५४. ते+ति+मातो सस्स स्साय
ता+एता+इमातो सस्स स्सायो होति वा. अस्साय नस्साय तिस्साय तस्साय, ‘‘घपते’’च्चादिना यादेसे नाय ताय. नंवचनस्स स+मादेसे तकारस्स च वा टादेसे आसं नासं नासानं तासं तासानं. सत्तमियं अस्सं अस्सा नस्सं नस्सा नायं नाय तिस्सं तिस्सा तस्सं तस्सा तायं ताय, नासु तासु.
नपुंसके नं तं, नानि तानि. नं तं, ने नानि ते तानि. सेसं पुमेव.
‘‘यंतंसद्दा निच्चसम्बन्धा’’ति ञाया यंसद्देन अनियमितत्थं तंसद्दो नियमेति.
पसिद्धे अनुभूतत्थे, पक्कन्तविसये तथा;
यंसद्द+मनपेक्खेव, तंसद्दो युज्जते सदाति –
वुत्तत्ता एत्थेव तंसद्दो यंसद्दं नापेक्खति. यथाक्कमं तत्रि+द+मुदाहरणं –
(.) ‘‘नमो तस्सा’’ति च, (.) ‘‘अग्गिम्प+क्खिना…पे… ञातकारी हि सो जिनो’’ति च, (..) पुरिमगाथाय वुत्तमुनिसद्द+मपेक्खित्वा ‘‘सवासने किलेसे सो’’ति च.
एसो, एते. एसा, एता एतायो, एतं, एतानि इच्चादि ट+नादेसाभावोव विसेसो.
इम सि,