६. आख्यातकण्ड

भूवादिगण

विभत्तिविधान

अथ आख्यातविभत्तियो क्रियावाचीहि धातूहि परा वुच्चन्ते.

तत्थ क्रियं आचिक्खतीति आख्यातं, क्रियापदं. वुत्तञ्हि ‘‘कालकारकपुरिसपरिदीपकं क्रियालक्खणमाख्यातिक’’न्ति. तत्थ कालोति अतीतादयो, कारकमिति कम्मकत्तुभावा, पुरिसाति पठममज्झिमुत्तमा, क्रियाति गमनपचनादिको धात्वत्थो, क्रियालक्खणं सञ्ञाणं एतस्साति क्रियालक्खणं, अतिलिङ्गञ्च.

वुत्तम्पि चेतं –

‘‘यं तिकालं तिपुरिसं, क्रियावाचि तिकारकं;

अतिलिङ्गं द्विवचनं, तदाख्यातन्ति वुच्चती’’ति.

कालादिवसेन धात्वत्थं विभजन्तीति विभत्तियो, त्यादयो, ता पन वत्तमाना पञ्चमी सत्तमी परोक्खाहिय्यत्तनी अज्जतनी भविस्सन्ती कालातिपत्ति चाति अट्ठविधा भवन्ति.

क्रियं धारेन्तीति धातवो, भूवादयो, खादिधातुप्पच्चयन्ता च, ते पन अत्थवसा द्विधा भवन्ति सकम्मका, अकम्मका चाति. तत्र सकम्मका ये धातवोकम्मापेक्खं क्रियं वदन्ति, यथा – कटं करोति, गामं गच्छति, ओदनं पचतीतिआदयो, अकम्मका ये कम्मनिरपेक्खं क्रियं वदन्ति, यथा – अच्छति, सेति, तिट्ठतीतिआदयो.

ते पन सत्तविधा भवन्ति विकरणप्पच्चयभेदेन, कथं? अविकरणा भूवादयो. निग्गहीतपुब्बकअविकरणा रुधादयो, यविकरणा दिवादयो, णुणा उणाविकरणा स्वादयो, नाप्पण्हाविकरणा कियादयो, ओयिरविकरणा तनादयो, सकत्थे णे णयन्ता चुरादयोति.

तत्थ पठमं अविकरणेसु भूवादीसु धातूसु पठमभूता अकम्मका भूइच्चेतस्मा धातुतो त्यादयो परा योजीयन्ते.

भूसत्तायं, ‘‘भू’’इच्चयं धातु सत्तायमत्थे वत्तते, क्रियासामञ्ञभूते भवने वत्ततेति अत्थो.

‘‘भू’’इति ठिते –

४२४. भूवादयो धातवो.

भूइच्चेवमादयो ये क्रियावाचिनो सद्दगणा, ते धातुसञ्ञा होन्ति. भू आदि येसं ते भूवादयो, अथ वा भूवा आदी पकारा येसं ते भूवादयो.

भूवादीसु वकारोयं, ञेय्यो आगमसन्धिजो;

भूवाप्पकारा वा धातू, सकम्माकम्मकत्थतो.

‘‘क्वचि धातू’’तिआदितो ‘‘क्वची’’ति वत्तते.

४२५. धातुस्सन्तो लोपोनेकस्सरस्स.

अनेकस्सरस्स धातुस्स अन्तो क्वचि लोपो होति.

क्वचिग्गहणं ‘‘महीयति समथो’’तिआदीसु निवत्तनत्थं, इति अनेकस्सरत्ताभावा इध धात्वन्तलोपो न होति.

ततो धात्वाधिकारविहितानेकप्पच्चयप्पसङ्गे ‘‘वत्तिच्छानुपुब्बिका सद्दप्पटिपत्ती’’ति कत्वा वत्तमानवचनिच्छायं –

४२६. वत्तमाना तिअन्ति, सिथ, मिम, तेअन्ते, सेव्हे, एम्हे.

त्यादयो द्वादस वत्तमानासञ्ञा होन्तीति त्यादीनं वत्तमानत्थविसयत्ता वत्तमानासञ्ञा.

४२७. काले.

अयमधिकारो.

इतो परं त्यादिविभत्तिविधाने सब्बत्थ वत्तते.

४२८. वत्तमाना पच्चुप्पन्ने.

पच्चुप्पन्ने काले गम्यमाने वत्तमानाविभत्ति होति, कालोति चेत्थ क्रिया, करणं कारो, रकारस्स लकारो, कालो.

तस्मा –

क्रियाय गम्यमानाय, विभत्तीनं विधानतो;

धातूहेव भवन्तीति, सिद्धं त्यादिविभत्तियो.

इध पन कालस्स अतीतानागतपच्चुप्पन्नाणत्तिपरिकप्पकालाभिपत्तिवसेन छधा भिन्नत्ता ‘‘पच्चुप्पन्ने’’ति विसेसेति. तं तं कारणं पटिच्च उप्पन्नो पच्चुप्पन्नो, पटिलद्धसभावो, न ताव अतीतोति अत्थो.

पच्चुप्पन्नसमीपेपि, तब्बोहारूपचारतो;

वत्तमाना अतीतेपि, तंकालवचनिच्छयाति.

तस्मिं पच्चुप्पन्ने वत्तमानाविभत्तिं कत्वा, तस्सा ठानानियमे ‘‘धातुलिङ्गेहि परा पच्चया’’ति परिभासतो धातुतो परं वत्तमानप्पच्चये कत्वा, तेसमनियमप्पसङ्गेसति ‘‘वत्तिच्छानुपुब्बिका सद्दप्पटिपत्ती’’ति परस्सपदवचनिच्छायं –

४२९. अथ पुब्बानि विभत्तीनं छ परस्सपदानि.

अथ तद्धितानन्तरं वुच्चमानानं सब्बासं वत्तमानादीनं अट्ठविधानं विभत्तीनं यानि यानि पुब्बकानि छ पदानि, तानि तानि अत्थतो अट्ठचत्तालीसमत्तानि परस्सपदसञ्ञानि होन्तीतिआदिम्हि छन्नं परस्सपदसञ्ञा, परस्सत्थानि पदानि परस्सपदानि, तब्बाहुल्लतो तब्बोहारो.

‘‘धातूहि णे णय’’इच्चादितो ‘‘धातूही’’ति वत्तमाने –

४३०. कत्तरि परस्सपदं.

कत्तरिकारके अभिधेय्ये सब्बधातूहि परस्सपदं होतीति परस्सपदं कत्वा, तस्साप्यनियमप्पसङ्गे वत्तिच्छावसा –

विपरिणामेन ‘‘परस्सपदानं, अत्तनोपदान’’न्ति च वत्तते.

४३१. द्वे द्वे पठममज्झिमुत्तमपुरिसा.

तासं विभत्तीनं परस्सपदान’मत्तनोपदानञ्च द्वे द्वे वचनानि यथाक्कमं पठममज्झिमुत्तमपुरिससञ्ञानि होन्ति. तं यथा? ति अन्तिइति पठमपुरिसा, सि थइति मज्झिमपुरिसा, मि मइति उत्तमपुरिसा. अत्तनोपदेसुपि ते अन्तेइति पठमपुरिसा, से व्हेइति मज्झिमपुरिसा, ए म्हेइति उत्तमपुरिसा. एवं सेसासु सत्तसु विभत्तीसुपि योजेतब्बन्ति. एवं अट्ठविभत्तिवसेन छन्नवुतिविधे आख्यातपदे द्वत्तिंस द्वत्तिंस पठममज्झिमउत्तमपुरिसा होन्तीति वत्तमानपरस्सपदादिम्हि द्विन्नं पठमपुरिससञ्ञा.

४३२. नामम्हि पयुज्जमानेपितुल्याधिकरणे पठमो.

तुम्हाम्हसद्दवज्जिते तुल्याधिकरणभूते साधकवाचके नामम्हि पयुज्जमानेपि अप्पयुज्जमानेपि धातूहि पठमपुरिसो होतीति पठमपुरिसं कत्वा, तस्साप्यनियमप्पसङ्गे क्रियासाधकस्स कत्तुनो एकत्ते वत्तुमिच्छिते ‘‘एकम्हि वत्तब्बे एकवचन’’न्ति वत्तमानपरस्सपदपठमपुरिसेकवचनं ति.

‘‘परो, पच्चयो, धातू’’ति च अधिकारो, ‘‘यथा कत्तरि चा’’ति इतो ‘‘कत्तरी’’ति विकरणप्पच्चयविधाने सब्बत्थ वत्तते.

४३३. भूवादितो अ.

भूइच्चेवमादितो धातुगणतो परो अपच्चयो होति कत्तरि विहितेसु विभत्तिप्पच्चयेसु परेसु. सब्बधातुकम्हियेवायमिस्सते.

‘‘असंयोगन्तस्स, वुद्धी’’ति च वत्तते.

४३४. अञ्ञेसु च.

कारिततो अञ्ञेसु पच्चयेसु असंयोगन्तानं धातूनं वुद्धि होति. चग्गहणेन णुप्पच्चयस्सापि वुद्धि होति. एत्थ च ‘‘घटादीनं वा’’ति इतो वासद्दो अनुवत्तेतब्बो, सो च ववत्थितविभासत्थो. तेन –

इवण्णुवण्णन्तानञ्च, लहूपन्तान धातुनं;

इवण्णुवण्णानमेव, वुद्धि होति परस्स न.

युवण्णानम्पि य णु णा-नानिट्ठादीसु वुद्धि न;

तुदादिस्साविकरणे, न छेत्वादीसु वा सिया.

तस्साप्यनियमप्पसङ्गे – ‘‘अयुवण्णानञ्चायो वुद्धी’’ति परिभासतो ऊकारस्सोकारो वुद्धि.

विपरिणामेन ‘‘धातून’’न्ति वत्तते.

४३५. ओ अव सरे.

ओकारस्स धात्वन्तस्स सरे परे अवादेसो होति. ‘‘सरलोपो मादेस’’इच्चादिना सरलोपादिम्हि कते ‘‘नये परं युत्ते’’ति परनयनं कातब्बं.

सो पुरिसो साधु भवति, सा कञ्ञा साधु भवति, तं चित्तं साधु भवति.

एत्थ हि –

कत्तुनोभिहितत्ताव, आख्यातेन न कत्तरि;

ततिया पठमा होति, लिङ्गत्थं पनपेक्खिय.

सतिपि क्रियायेकत्ते कत्तूनं बहुत्ता ‘‘बहुम्हि वत्तब्बे बहुवचन’’न्ति वत्तमानपरस्सपदपठमपुरिसबहुवचनं अन्ति, पुरे विय अप्पच्चयवुद्धिअवादेसा, सरलोपादि. ते पुरिसा भवन्ति, अप्पयुज्जमानेपि भवति, भवन्ति.

‘‘पयुज्जमानेपि, तुल्याधिकरणे’’ति च वत्तते.

४३६. तुम्हे मज्झिमो.

तुल्याधिकरणभूते तुम्हसद्दे पयुज्जमानेपि अप्पयुज्जमानेपि धातूहि मज्झिमपुरिसो होतीति वत्तमानपरस्सपदमज्झिमपुरिसेकवचनंसि, सेसं पुरिमसमं. त्वं भवसि, तुम्हे भवथ, अप्पयुज्जमानेपि भवसि, भवथ.

तुल्याधिकरणेति किमत्थं? तया पच्चते ओदनो.

तस्मिंयेवाधिकारे –

४३७. अम्हे उत्तमो.

तुल्याधिकरणभूते अम्हसद्दे पयुज्जमानेपि अप्पयुज्जमानेपि धातूहि उत्तमपुरिसो होतीति वत्तमानपरस्सपदउत्तमपुरिसेकवचनं मि, अप्पच्चयवुद्धिअवादेसा.

४३८. अकारो दीघं हिमिमेसु.

अकारो दीघमापज्जते हिमिमइच्चेतासु विभत्तीसु. अहं भवामि, मयं भवाम. भवामि, भवाम.

‘‘विभत्तीनं, छा’’ति च वत्तते.

४३९. पराण्यत्तनोपदानि.

सब्बासं वत्तमानानं अट्ठविधानं विभत्तीनं यानि यानि परानि छ पदानि, तानि तानि अत्तनोपदसञ्ञानि होन्तीति तेआदीनं अत्तनोपदसञ्ञा.

‘‘धातूहि, अत्तनोपदानी’’ति च वत्तते.

४४०. कत्तरि च.

कत्तरि च कारके अभिधेय्ये धातूहि अत्तनोपदानि होन्ति. चग्गहणं कत्थचि निवत्तनत्थं, सेसं परस्सपदे वुत्तनयेनेव वेदितब्बं. भवते, भवन्ते, भवसे, भवव्हे, भवे, भवाम्हे.

पच पाके, धातुसञ्ञायं धात्वन्तलोपो, वुत्तनयेनेव त्याद्युप्पत्ति, इवण्णुवण्णानमभावा वुद्धिअभावोवेत्थ विसेसो. सो देवदत्तो ओदनं पचति, पचन्ति, पचसि, पचथ, पचामि, पचाम, सो ओदनं पचते, ते पचन्ते, त्वं पचसे, तुम्हे पचव्हे, अहं पचे, मयं पचाम्हे.

पठमपुरिसादीनमेकज्झप्पवत्तिप्पसङ्गे परिभासमाह –

४४१. सब्बेसमेकाभिधाने परो पुरिसो.

सब्बेसं पठममज्झिमानं, पठमुत्तमानं, मज्झिमुत्तमानं तिण्णं वा पुरिसानं एकतोभिधाने कातब्बे परो पुरिसो योजेतब्बो. एककालानमेवाभिधाने चायं. सो च पचति, त्वञ्च पचसीति परियायप्पसङ्गे तुम्हे पचथाति भवति. एवं सो च पचति, अहञ्च पचामीति मयं पचाम, तथा त्वञ्च पचसि, अहञ्च पचामि, मयं पचाम, सो च पचति, त्वञ्च पचसि, अहञ्च पचामि, मयं पचाम. एवं सब्बत्थ योजेतब्बं.

एकाभिधानेति किमत्थं? ‘‘सो च पचति, त्वञ्च पचिस्ससि, अहं पचिं’’ एत्थ भिन्नकालत्ता ‘‘मयं पचिम्हा’’ति न भवति.

गमु सप्प गतिम्हि, पुरे विय धातुसञ्ञायं धात्वन्तलोपो.

कत्तरि त्याद्युप्पत्ति.

४४२. गमिस्सन्तो च्छो वा सब्बासु.

गमुइच्चेतस्स धातुस्सन्तो मकारो च्छो होति वा सब्बासु विभत्तीसु, सब्बग्गहणेन मानन्त य कारितप्पच्चयेसु च. ववत्थितविभासत्थोयं वासद्दो. तेनायं –

विधिं निच्चञ्च वासद्दो, मान’न्तेसु तु कत्तरि;

दीपेतानिच्चमञ्ञत्थ, परोक्खायमसन्तकं.

अप्पच्चयपरनयनानि, सो पुरिसो गामं गच्छति, ते गच्छन्ति, ‘‘क्वचि धातू’’तिआदिना गरुपुब्बरस्सतो परस्स पठमपुरिसबहुवचनस्स रे वा होति, गच्छरे. त्वं गच्छसि, तुम्हे गच्छथ. अहं गच्छामि, मयं गच्छाम.

च्छादेसाभावे ‘‘लोपञ्चेत्तमकारो’’ति अप्पच्चयस्स एकारो. गमेति, गमेन्ति, सरलोपो. गमेसि, गमेथ. गमेमि, गमेम.

अत्तनोपदेपि सो गामं गच्छते, गच्छन्ते, गच्छरे. गच्छसे, गच्छव्हे. गच्छे, गच्छाम्हे.

‘‘कुतो नु त्वं आगच्छसि, राजगहतो आगच्छामी’’तिआदीसु पन पच्चुप्पन्नसमीपे वत्तमानवचनं.

‘‘वा’’ति वत्तते.

४४३. गमिस्स घम्मं.

गमुइच्चेतस्स धातुस्स सब्बस्स घम्मादेसो होति वा. घम्मति, घम्मन्ति इच्चादि.

भावकम्मेसु पन –

४४४. अत्तनोपदानि भावे च कम्मनि.

भावे च कम्मनि च कारके अभिधेय्ये अत्तनोपदानि होन्ति, चसद्देन कम्मकत्तरिपि. भवनं भावो, सो च कारकन्तरेन असंसट्ठो केवलो भवनलवनादिको धात्वत्थो. करीयतीति कम्मं. अकम्मकापि धातवो सोपसग्गा सकम्मकापि भवन्ति, तस्मा कम्मनि अनुपुब्बा भूधातुतो वत्तमानत्तनोपदपठमपुरिसेकवचनं ते.

‘‘धातूहि णे णय’’इच्चादितो ‘‘धातूही’’ति वत्तमाने –

४४५. भावकम्मेसु यो.

सब्बधातूहि परो भावकम्मेसु यप्पच्चयो होति. अत्तनोपदविसयेवायमिस्सते, ‘‘अञ्ञेसु चा’’ति सुत्ते अनुवत्तितवाग्गहणेन यप्पच्चये वुद्धि न भवति, अनुभूयते सुखं देवदत्तेन.

आख्यातेन अवुत्तत्ता, ततिया होति कत्तरि;

कम्मस्साभिहितत्ता न, दुतिया पठमाविध.

अनुभूयन्ते सम्पत्तियो तया. अनुभूयसे त्वं देवदत्तेन, अनुभूयव्हे तुम्हे. अहं अनुभूये तया, मयं अनुभूयाम्हे.

‘‘क्वचि धातु’’इच्चादितो ‘‘क्वची’’ति वत्तमाने –

४४६. अत्तनोपदानि परस्सपदत्तं.

अत्तनोपदानि क्वचि परस्सपदत्तमापज्जन्ते, अकत्तरियेवेतं. यकारस्स द्वित्तं, अनुभूय्यति मया सुखं, अनुभूय्यते वा, अनुभूय्यन्ति. अनुभूय्यसि, अनुभूय्यथ. अनुभूय्यामि, अनुभूय्याम. द्वित्ताभावे – अनुभूयति, अनुभूयन्ति.

क्वचीति किं? अनुभूयते.

भावे अदब्बवुत्तिनो भावस्सेकत्ता एकवचनमेव, तञ्च पठमपुरिसस्सेव, भूयते देवदत्तेन, देवदत्तेन सम्पति भवनन्ति अत्थो.

पचधातुतो कम्मनि अत्तनोपदे यप्पच्चये च कते –

विपरिणामेन ‘‘यस्सा’’ति वत्तमाने –

४४७. तस्स चवग्गयकारवकारत्तं सधात्वन्तस्स.

तस्स भावकम्मविसयस्स यप्पच्चयस्स चवग्गयकारवकारत्तं होति धात्वन्तेन सह यथासम्भवं. एत्थ च ‘‘इवण्णागमो वा’’ति इतो सीहगतिया वासद्दो अनुवत्तेतब्बो, सो च ववत्थितविभासत्थो. तेन –

चवग्गो च त वग्गानं, धात्वन्तानं यवत्तनं;

रवानञ्च सयप्पच्च-यानं होति यथाक्कमन्ति.

धात्वन्तस्स चवग्गादित्ता चकारे कते ‘‘परद्वेभावो ठाने’’ति चकारस्स द्वित्तं. पच्चते ओदनो देवदत्तेन, ‘‘क्वचि धातू’’तिआदिना गरुपुब्बरस्सतो परस्स पठमपुरिसबहुवचनस्स क्वचि रे होति. पच्चरे, पच्चन्ते. पच्चसे, पच्चव्हे. पच्चे, पच्चाम्हे.

परस्सपदादेसे पच्चति, पच्चन्ति. पच्चसि, पच्चथ. पच्चामि, पच्चाम. तथा कम्मकत्तरि पच्चते ओदनो सयमेव, पच्चन्ते. पच्चति, पच्चन्ति वा इच्चादि.

गमितो कम्मनि अत्तनोपदे, यप्पच्चये च कते –

‘‘धातूहि, तस्मिं, ये’’ति च वत्तते.

४४८. इवण्णागमो वा.

सब्बेहि धातूहि तस्मिं भावकम्मविसये यप्पच्चये परे इवण्णागमो होति वाति ईकारागमो. ववत्थितविभासत्थोयं वासद्दो. च्छादेसो, गच्छीयते गामो देवदत्तेन, गच्छीयन्ते. गच्छीयसे, गच्छीयव्हे. गच्छीये, गच्छीयाम्हे.

च्छादेसाभावे –

‘‘धातूहि, यो, वा’’ति च वत्तते.

४४९. पुब्बरूपञ्च.

हेट्ठानुत्तेहि परस्सेवेदं, तेन कटपवग्गयकारलसन्तेहेव धातूहि परो यप्पच्चयो पुब्बरूपमापज्जते वाति मकारा परस्स यकारस्स मकारो. गम्मते, गमीयते, गम्मन्ते, गमीयन्ते. गम्मसे, गमीयसे, गम्मव्हे, गमीयव्हे. गम्मे, गमीये, गम्माम्हे, गमीयाम्हे.

परस्सपदत्ते – गच्छीय्यति, गच्छीय्यन्ति. गच्छीयति, गच्छीयन्ति वा. गम्मति, गम्मन्ति. गमीयति, गमीयन्ति. इकारागमे गमिय्यति, गमिय्यन्ति. तथा घम्मीयति, घम्मीयन्ति इच्चादि.

वत्तमानाविभत्ति.

४५०. पञ्चमी तु अन्तु, हि थ, मि म, तं अन्तं, स्सुव्हो, ए आमसे.

त्वादयो द्वादस पञ्चमीसञ्ञा होन्ति.

४५१. आणत्यासिट्ठेनुत्तकाले पञ्चमी.

आणत्यत्थे च आसीसत्थे अनुत्तकाले पञ्चमीविभत्ति होति.

सतिपि कालाधिकारे पुन कालग्गहणेन विधिनिमन्तनाज्झेसनानुमतिपत्थनापत्तकालादीसु च पञ्चमी. आणापनमाणत्ति, आसीसनमासिट्ठो, सो च इट्ठस्स असम्पत्तस्स अत्थस्स पत्थनं, तस्मिं आणत्यासिट्ठे. अनु समीपे उत्तकालो अनुत्तकालो, पच्चुप्पन्नकालोति अत्थो, न उत्तकालोति वा अनुत्तकालो, तस्मिं अनुत्तकाले, कालमनामसित्वा होतीति अत्थो.

तत्थ आसीसनत्थे भूधातुतो पञ्चमीपरस्सपदपठमपुरिसेकवचनं तु, अप्पच्चयवुद्धिअवादेसा. सो सुखी भवतु, ते सुखिता भवन्तु.

विपरिणामेन ‘‘अकारतो’’ति वत्तते.

४५२. हिलोपं वा.

अकारतो परो हिविभत्ति लोपमापज्जते वा. त्वं सुखी भव, भवाहि वा, हिम्हि दीघो. तुम्हे सुखिता भवथ. अहं सुखी भवामि, मयं सुखिनो भवाम.

अत्तनोपदे सो सुखी भवतं, ते सुखिता भवन्तं. त्वं सुखी भवस्सु, तुम्हे सुखिता भवव्हो. अहं सुखी भवे, मयं सुखिता भवामसे.

कम्मनि अनुभूयतं तया, अनुभूयन्तं. अनुभूयस्सु, अनुभूयव्हो. अनुभूये, अनुभूयामसे. परस्सपदत्ते अनुभूय्यतु, अनुभूय्यन्तु. अनुभूयतु, अनुभूयन्तु वा, अनुभूय्याहि इच्चादि. भावे भूयतं.

आणत्तियं कत्तरि देवदत्तो दानि ओदनं पचतु, पचन्तु. पच, पचाहि, पचथ. पचामि, पचाम. पचतं, पचन्तं. पचस्सु, पचव्हो. पचे, पचामसे.

कम्मनि यप्पच्चयचवग्गादि, पच्चतं ओदनो देवदत्तेन, पच्चन्तं. पच्चस्सु, पच्चव्हो. पच्चे, पच्चामसे. परस्सपदत्ते पच्चतु, पच्चन्तु. पच्च, पच्चाहि, पच्चथ. पच्चामि, पच्चाम.

तथा सो गामं गच्छतु, गच्छन्तु. गच्छ, गच्छाहि, गच्छथ. गच्छामि, गच्छाम. गमेतु, गमेन्तु. गम, गमाहि, गमेथ. गमेमि, गमेम. गच्छतं, गच्छन्तं. गच्छस्सु, गच्छव्हो. गच्छे, गच्छामसे. घम्मादेसे घम्मतु, घम्मन्तु इच्चादि.

कम्मनि गच्छीयतं, गच्छीयतु, गमीयतं, गमीयतु, गम्मतं, गम्मतु इच्चादि.

विधिम्हि इध पब्बतो होतु, अयं पासादो सुवण्णमयो होतूतिआदि.

निमन्तने अधिवासेतु मे भन्ते भगवा भोजनं, इध निसीदतु भवं.

अज्झेसने देसेतु भन्ते भगवा धम्मं.

अनुमतियं पुच्छतु भवं पञ्हं, पविसतु भवं, एत्थ निसीदतु.