविभत्ति.

कस्स वा त्वं धम्मं रोचेसीति अत्थमत्ते पठमा, कस्स वा तुय्हन्ति अवत्वा कस्स वा त्वं धम्मं रोचेसीति अत्थमत्ते पठमावसेन ब्यभिचारदस्सना. एव+मञ्ञापि विञ्ञेय्या, परतोपि यथागमं.

रञ्ञो सतं धारेति रञ्ञो छत्तं धारेतीति सम्बन्धे छट्ठीव. सिलाघ=कथने, एवं रञ्ञो सिलाघते इच्चादि, थुतिं करोतीत्यत्थो. हनु=अपनयने, रञ्ञो हनुते, वञ्चेतीत्यत्थो. उपतिट्ठेय्य सक्यपुत्तानं वड्ढकी, उपगच्छेय्यात्यत्थो. सप=अक्कोसे, मय्हं सपते, सच्चं कुरुतेत्यत्थो. धर=धारणे, सुवण्णं ते धारयते, इणं ते धारयति, अस्स रञ्ञो नागं धारयाम. पिह=इच्छायं, देवापि तस्स पिहयन्ति तादिनो, तेसं पिहयन्ति सम्बुद्धानं सतीमतं, पिहयन्ति=पत्थेन्ति. तस्स कुज्झ महावीर, यदि+हं तस्स पकुप्पेय्यं, दुभयति दिसानं मेघो, यो मित्तानं न दूभति, यो अप्पदुट्ठस्स नरस्स दुस्सति. इस्स=इस्सायं, तित्थिया इस्सयन्ति समणानं. उसूय=दोसाविकरणे, दुज्जना गुणवन्तानं उस्सूयन्ति, का उसुया विजानतं. इध+सिध+राध+साध=संसिद्धियं, आराधो मे रञ्ञो, रञ्ञो भाग्य+मारज्झति, क्या+हं अय्यानं अपरज्झामि, आयस्मतो उपालित्थेरस्स उपसम्पदापेक्खो उपतिस्सो. भिक्खू भगवतो पच्चस्सोसुं, आसुणन्ति बुद्धस्स भिक्खू, तस्स भिक्खुनो जनोअनुगिणाति, पतिगिणाति, साधुकारदानादिना तं उस्सहतीत्यत्थो. आरोचयामि वो भिक्खवे, पटिवेदयामि वो, आमन्तयामि ते महाराज, धम्मं ते देसिस्सामि, देसेतु भन्ते भगवा धम्मं भिक्खूनं, यथा नो भगवा ब्याकरेय्य, निरुत्तिं ते पवक्खामि, अलं मे रज्जं, अलं भिक्खु पत्तस्स, अलं मल्लो मल्लस्स, अरहति मल्लो मल्लस्स, अलं ते इध वासेन, किं मे एकेन तिण्णेनाति सब्बत्थ सम्बन्धे छट्ठी.

एवं आयु भोतो होतु, चिरं जीवितं, भद्दं, कल्याणं, अत्थं, पयोजनं, कुसलं, अनामयं, हितं, पत्थं, सुखं, सातं, भोतो होतु, साधु सम्मुति मे तस्स, पुत्तस्सा+विकरेय्य गुय्ह+मत्थं, तस्स मे सक्को पातुरहोसि, तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति समणानं आयोगो, एकस्स द्विन्नं तिण्णं वा पहोति, उपमं ते करिस्सामि, अञ्जलिंते पग्गण्हामि, तस्स फासु, लोकस्स+त्थो, नमो ते पुरिसाजञ्ञ, सोत्थि तस्स, समत्थो मल्लो मल्लस्स, तस्स हितं, तस्स सुखं, स्वागतं ते महाराजाति सब्बत्थ सम्बन्धे छट्ठी.