७. किब्बिधानकण्ड

तेकालिक

किच्चप्पच्चयन्तनय

अथ धातूहियेव भावकम्मकत्तुकरणादिसाधनसहितं किब्बिधानमारभीयते.

तत्थ किच्चकितकवसेन दुविधा हि पच्चया, तेसु किच्चसञ्ञाय पठमं वुत्तत्ता, किच्चानमप्पकत्ता च किच्चप्पच्चया ताव वुच्चन्ते.

भू सत्तायं, ‘‘भूयते, अभवित्थ, भविस्सते वा देवदत्तेना’’ति विग्गहे –

‘‘धातुया कम्मादिम्हि णो’’ति इतो ‘‘धातुया’’ति सब्बत्थ पच्चयादिविधाने वत्तते, ‘‘परा, पच्चया’’ति च अधिकारो.

५४५. भावकम्मेसु तब्बानीया.

भावकम्मइच्चेतेस्वत्थेसु सब्बधातूहि तब्ब अनीयइच्चेते पच्चया परा होन्ति. योगविभागेन अञ्ञत्थापि.

तत्थ –

अकम्मकेहि धातूहि, भावे किच्चा भवन्ति ते;

सकम्मकेहि कम्मत्थे, अरहसक्कत्थदीपका.

ते च –

५४६. णादयो तेकालिका.

तिकाले नियुत्ता तेकालिका, ये इध ततिये धात्वाधिकारे विहिता अनिद्दिट्ठकाला णादयो पच्चया, ते तेकालिका होन्तीति परिभासतो कालत्तयेपि होन्ति.

सीहगतिया ‘‘क्वची’’ति वत्तते.

५४७. यथागममिकारो.

यथागमं यथापयोगं जिनवचनानुपरोधेन धातूहि परो इकारागमो होति क्वचि ब्यञ्जनादिकेसु किच्चकितकप्पच्चयेसु, ‘‘अञ्ञेसु चा’’ति वुद्धि, ‘‘ओ अव सरे’’ति अवादेसो, ‘‘नये परं युत्ते’’ति परं नेतब्बं.

५४८. ते किच्चा.

ये इध वुत्ता तब्बानीयण्य तेय्य रिच्चप्पच्चया, ते किच्चसञ्ञा होन्तीति वेदितब्बा. ततो ‘‘अञ्ञे किति’’ति वचनतो किच्चप्पच्चयानमकितकत्ता नामब्यपदेसे असम्पत्ते ‘‘तद्धितसमासकितका नामंवातवेतुनादीसु चा’’ति एत्थ चग्गहणेन नामब्यपदेसो, ततो स्याद्युप्पत्ति. भावे भावस्सेकत्ता एकवचनमेव, ‘‘सि’’न्ति अमादेसो. भवितब्बं भवता पञ्ञेन, भवनीयं.

इध ब्यञ्जनादित्ताभावा अनुवत्तितक्वचिग्गहणेन इकारागमाभावो. भावे किच्चप्पच्चयन्ता नपुंसका. कम्मे तिलिङ्गा.

कम्मनि अभिपुब्बो, अभिभूयते, अभिभूयित्थ, अभिभूयिस्सतेति अभिभवितब्बो कोधो पण्डितेन, अभिभवितब्बा तण्हा, अभिभवितब्बं दुक्खं, एवं अभिभवनीयो, अभिभवनीया, अभिभवनीयं, पुरिस कञ्ञा चित्तसद्दनयेन नेतब्बं, एवं सब्बत्थ.

एत्थ हि –

तब्बादीहेव कम्मस्स, वुत्तत्ताव पुनत्तना;

वत्तब्बस्स अभावा न, दुतिया पठमा ततो.

आस उपवेसने, आसीयित्थ, आसीयते, आसीयिस्सतेति आसितब्बं तया, आसनीयं. कम्मे उपासितब्बो गरु, उपासनीयो.

सी सये, असीयित्थ, सीयते, सीयिस्सतेति सयितब्बं भवता, सयनीयं, ‘‘ए अया’’ति अयादेसो, अतिसयितब्बो परो, अतिसयनीयो.

पद गतिम्हि, उप्पज्जित्थ, उप्पज्जते, उप्पज्जिस्सतेति उप्पज्जितब्बं तेन, उप्पज्जनीयं, एत्थ च ‘‘कत्तरी’’ति अधिकारं विना ‘‘दिवादितो यो’’ति विनाधिकारयोगविभागेन यप्पच्चयो, ‘‘तस्स चवग्गयकार’’इच्चादिना चवग्गो, ‘‘परद्वेभावो ठाने’’ति द्विभावो, पटिपज्जितब्बो मग्गो, पटिपज्जनीयो.

बुध अवगमने, अबुज्झित्थ, बुज्झते, बुज्झिस्सतेति बुज्झितब्बो धम्मो, बुज्झनीयो.

सु सवणे, असूयित्थ, सूयते, सूयिस्सतेति सोतब्बो धम्मो, इध यथागमग्गहणेन इकारागमाभावो, सुणितब्बो, ‘‘स्वादितो णु णा उणा चा’’ति विनाधिकारयोगविभागेन णापच्चयो, सवणीयो.

कर करणे, करीयित्थ, करीयति, करीयिस्सतीति अत्थे तब्बा’नीया.

‘‘अन्तस्स, करस्स, च, तत्त’’न्ति च वत्तते.

५४९. तुं तु न तब्बेसु वा.

करइच्चेतस्स धातुस्स अन्तभूतस्स रकारस्स तकारत्तं होति वा तुं तु न तब्बइच्चेतेसु पच्चयेसु परेसु. कत्तब्बो भवता धम्मो, कत्तब्बा पूजा, कत्तब्बं कुसलं, तत्ताभावे ‘‘करोतिस्सा’’ति वत्तमाने ‘‘तवेतुनादीसु का’’ति एत्थ आदिसद्देन तब्बेपि कादेसो, कातब्बं हितं.

५५०. रहादितो ण.

रकार हहाराद्यन्तेहि धातूहि परस्स अनानीयादिनकारस्स णकारो होति. आदिसद्देन रमु अपञातादितोपि.

रहादितो परस्सेत्थ, नकारस्स असम्भवा;

अनानीयादिनस्सेव, सामथ्यायं णकारता.

करणीयो धम्मो, करणारहोति अत्थो, करणीया, करणीयं.

भर भरणे, भरीयतीति भरितब्बो, भरणीयो.

गह उपादाने, अगय्हित्थ, गय्हति, गय्हिस्सतीति गहेतब्बो, ‘‘तेसु वुद्धी’’तिआदिना इकारस्सेकारो, सङ्गण्हितब्बो, ‘‘गहादितो प्पण्हा’’ति विनाधिकारयोगविभागेन ण्हापच्चयो, हलोपसरलोपादि, सङ्गण्हणीयो, गहणीयो.

आदिग्गहणेन रमु कीळायं, रमीयित्थ, रमीयति, रमीयिस्सतीति रमितब्बो, रमणीयो विहारो.

अप पापुणने, उणापच्चयो, पापीयतीति पापुणितब्बो, ‘‘गुपादीनञ्चा’’ति धात्वन्तस्स लोपो, द्वित्तञ्च, पत्तब्बो, पत्तेय्यो, पापुणणीयो, पापणीयो.

‘‘अन्तस्स, वा’’ति च वत्तते.

५५१. गम खन हनादीनं तुंतब्बादीसु न.

गम खन हनइच्चेवमादीनं मकार नकारन्तानं धातूनमन्तस्स नकारो होति वा तुं तब्ब तवे तुन त्वानत्वाइच्चेवमादीसु तकारादिप्पच्चयेसु परेसु. अगच्छीयित्थ, गच्छीयति, गच्छीयिस्सतीति गन्तब्बो मग्गो, गमितब्बं, गमनीयं.

खनु अवदारणे, अखञ्ञित्थ, खञ्ञति, खञ्ञिस्सतीति खन्तब्बं आवाटं, खनितब्बं, ‘‘क्वचि धातू’’तिआदिना खनन्तस्स णत्तञ्च, खणितब्बं, खणणीयं, खननीयं वा.

हन हिंसा गतीसु, अहञ्ञित्थ, हञ्ञते, हञ्ञिस्सतेति हन्तब्बं, हनितब्बं, हननीयं.

मन ञाणे, अमञ्ञित्थ, मञ्ञते, मञ्ञिस्सतेति मन्तब्बो, मनितब्बो, यप्पच्चये चवग्गादि, मञ्ञितब्बं, मञ्ञनीयं.

पूज पूजायं, अपूजीयित्थ, पूजीयति, पूजीयिस्सतीति अत्थे तब्बानीया. ‘‘चुरादितो णे णया’’ति अकत्तरिपि णेणया, इकारागमानीयेसु ‘‘सरलोपो’’तिआदिना कारितसरस्स लोपो, पूजेतब्बो, पूजयितब्बो, पूजनीयो भगवा.

‘‘तब्बानीया’’ति योगविभागेन कत्तुकरणेसुपि, या पापुणने, निय्यातीति निय्यानीको मग्गो. गच्छन्तीति गमनीया भोगा. नह सोचे, नहायति एतेनाति नहानीयं चुण्णं.

‘‘भावकम्मेसू’’ति अधिकारो.

५५२. ण्यो च.

भावकम्मेसु सब्बधातूहि ण्यप्पच्चयो होति, चग्गहणेन ‘‘ञातेय्य’’न्तिआदीसु तेय्यप्पच्चयो च.

५५३. कारितं विय णानुबन्धो.

अनुबन्धो अप्पयोगी, णकारानुबन्धो पच्चयो कारितं विय दट्ठब्बोति कारितब्यपदेसो, ‘‘कारितानं णो लोप’’न्ति णलोपो, ‘‘असंयोगन्तस्स वुद्धि कारिते’’ति वुद्धि, इकारागमो, कत्तब्बं कारियं.

हर हरणे, अहरीयित्थ, हरीयति, हरीयिस्सतीति वा हरितब्बं हारियं.

भर भरणे, भरितब्बं भारियं.

लभ लाभे, लभितब्बं लब्भं, ‘‘यवतं तलन’’इच्चादिसुत्ते कारग्गहणेन यवतो भकारस्स भकारो, द्वित्तं.

सास अनुसिट्ठिम्हि, सासितब्बो सिस्सो, ‘‘क्वचि धातू’’तिआदिना आकारस्सिकारो.

वच वियत्तियं वाचायं, ण्यप्पच्चयादिम्हि कते ‘‘अन्तानं, णानुबन्धे’’ति च वत्तते.

५५४. कगा चजानं.

चजइच्चेतेसं धात्वन्तानं ककार गकारादेसा होन्ति णकारानुबन्धे पच्चये परेति चस्स कादेसो. वचनीयं वाक्यं.

भज सेवायं, भजनीयं भाग्यं, जस्स गादेसो.

चि चये, अचीयित्थ, चीयति, चीयिस्सतीति चेतब्बं चेय्यं, इकारस्सेकारो वुद्धि, यकारस्स द्वित्तं, विनिपुब्बो ‘‘दो धस्स चा’’ति सुत्ते चग्गहणेन चकारस्स छकारो, विनिच्छेय्यं, विनिच्छितब्बं, विनिच्छनीयं. ‘‘कियादितो ना’’ति विनाधिकारयोगविभागेन तब्बानीय तुं तुना दीसु च नापच्चयो, विनिच्छिनितब्बं, विनिच्छिननीयं.

नी पापुणने, अनीयित्थ, नीयति, नीयिस्सतीति नेय्यो, नेय्या, नेय्यं. नेतब्बं.

ण्यग्गहणं छट्ठीयन्तवसेनानुवत्तते, मण्डूकगतिया अन्तग्गहणञ्च ततियन्तवसेन.

५५५. भूतोब्ब.

भू इच्चेतस्मा परस्स ण्यप्पच्चयस्स सह धात्वन्तेन अब्बादेसो होति. भवितब्बो भब्बो, भब्बा, भब्बं.

‘‘ण्यस्स, अन्तेना’’ति च वत्तते.

५५६. वद मद गमु युज गरहाकारादीहि ज्जम्मग्गय्हेय्यागारो वा.

वद मद गमु युज गरहइच्चेवमादीहि धातूहि, आकारन्तेहि च परस्स ण्यप्पच्चयस्स धात्वन्तेन सह यथाक्कमं ज्ज म्म ग्ग य्ह ए य्यइच्चेते आदेसा होन्ति वा, गरस्स च गारादेसो, गरहस्स गरस्सेवायं गारो. ववत्थितविभासत्थोयं वासद्दो.

वद वियत्तियं वाचायं, अवज्जित्थ, वज्जति, वज्जिस्सतीति वा वज्जं वदनीयं, रस्सत्तं. वज्जं दोसो.

मद उम्मादे, अमज्जित्थ, मज्जते, मज्जिस्सति एतेनाति मज्जं मदनीयं. मदग्गहणेन करणेपि ण्यप्पच्चयो. गमु सप्प गतिम्हि, गन्तब्बं गम्मं.

युज योगे, अयुज्जित्थ, युज्जते, युज्जिस्सतीति योग्गं, नियोज्जो वा.

गरह निन्दायं, अगरय्हित्थ, गरहीयति, गरहीयिस्सतीति अत्थे ण्यप्पच्चयो, तस्सिमिना धात्वन्तेन सह य्हादेसो, गरस्स गारादेसो च, गारय्हो, गारय्हा, गारय्हं, गरहणीयं.

आदिसद्देन अञ्ञेपि दमजहन्ता गय्हन्ते. गद वियत्तियं वाचायं, गज्जते, गदनीयं वा गज्जं. पद गतिम्हि, पज्जनीयं पज्जं गाथा. खाद भक्खणे, खज्जतेति खज्जं खादनीयं. दमु दमने, अदम्मित्थ, दम्मते, दमीयिस्सतीति दम्मो दमनीयो. भुज पालनब्यवहरणेसु, अभुज्जित्थ, भुज्जति, भुज्जिस्सतीति भोग्गं, भोज्जं वा, कारग्गहणेन यस्स जकारो. गहेतब्बं गय्हमिच्चादि.

आकारन्ततो पन दा दाने, अदीयित्थ, दीयति, दीयिस्सतीति अत्थे ण्यप्पच्चयो, तस्सिमिना धात्वन्तेन आकारेन सह एय्यादेसो, देय्यं, दातब्बं. अनीये ‘‘सरलोपो’’तिआदिना पुब्बसरस्स लोपे सम्पत्ते तत्थेव तुग्गहणेन निसेधेत्वा ‘‘सरा सरे लोप’’न्ति आकारे लुत्ते परसरस्स दीघो, दानीयं.

पा पाने, अपीयित्थ, पीयति, पीयिस्सतीति पेय्यं, पातब्बं, पानीयं. हा चागे, अहीयित्थ, हीयति, हीयिस्सतीति हेय्यं, हातब्बं, हानीयं. मा माने, अमीयित्थ, मीयति, मीयिस्सतीति मेय्यं, मातब्बं, मिनितब्बं, मेतब्बं वा. ञा अवबोधने, अञ्ञायित्थ, ञायति, ञायिस्सतीति ञेय्यं, ञातब्बं, ञातेय्यं. ‘‘ञास्स जा जं ना’’ति जादेसे ‘‘कियादितो ना’’ति विनाधिकारयोगविभागेन नापच्चयो, इकारागमो च, जानितब्बं, विजाननीयं. ख्यापकथने, सङ्ख्यातब्बं, सङ्ख्येय्यं इच्चादि.

५५७. करम्हा रिच्च.

करधातुतो रिच्चप्पच्चयो होति भावकम्मेसु.

५५८. रम्हि रन्तो रादि नो.

रकारानुबन्धे पच्चये परे सब्बो धात्वन्तो रादि पच्चयरकारमरियादो नो होति, लोपमापज्जतेति अत्थो. रन्तोति एत्थ रकारो सन्धिजो, कत्तब्बं किच्चं. ‘‘रिच्चा’’ति योगविभागेन भरादितोपि रिच्चप्पच्चयो, यथा, भरीयतीति भच्चो, सरलोपो. इ गतिम्हि, पति एतब्बो पटिच्चो.

५५९. पेसातिसग्गपत्तकालेसु किच्चा.

पेस अतिसग्ग पत्तकालइच्चेतेस्वत्थेसु किच्चप्पच्चया होन्ति. पेसनं नाम ‘‘कत्तब्बमिदं भवता’’ति आणापनं, अज्झेसनञ्च. अतिसग्गोनाम ‘‘किमिदं मया कत्तब्ब’’न्ति पुट्ठस्स वा ‘‘पाणो न हन्तब्बो’’तिआदिना पटिपत्तिदस्सनमुखेन वा कत्तब्बस्स अनुञ्ञा. पत्तकालो नाम सम्पत्तसमयो यो अत्तनो किच्चकरणसमयमनुपपरिक्खित्वा न करोति, तस्स समयारोचनं, न तत्थ अज्झेसनमत्थीति. ते च ‘‘भावकम्मेसु किच्चत्तक्खत्था’’ति वुत्तत्ता भावकम्मेस्वेव भवन्ति.

पेसने ताव – करीयतु भवता कम्मन्ति अत्थे इमिना तब्बानीया, सेसं वुत्तनयमेव, कत्तब्बं कम्मं भवता, करणीयं किच्चं भवता.

अतिसग्गे भुज्जतु भवताति अत्थे तब्बादि, ‘‘अञ्ञेसु चा’’ति वुद्धि.

‘‘तस्सा’’ति वत्तते.

५६०. भुजादीनमन्तो नो द्वि च.

भुजइच्चेवमादीनं जकारादिअन्तानं धातूनमन्तो नो होति, परस्स किच्चकितकप्पच्चयतकारस्स च द्वेभावो होति. भोत्तब्बं भोजनं भवता, भोजनीयं भोज्जं भवता.

इकारागमयुत्ततकारे पन – ‘‘नमकरानमन्तानं नियुत्ततम्ही’’ति एत्थ ‘‘अन्तानं नियुत्ततम्ही’’ति योगविभागेन धात्वन्तलोपादिनिसेधो, ‘‘रुधादितो निग्गहीतपुब्ब’’न्ति विनाधिकारयोगविभागेन, ‘‘निग्गहीतञ्चा’’ति वा निग्गहीतागमो, भुञ्जितब्बं तया, युञ्जितब्बं.

समयारोचने पन – इ अज्झयने अधिपुब्बो, अधीयतं भवताति अत्थे तब्बानीयादि, इकारागमवुद्धिअयादेसअज्झादेसा च, ण्यप्पच्चये तु वुद्धि, यकारस्स द्वित्तञ्च, अज्झयितब्बं, अज्झेय्यं भवता, अज्झयनीयं भवता, अवस्सं कत्तब्बन्ति वाक्ये पन ‘‘किच्चा’’ति अधिकिच्च ‘‘अवस्सकाधमिणेसु णी चा’’ति अवस्सकाधमिणत्थे च तब्बादयो, कत्तब्बं मे भवता गेहं, करणीयं, कारियं. एवं दातब्बं मे भवता सतं, दानीयं, देय्यं.

धर धारणे, चुरादित्ता णेणया, वुद्धि, इकारागमो च, धारेतब्बं, धारयितब्बं इच्चादि.

‘‘नुदादीहि युण्वूनमनाननाकाननका सकारितेहि चा’’ति सकारितेहिपि युण्वूनमादेसविधानतोयेव धातुप्पच्चयन्ततोपि किच्चकितकप्पच्चया भवन्तीति दट्ठब्बो. तेन तितिक्खापीयतीति तितिक्खापेतब्बो. एवं तिकिच्छापेतब्बो तिकिच्छापनीयो. अभावीयित्थ, भावीयति, भावीयिस्सतीति भावेतब्बो मग्गो. भावयितब्बो, भावनीयो, भावनीयं, भावनीया, अकारीयित्थ, कारीयति, कारीयिस्सतीति कारेतब्बं, कारयितब्बं, कारापेतब्बं, कारापयितब्बं, कारापनीयमिच्चादि च सिद्धं भवति.

कत्तब्बं करणीयञ्च, कारियं किच्चमिच्चपि;

कारेतब्बं तथा कारा-पेतब्बं किच्चसङ्गहो.

किच्चप्पच्चयन्तनयो.

तेकालिक

कितकप्पच्चयन्तनय

इदानि कितकप्पच्चया वुच्चन्ते.

कर करणे, पुरे विय धातुसञ्ञादि.

कुम्भइच्चुपपदं, ततो दुतिया.

‘‘कुम्भं करोति, अकासि, करिस्सती’’ति वा विग्गहे –

‘‘परा, पच्चया’’ति च वत्तते.

५६१. धातुया कम्मादिम्हि णो.

कम्मस्मिं आदिम्हि सति धातुया परो णप्पच्चयो होति.

सो च –

५६२. अञ्ञे कित.

ततिये धात्वाधिकारे विहिता किच्चेहि अञ्ञे पच्चया कितिच्चेव सञ्ञा होन्तीति कितसञ्ञा कता.

५६३. कत्तरि कित.

कत्तरि कारके कितपच्चयो होतीति नियमतो कत्तरि भवति, सो च ‘‘णादयो तेकालिका’’ति वुत्तत्ता कालत्तये च होति. पुरे विय कारितब्यपदेसणलोपवुद्धियो, पच्चयन्तस्सालिङ्गत्ता स्यादिम्हि असम्पत्ते ‘‘तद्धितसमासकितका नामंवातवेतुनादीसु चा’’ति कितकन्तत्ता नामंव कते स्याद्युप्पत्ति, ततो कुम्भं करोतीति अत्थे ‘‘अमादयो परपदेभी’’ति दुतियातप्पुरिससमासो, ‘‘नामान’’न्तिआदिना समाससञ्ञा, ‘‘तेसं विभत्तियो लोपा चा’’ति विभत्तिलोपो, ‘‘पकति चस्स सरन्तस्सा’’ति पकतिभावो, पुन समासत्ता नाममिव कते स्याद्युप्पत्ति.

सो कुम्भकारो, ते कुम्भकारा इच्चादि. इत्थियं कुम्भकारी, कुम्भकारियो इच्चादि, तथा कम्मं करोतीति कम्मकारो. एवं मालाकारो, कट्ठकारो, रथकारो, सुवण्णकारो, सुत्तकारो, वुत्तिकारो, टीकाकारो.

गह उपादाने, पत्तं अगण्हि, गण्हाति, गण्हिस्सतीति वा पत्तग्गाहो. एवं रस्मिग्गाहो, रज्जुग्गाहो.

वे तन्तसन्ताने, तन्तं अवायि, वायति, वायिस्सतीति वा तन्तवायो, ‘‘ते आवाया कारिते’’ति आयादेसो, वाक्ये पनेत्थ ‘‘ते आवाया’’ति योगविभागेन आयादेसो. एवं तुन्नवायो.

मा परिमाणे, धञ्ञं अमिनि, मिनाति, मिनिस्सतीति वा अत्थे णप्पच्चये कते –

‘‘णम्ही’’ति वत्तते.

५६४. आकारन्तानमायो.

आकारन्तानं धातूनं अन्तस्स आयादेसो होति णकारानुबन्धे पच्चये परे, सरलोपादि. धञ्ञमायो. एवं दानं ददातीति दानदायो.

कमु कन्तिम्हि, धम्मं अकामयि, कामयति, कामयिस्सतीति वा धम्मकामो पुरिसो, धम्मकामा कञ्ञा, धम्मकामं चित्तं. एवं अत्थकामो, हितकामो, सुखकामो, धम्मं पालेतीति धम्मपालो इच्चादि.

दमु दमने, ‘‘अरिं अदमि, दमेति, दमिस्सती’’ति विग्गहे ‘‘धातुया’’ति अधिकारो, ‘‘कम्मादिम्ही’’ति च वत्तते.

५६५. सञ्ञायमनु.

कम्मूपपदे आदिम्हि सति सञ्ञायं गम्यमानायं धातुया अप्पच्चयो होति, उपपदन्ते नुकारागमो च. एत्थ च ‘‘नु निग्गहीतं पदन्ते’’ति सुत्ते ‘‘पदन्ते’’ति वचनतो उपपदन्तेयेव नुकारागमो होतीति दट्ठब्बं. ‘‘तेसु वुद्धी’’तिआदिना उकारलोपो. अयं पन न्वागमो समासं कत्वा उपपदविभत्तिलोपे कतेयेव होतीति वेदितब्बं.

५६६. नु निग्गहीतं पदन्ते.

उपपदभूतनामपदन्ते वत्तमानो नुकारागमो निग्गहीतमापज्जते, निग्गहीतस्स वग्गन्तत्तं, सेसं समं, वुद्धाभावोव विसेसो, अरिन्दमो राजा.

तथा तर तरणे, वेस्सं तरतीति वेस्सन्तरो, तण्हं करोति हिंसतीति तण्हङ्करो भगवा. एवं मेधङ्करो, सरणङ्करो, दीपङ्करो.

‘‘आदिम्हि, अ’’इति च वत्तते.

५६७. पुरे ददा च इं.

पुरसद्दे आदिम्हि सति ‘‘दद दाने’’इच्चेताय धातुया अप्पच्चयो होति, पुरसद्दे अकारस्स इञ्च होति. एत्थ च ‘‘तदनुपरोधेना’’ति परिभासतो पुरसद्दन्तस्सेव इं होतीति दट्ठब्बं. णादीनं तेकालिकत्तेपि उपपदत्थविसेसेन अतीतेयेवायमप्पच्चयो होतीति दट्ठब्बं. पुरे दानं अददीति पुरिन्ददो सक्को. इधापि विभत्तिलोपे कतेयेव इंआदेसो.

‘‘कम्मादिम्हि, अ’’इति च वत्तते.

५६८. सब्बतो ण्वु त्वावी वा.

सब्बतो धातुतो कम्मादिम्हि वा अकम्मादिम्हि वा सति अ ण्वु तु आवी इच्चेते चत्तारो पच्चया होन्ति. वाग्गहणं ‘‘अकम्मादिम्हि वा’’ति विकप्पनत्थं.

अप्पच्चये ताव – धर धारणे, धम्मं अधरि, धरति, धरिस्सतीति वा धम्मधरो. एवं विनयधरो. तथा तं करोतीति तक्करो, द्वित्तं. एवं हितकरो, दिवसकरो, दिनकरो, दिवाकरो, निसाकरो, धनुं गण्हातीति धनुग्गहो. एवं कटग्गहो, सब्बकामं ददातीति सब्बकामददो, सब्बददो.

आतो पन – अन्नं अदासि, ददाति, ददिस्सतीति अन्नदो. एवं धनदो, सच्चं सन्दहतीति सच्चसन्धो. पा पाने, मज्जं पिवतीति मज्जपो. ता पालने, गवं सद्दं तायतीति गोत्तं. एवं कत्तरि.

अकम्मादिम्हि पन ‘‘यस्मा दपेती’’ति सुत्ते भयग्गहणेन सेससाधनेपि अप्पच्चयो.

नी पापुणने विपुब्बो, विनेसि, विनेति, विनेस्सति एतेन, एत्थाति वा विनयो, ‘‘अञ्ञेसु चा’’ति वुद्धि, अयादेसो च, नयनं नयो. सि सेवायं निपुब्बो, निस्सीयित्थ, निस्सीयति, निस्सीयिस्सतीति वा निस्सयो. सि सये, अनुसयि, अनुसेति, अनुसेस्सतीति वा अनुसयो.

इ गतिम्हि पतिपुब्बो, पटिच्च एकस्मा फलमेतीति पच्चयो, समुदयो. चि चये, विनिच्छीयते अनेन, विनिच्छयनं वा विनिच्छयो, उच्चयनं उच्चयो, सञ्चयो, धम्मं विचिनातीति धम्मविचयो. खी खये, खयनं खयो. जि जये, विजयनं विजयो, जयो. की दब्बविनिमये, विक्कयनं विक्कयो, कयो. ली सिलेसने, अल्लीयति एत्थाति आलयो, लयो. एवं इवण्णन्ततो.

आसुणन्तीति अस्सवा, अवादेसो, पटिस्सवनं पटिस्सवो. सु गतिम्हि, आभवग्गा सवन्तीति आसवा. रु सद्दे, रवतीति रवो. भवतीति भवो. पभवति एतस्माति पभवो. लू छेदने, लवनं लवो. एवं उवण्णन्ततो.

निग्गण्हाति, निग्गहणं वा निग्गहो, पग्गहो, सङ्गण्हाति तेन, सङ्गहणं वा सङ्गहो. वर वरणे, संवरणं संवरो. दर आदरे, आदरणं आदरो. आगच्छति, आगमनन्ति वा आगमो, आगमीयन्ति एत्थ, एतेन वा अत्थाति आगमो परियत्ति. सप्पतीति सप्पो. दिब्बतीति देवो. कमु पदविक्खेपे, पक्कमनं, पक्कमतीति वा पक्कमो. एवं विक्कमो.

चर चरणे, वने चरतीति वनचरो, कामो अवचरति एत्थाति कामावचरो लोको, कामावचरा सञ्ञा, कामावचरं चित्तं. गावो चरन्ति एत्थाति गोचरो, छट्ठीतप्पुरिसो.

पादेन पिवतीति पादपो. एवं कच्छपो, ततियातप्पुरिसो.

रुह जनने, सिरस्मिं रुहतीति सिरोरुहो, गुहायं सयतीति गुहासयं चित्तं. एवं कुच्छिसया वाता. ठा गतिनिवत्तिम्हि, पब्बते अट्ठासि, तिट्ठति, ठस्सतीति वा पब्बतट्ठो पुरिसो, पब्बतट्ठा नदी, पब्बतट्ठं ओसधं. एवं थलट्ठं, जलट्ठं, सत्तमीतप्पुरिसो.

५६९. गहस्सुपधस्से वा.

गहइच्चेतस्स धातुस्स उपधस्स एत्तं होति वा, उपधाति अन्तक्खरतो पुब्बक्खरस्स परसमञ्ञा, गय्हतीति गेहं, गहं वा.

ण्वुप्पच्चये रथं करोतीति अत्थे ण्वुप्पच्चयो, सो च ‘‘अञ्ञे कित’’ति कितसञ्ञत्ता ‘‘कत्तरि कित’’ति कत्तरियेव भवति, ततो कारितब्यपदेस णलोपवुद्धियो.

५७०. अनका युण्वूनं.

युण्वुइच्चेतेसं पच्चयानं अन अकइच्चेते आदेसा होन्तीति अकादेसो. सेसं कुम्भकारसद्दसमं, रथकारको. तथा अन्नं ददातीति अन्नदायको, ‘‘आकारन्तानमायो’’ति आयादेसो, ‘‘इत्थियमतो आपच्चयो’’ति आपच्चयो, ‘‘तेसु वुद्धी’’तिआदिना अकारस्स इकारो, अन्नदायिका कञ्ञा, अन्नदायकं कुलं. लोकं नेतीति लोकनायको, विनेति सत्तेति विनायको, ‘‘ते आवाया कारिते’’ति आयादेसो.

अकम्मूपपदे करोतीति कारको, कारिका, कारकं. ददातीति दायको, दायिका, दायकं. नेतीति नायको, नायिका, नायकं. भगवतो ओवादानुसासनिं असुणि, सुणाति, सुणिस्सतीति वा सावको, साविका, आवादेसो. लुनातीति लावको. पु पवने, पुनातीति पावको, भवतीति भावको, उपासतीति उपासको, उपासिका. गण्हातीति गाहको.

पचतीति पाचको. अयजि, यजति, यजिस्सतीति वा याजको. एत्थ हि ‘‘कगा चजान’’न्ति चजानं कगत्ते सम्पत्ते –

५७१. न कगत्तं चजा ण्वुम्हि.

धात्वन्तभूता चकारजकारा ककार गकारत्तं नापज्जन्ते ण्वुप्पच्चये परेति पटिसिद्धत्ता न भवति.