१. सन्धिकण्ड

तत्थ जिनसासनाधिगमस्स अक्खरकोसल्लमूलकत्ता तं सम्पादेतब्बन्ति दस्सेतुं अभिधेय्यप्पयोजनवाक्यमिदमुच्चते.

१. अत्थो अक्खरसञ्ञातो.

यो कोचि लोकियलोकुत्तरादिभेदो वचनत्थो, सो सब्बो अक्खरेहेव सञ्ञायते. सिथिलधनितादिअक्खरविपत्तियञ्हि अत्थस्स दुन्नयता होति, तस्मा अक्खरकोसल्लं बहूपकारं बुद्धवचनेसु, एत्थ पदानिपि अक्खरसन्निपातरूपत्ता अक्खरेस्वेव सङ्गय्हन्ति.

तस्मा अक्खरकोसल्लं, सम्पादेय्य हितत्थिको;

उपट्ठहं गरुं सम्मा, उट्ठानादीहि पञ्चहि.

सञ्ञाविधान

तत्थादो ताव सद्दलक्खणे वोहारविञ्ञापनत्थं सञ्ञाविधानमारभीयते.

२. अक्खरापादयो एकचत्तालीसं.

अक्खरा अपि आदयो एकचत्तालीसं, ते च खो जिनवचनानुरूपा अकारादयो निग्गहीतन्ता एकचत्तालीसमत्ता वण्णा पच्चेकं अक्खरा नाम होन्ति. तं यथा – आ इ ई उ ऊ ए ओ, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं-इति अक्खरा.

नक्खरन्तीति अक्खरा, अ आदि येसं ते आदयो. अकारादीनमनुक्कमो पनेस ठानादिक्कमसन्निस्सितो, तथा हि ठानकरणप्पयतनेहि वण्णा जायन्ते, तत्थ छ ठानानि कण्ठतालुमुद्धदन्तओट्ठनासिकावसेन.

तत्थ – अवण्ण कवग्ग हकारा कण्ठजा.

इवण्ण चवग्ग यकारा तालुजा. टवग्ग रकार ळकारा मुद्धजा. तवग्ग लकार सकारा दन्तजा. उवण्ण पवग्गा ओट्ठजा. एकारो कण्ठतालुजो. ओकारो कण्ठोट्ठजो.

वकारो दन्तोट्ठजो.

निग्गहीतं नासिकट्ठानजं.

ङ ञ ण न मा सकट्ठानजा, नासिकट्ठानजा चाति.

हकारं पञ्चमेहेव, अन्तट्ठाहि च संयुतं;

ओरसन्ति वदन्तेत्थ, कण्ठजं तदसंयुतं.

करणं जिव्हामज्झं तालुजानं, जिव्होपग्गं मुद्धजानं, जिव्हाग्गं दन्तजानं, सेसा सकट्ठानकरणा.

पयतनं संवुतादिकरणविसेसो. संवुतत्तमकारस्स, विवटत्तं सेससरानं सकारहकारानञ्च, फुट्ठं वग्गानं, ईसंफुट्ठं यरलवानन्ति.

एवं ठानकरणप्पयतनसुतिकालभिन्नेसु अक्खरेसु सरा निस्सया, इतरे निस्सिता. तत्थ –

निस्सयादो सरा वुत्ता, ब्यञ्जना निस्सिता ततो;

वग्गेकजा बहुत्तादो, ततो ठानलहुक्कमा.

वुत्तञ्च –

‘‘पञ्चन्नं पन ठानानं, पटिपाटिवसापि च;

निस्सयादिप्पभेदेहि, वुत्तो तेसमनुक्कमो’’ति.

एकेनाधिका चत्तालीसं एकचत्तालीसं, एतेन गणनपरिच्छेदेन –

अधिकक्खरवन्तानि, एकतालीसतो इतो;

न बुद्धवचनानीति, दीपेताचरियासभो.

अपिग्गहणं हेट्ठा वुत्तानं अपेक्खाकरणत्थं.

३. तत्थोदन्ता सरा अट्ठ.

तत्थ तेसु अक्खरेसु अकारादीसु ओकारन्ता अट्ठ अक्खरा सरा नाम होन्ति. तं यथा – अ आ इ ई उ ऊ ए ओ-इति सरा.

ओ अन्तो येसं ते ओदन्ता, दकारो सन्धिजो, सरन्ति गच्छन्तीति सरा, ब्यञ्जने सारेन्तीतिपि सरा.

‘‘तत्था’’ति वत्तते.

४. लहुमत्ता तयो रस्सा.

तत्थ अट्ठसु सरेसु लहुमत्ता तयो सरा रस्सा नाम होन्ति. तं यथा – अ इ उ-इति रस्सा.

लहुका मत्ता पमाणं येसं ते लहुमत्ता, मत्तासद्दो चेत्थ अच्छरासङ्घातअक्खिनिमीलनसङ्खातं कालं वदति, ताय मत्ताय एकमत्ता रस्सा, द्विमत्ता दीघा, अड्ढमत्ता ब्यञ्जना. लहुग्गहणञ्चेत्थ छन्दसि दियड्ढमत्तस्सापि गहणत्थं. रस्सकालयोगतो रस्सा, रस्सकालवन्तो वा रस्सा.

सररस्सग्गहणानि च वत्तन्ते.

५. अञ्ञे दीघा.

तत्थ अट्ठसु सरेसु रस्सेहि अञ्ञे द्विमत्ता पञ्च सरा दीघा नाम होन्ति. तं यथा – आ ई ऊ ए ओ-इति दीघा.

अञ्ञग्गहणं दियड्ढमत्तिकानम्पि सङ्गहणत्थं. दीघकाले नियुत्ता, तब्बन्तो वा दीघा. क्वचि संयोगपुब्बा एकारोकारा रस्सा इव वुच्चन्ते. यथा – एत्थ, सेय्यो, ओट्ठो, सोत्थि. क्वचीति किं? मं चे त्वं निखणं वने. पुत्तो त्याहं महाराज.

६. दुम्हि गरु.

द्विन्नं समूहो दु, तस्मिं दुम्हि. संयोगभूते अक्खरे परे यो पुब्बो रस्सक्खरो, सो गरुसञ्ञो होति. यथा – दत्वा, हित्वा, भुत्वा.

‘‘गरू’’ति वत्तते.

७. दीघो च.

दीघो च सरो गरुसञ्ञो होति. यथा – नावा, नदी, वधू, द्वे, तयो. गरुकतो अञ्ञो ‘‘लहुको’’ति वेदितब्बो.

८. सेसा ब्यञ्जना.

ठपेत्वा अट्ठ सरे सेसा अड्ढमत्ता अक्खरा ककारादयो निग्गहीतन्ता तेत्तिंस ब्यञ्जना नाम होन्ति. वुत्तेहि अञ्ञे सेसा. ब्यञ्जीयति एतेहि अत्थोति ब्यञ्जना. तं यथा – क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं-इति ब्यञ्जना. ककारादीस्वकारो उच्चारणत्थो.

‘‘ब्यञ्जना’’ति वत्तते.

९. वग्गा पञ्चपञ्चसो मन्ता.

तेसं खो ब्यञ्जनानं ककारादयो मकारन्ता पञ्चवीसति ब्यञ्जना पञ्चपञ्चविभागेन वग्गा नाम होन्ति. तं यथा – क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म-इति वग्गा.

ते पन पठमक्खरवसेन कवग्गचवग्गादिवोहारं गता, वग्गोति समूहो, तत्थ पञ्चपञ्चविभागेनाति वा पञ्च पञ्च एतेसमत्थीति वा पञ्चपञ्चसो, मो अन्तो येसं ते मन्ता.

१०. अंइति निग्गहीतं.

अकारो उच्चारणत्थो, इतिसद्दो पनानन्तरवुत्तनिदस्सनत्थो, अंइति यं अकारतो परं वुत्तं बिन्दु, तं निग्गहीतं नाम होति. रस्सस्सरं निस्साय गय्हति, करणं निग्गहेत्वा गय्हतीति वा निग्गहीतं.

करणं निग्गहेत्वान, मुखेनाविवटेन यं;

वुच्चते निग्गहीतन्ति, वुत्तं बिन्दु सरानुगं.

इध अवुत्तानं परसमञ्ञानम्पि पयोजने सति गहणत्थं परिभासमाह.

११. परसमञ्ञा पयोगे.

या च पन परस्मिं सक्कतगन्थे, परेसं वा वेय्याकरणानं समञ्ञा घोसाघोसलोपसवण्णसंयोगलिङ्गादिका, ता पयोगे सति एत्थापि युज्जन्ते.

परस्मिं, परेसं वा समञ्ञा परसमञ्ञा, वेय्याकरणे, वेय्याकरणमधीतानं वा समञ्ञात्यत्थो. पयुज्जनं पयोगो, विनियोगो.

तत्थ वग्गानं पठमदुतिया, सकारो च अघोसा. वग्गानं ततियचतुत्थपञ्चमा, य र लव ह ळा चाति एकवीसति घोसा नाम.

एत्थ च वग्गानं दुतियचतुत्था धनितातिपि वुच्चन्ति, इतरे सिथिलाति. विनासो लोपो. रस्सस्सरा सकदीघेहि अञ्ञमञ्ञं सवण्णा नाम, ये सरूपातिपि वुच्चन्ति. सरानन्तरितानि ब्यञ्जनानि संयोगो. धातुप्पच्चयविभत्तिवज्जितमत्थवं लिङ्गं. विभत्यन्तं पदं. इच्चेवमादि.

इति सञ्ञाविधानं.

सरसन्धिविधान

अथ सरसन्धि वुच्चते.

लोक अग्गपुग्गलो, पञ्ञा इन्द्रियं, तीणि इमानि, नो हि एतं, भिक्खुनी ओवादो, मातु उपट्ठानं, समेतु आयस्मा, अभिभू आयतनं, धना मे अत्थि, सब्बे एव, तयो अस्सु धम्मा, असन्तो एत्थ न दिस्सन्ति इतीध सरादिसञ्ञायं सब्बसन्धिकरणट्ठाने ब्यञ्जनवियोजनत्थं परिभासमाह.

१२. पुब्बमधोठितमस्सरं सरेन वियोजये.

सरेनाति निस्सक्के करणवचनं, सहयोगे वा, सन्धितब्बे सरसहितं पुब्बब्यञ्जनं अनतिक्कमन्तो अधोठितमस्सरञ्च कत्वा सरतो वियोजयेति सरतो ब्यञ्जनं वियोजेतब्बं. एत्थ च अस्सरग्गहणसामत्थियेन ‘‘ब्यञ्जन’’न्ति लद्धं.

१३. सरा सरे लोपं.

सरा खो सब्बेपि सरे परे ठिते लोपं पप्पोन्ति. लोपोति अदस्सनं अनुच्चारणं. एत्थ सराति कारियीनिद्देसो. बहुवचनं पनेत्थ एकेकस्मिं सरे परे बहूनं लोपञापनत्थं. सरेति निमित्तनिद्देसो, निमित्तसत्तमी चायं, निमित्तोपादानसामत्थियतो वण्णकालब्यवधाने सन्धिकारियं न होति. लोपन्ति कारियनिद्देसो, इदं पन सुत्तं उपरि परलोपविधानतो पुब्बलोपविधानन्ति दट्ठब्बं, एवं सब्बत्थ सत्तमीनिद्देसे पुब्बस्सेव विधि, न परस्स विधानन्ति वेदितब्बं.

‘‘अस्सरं, अधोठित’’न्ति च वत्तते, सिलिट्ठकथने परिभासमाह.

१४. नये परं युत्ते.

सररहितं खो ब्यञ्जनं अधोठितं परक्खरं नये युत्ते ठानेति परनयनं कातब्बं. एत्थ युत्तग्गहणं निग्गहीतनिसेधनत्थं, तेन ‘‘अक्कोच्छि मं अवधि म’’न्तिआदीसु परनयनसन्देहो न होति.

लोकग्गपुग्गलो, पञ्ञिन्द्रियं, तीणिमानि, नोहेतं, भिक्खुनोवादो, मातुपट्ठानं, समेतायस्मा, अभिभायतनं, धना मत्थि, सब्बेव, तयस्सु धम्मा, असन्तेत्थ न दिस्सन्ति.

यस्स इदानि, सञ्ञा इति, छाया इव, कथा एव का, इति अपि, अस्समणी असि, चक्खु इन्द्रियं, अकतञ्ञू असि, आकासे इव, ते अपि, वन्दे अहं, सो अहं, चत्तारो इमे, वसलो इति, मोग्गल्लानो आसि बीजको, पातो एवातीध पुब्बलोपे सम्पत्ते ‘‘सरे’’ति अधिकारो, इध पन ‘‘अत्थवसा विभत्तिविपरिणामो’’ति कत्वा ‘‘सरो, सरम्हा, लोप’’न्ति च वत्तमाने –

१५. वा परो असरूपा.

असमानरूपम्हा सरम्हा परो सरो लोपं पप्पोति वा. समानं रूपं अस्साति सरूपो, न सरूपो असरूपो, असवण्णो. यस्मा पन मरियादायं, अभिविधिम्हि च वत्तमानो आउपसग्गो विय वासद्दो द्विधा वत्तते, कत्थचि विकप्पे, कत्थचि यथाववत्थितरूपपरिग्गहे, इध पन पच्छिमे, ततो निच्चमनिच्चमसन्तञ्च विधिमेत्थ वासद्दो दीपेति. ‘‘नये परं युत्ते’’ति परं नेतब्बं.

यस्सदानि यस्स इदानि, सञ्ञाति सञ्ञा इति, छायाव छाया इव, कथाव का कथा एव का, इतीपि इति अपि, अस्समणीसि अस्समणी असि. चक्खुन्द्रिय मिति निच्चं. अकतञ्ञूसि अकतञ्ञू असि, आकासेव आकासे इव, तेपि ते अपि, वन्देहं वन्दे अहं, सोहं सो अहं, चत्तारोमे चत्तारो इमे, वसलोति वसलो इति, मोग्गल्लानोसि बीजको मोग्गल्लानो आसि बीजको, पातोव पातो एव.

इध न भवति – पञ्चिन्द्रियानि, सद्धिन्द्रियं, सत्तुत्तमो, एकूनवीसति, यस्सेते, सुगतोवादो, दिट्ठासवो, दिट्ठोघो, चक्खायतनं, तं कुतेत्थ लब्भा इच्चादि.

भवति च ववत्थितविभासाय.

अवण्णतो सरोदानी-तीवेवादिं विना परो;

न लुप्पतञ्ञतो दीघो, आसेवादिविवज्जितो.

बन्धुस्स इव, उप इक्खति, उप इतो, अव इच्च, जिन ईरितं, न उपेति, चन्द उदयो, यथा उदके इतीध पुब्बावण्णस्सरानं लोपे कते ‘‘परो, असरूपे’’ति च वत्तते, तथा ‘‘इवण्णो यं नवा’’ति इतो इवण्णग्गहणञ्च, ‘‘वमोदुदन्तान’’न्ति इतो उग्गहणञ्च सीहगतिया इधानुवत्तेतब्बं.

१६. क्वचासवण्णं लुत्ते.

इवण्णभूतो, उकारभूतो च परो सरो असरूपे पुब्बस्सरे लुत्ते क्वचि असवण्णं पप्पोति. नत्थि सवण्णा एतेसन्ति असवण्णा, एकारोकारा, तत्थ ठानासन्नवसेन इवण्णुकारानमेकारोकारा होन्ति.

बन्धुस्सेव, उपेक्खति, उपेतो, अवेच्च, जिनेरितं, नोपेति, चन्दोदयो, यथोदके. क्वचीति किं? तत्रिमे, यस्सिन्द्रियानि, महिद्धिको, सब्बीतियो, तेनुपसङ्कमि, लोकुत्तरो. लुत्तेति किं? छ इमे धम्मा, यथा इदं, कुसलस्स उपसम्पदा. असरूपेति किं? चत्तारिमानि, मातुपट्ठानं.

एत्थ च सतिपि हेट्ठा वाग्गहणे क्वचिकरणतो अवण्णे एव लुत्ते इध वुत्तविधि होतीति दट्ठब्बं. ततो इध न भवति – दिट्ठुपादानं, पञ्चहुपालि, मुदिन्द्रियं, यो मिस्सरोति.

तत्र अयं, बुद्ध अनुस्सति, स अत्थिका, पञ्ञवा अस्स, तदा अहं, यानि इध भूतानि, गच्छामि इति, अति इतो, किकी इव, बहु उपकारं, मधु उदकं, सु उपधारितं, योपि अयं, इदानि अहं, सचे अयं, अप्पस्सुतो अयं, इतर इतरेन, सद्धा इध वित्तं, कम्म उपनिस्सयो, तथा उपमं, रत्ति उपरतो, वि उपसमो इच्चत्र पुब्बस्सरानं लोपे कते –

‘‘क्वची’’ति अधिकारो, ‘‘परो, लुत्ते’’ति च वत्तते.

१७. दीघं.

सरो खो परो पुब्बस्सरे लुत्ते क्वचि दीघभावं पप्पोतीति ठानासन्नवसेन रस्सस्सरानं सवण्णदीघो.

तत्रायं, बुद्धानुस्सति, सात्थिका, पञ्ञवास्स, तदाहं, यानीध भूतानि, गच्छामीति, अतीतो, किकीव, बहूपकारं, मधूदकं, सूपधारितं, योपायं, इदानाहं, सचायं, अप्पस्सुतायं, इतरीतरेन, सद्धीध वित्तं, कम्मूपनिस्सयो, तथूपमं, रत्तूपरतो, वूपसमो.

क्वचीति किं? अचिरं वत’यं कायो, किम्पिमाय, तीणिमानि, पञ्चसुपादानक्खन्धेसु, तस्सत्थो, पञ्चङ्गिको, मुनिन्दो, सतिन्द्रियं, लहुट्ठानं, गच्छामहं, तत्रिदं, पञ्चहुपालि, नत्थञ्ञं. लुत्तेति किं? यथा अयं, निमि इव राजा, किकी इव, सु उपधारितं.

लोकस्स इति, देव इति, वि अति पतन्ति, वि अति नामेन्ति, सङ्घाटि अपि, जीवितहेतु अपि, विज्जु इव, किंसु इध वित्तं, साधु इति इतीध परस्सरानं लोपे कते –

‘‘लुत्ते, दीघ’’न्ति च वत्तते.

१८. पुब्बो च.

पुब्बो सरो परस्सरे लुत्ते क्वचिदीघं पप्पोति. चग्गहणं लुत्तदीघग्गहणानुकड्ढनत्थं, तं ‘‘चानुकड्ढितमुत्तरत्र नानुवत्तते’’ति ञापनत्थं.

लोकस्साति, देवाति, वीतिपतन्ति, वीतिनामेन्ति, सङ्घाटीपि, जीवितहेतूपि, विज्जूव, किंसूध वित्तं, साधूति.

क्वचीति किं? यस्सदानि, इतिस्स, इदानिपि, तेसुपि, चक्खुन्द्रियं, किन्नुमाव.

अधिगतो खो मे अयं धम्मो, पुत्तो ते अहं, ते अस्स पहीना, पब्बते अहं, ये अस्स इतीध पुब्बलोपे सम्पत्ते –

१९. यमेदन्तस्सादेसो.

एकारस्स पदन्तभूतस्स ठाने सरे परे क्वचि यकारादेसो होति. अकारेमेतेयेसद्दादिस्सेवायं विधि, यन्ति यं रूपं, ए एव अन्तो एदन्तो, आदेसिट्ठाने आदिस्सतीति आदेसो. ‘‘ब्यञ्जने’’ति अधिकिच्च ‘‘दीघ’’न्ति दीघो.

अधिगतो खो म्यायं धम्मो, पुत्तो त्याहं, त्यास्स पहीना, पब्बत्याहं, य्यास्स.

क्वचीति किं? ते नागता, पुत्ता मत्थि. अन्तग्गहणं किं? धम्मचक्कं पवत्तेन्तो, दमेन्तो चित्तं.

यावतको अस्स कायो, तावतको अस्स ब्यामो, को अत्थो, अथ खो अस्स, अहं खो अज्ज, यो अयं, सो अस्स, सो एव, यतो अधिकरणं, अनु अद्धमासं, अनु एति, सु आगतं, सु आकारो, दु आकारो, चक्खु आपाथं, बहु आबाधो, पातु अकासि, न तु एवातीध –

२०. वमोदुदन्तानं.

ओकारुकारानं अन्तभूतानं सरे परे क्वचि वकारादेसो होति. क ख य तसद्दादिओकारस्सेदं गहणं.

यावतक्वस्स कायो, तावतक्वस्स ब्यामो, क्वत्थो, अथ ख्वस्स, अहं ख्वज्ज, य्वायं, स्वस्स, स्वेव, यत्वाधिकरणं, अन्वद्धमासं, अन्वेभि, स्वागतं, स्वाकारो, द्वाकारो, चक्ख्वापाथं, बह्वाबाधो, पात्वाकासि, न त्वेव.

क्वचीति किं? को अत्थो, अथ खो अञ्ञतरा, योहं, सोहं, चत्तारोमे, सागतं, साधावुसो, होतूति. अन्तग्गहणं किं? सवनीयं, विरवन्ति.

पटिसन्थारवुत्ति अस्स, सब्बा वित्ति अनुभुय्यते, वि अञ्जनं, वि आकतो, नदी आसन्नो इतीध मण्डूकगतिया ‘‘असरूपे’’ति वत्तते.

२१. इवण्णो यं नवा.

पुब्बो इवण्णो असरूपे सरे परे यकारं पप्पोति नवा. इ एव वण्णो इवण्णो, नवासद्दो क्वचिसद्दपरियायो.

पटिसन्थारवुत्यस्स, सब्बा वित्यानुभुय्यते, ब्यञ्जनं, ब्याकतो, नद्यासन्नो.

नवाति किं? पञ्चहङ्गेहि, तानि अत्तनि, गच्छामहं, मुत्तचागी अनुद्धतो. असरूपेति किं? इतिहिदं, अग्गीव, अत्थीति.

अति अन्तं, अति ओदाता, पति अयो, पति आहरति, पति एति, इति अस्स, इति एतं, इतिआदि इतीध ‘‘इवण्णो यं नवा’’ति यकारादेसे सम्पत्ते –

२२. सब्बो चन्ति.

अतिपतिइतीनं तिसद्दस्सेदं गहणं.

सब्बो तिइच्चेसो सद्दो सरे परे क्वचि चकारं पप्पोति. तीति निद्देसतो अकतयकारस्सेवायं विधि, इतरथा क्वचिग्गहणस्स च ‘‘अतिस्स चन्तस्सा’’तिसुत्तस्स च निरत्थकता सिया. ‘‘परद्वेभावो ठाने’’ति द्वित्तं.

अच्चन्तं, अच्चोदाता, पच्चयो, पच्चाहरति, पच्चेति, इच्चस्स, इच्चेतं, इच्चादि.

क्वचीति किं? इतिस्स, इति आकङ्खमानेन.

‘‘ते न वाइवण्णे’’ति इतो ‘‘न इवण्णे’’ति च वत्तते.

२३. अतिस्स चन्तस्स.

अतिइच्चेतस्स अन्तभूतस्स तिसद्दस्स इवण्णे परे ‘‘सब्बो चं ती’’ति वुत्तरूपं न होति. अतिस्साति अतिउपसग्गानुकरणमेतं. तेनेवेत्थ विभत्तिलोपाभावो. एत्थ च अन्तसद्दो सद्दविधिनिसेधप्पकरणतो अतिसद्दन्तभूतं तिसद्दमेव वदति, न इवण्णन्ति दट्ठब्बं, इतरथा इदं सुत्तमेव निरत्थकं सिया.

‘‘इवण्णो यं नवा’’तीध, असरूपाधिकारतो;

इवण्णस्स सरूपस्मिं, यादेसो च न सम्भवे.

चकारो अनुत्तसमुच्चयत्थो, तेन इतिपतीनमन्तस्स च न होति. अति इसिगणो अतीसिगणो, एवं अतीतो, अतीरितं, इतीति, इतीदं, पतीतो.

अभि अक्खानं, अभि उग्गतो, अभि ओकासो इतीध यकारे सम्पत्ते –

‘‘सरे’’ति वत्तते.

२४. अब्भो अभि.

अभिइच्चेतस्स सब्बस्स सरे परे अब्भादेसो होति.

‘‘अभी’’ति पठमन्तस्स, वुत्तियं छट्ठियोजनं;

आदेसापेक्खतो वुत्तं, ‘‘अंमो’’तिआदिके विय.

पुब्बस्सरलोपो, अब्भक्खानं, अब्भुग्गतो, अब्भोकासो.

अधि अगमा, अधि उपगतो, अधि ओगाहेत्वा इतीध

२५. अज्झो अधि.

अधिइच्चेतस्स सब्बस्स सरे परे अज्झादेसो होति. अज्झगमा, अज्झुपगतो, अज्झोगाहेत्वा.

अभि इच्छितं, अधि ईरितं इतीध

‘‘अब्भो अभि, अज्झो अधी’’ति च वत्तते.

२६. ते न वा इवण्णे.

ते च खो अभिअधिइच्चेते उपसग्गा इवण्णे परे अब्भो अज्झोइति वुत्तरूपा न होन्ति वा. सरलोपपरनयनानि. अभिच्छितं, अधीरितं. वाति किं? अब्भीरितं, अज्झिणमुत्तो, अज्झिट्ठो.

एकमिध अहन्तीध

२७. दो धस्स च.

धइच्चेतस्स सरे परे क्वचि दकारो होति. एकसद्दतो परस्स इधस्स धकारस्सेवायं, सरलोपदीघा. एकमिदाहं. क्वचीति किं? इधेव.

चसद्देन क्वचि साधुस्स धस्स हकारो, यथा – साहु दस्सनं.

यथा एव तथा एवातीध

‘‘नवा’’ति वत्तते, ‘‘सरम्हा’’ति च.

२८. एवादिस्स रि पुब्बो च रस्सो.

यथातथाद्वयपरस्सेदं गहणं. दीघसरम्हा परस्स एवसद्दादिभूतस्स एकारस्स रिकारो होति, पुब्बो च सरो रस्सो होति नवा. यथरिव, तथरिव. नवाति किं? यथेव, तथेव.

ति अन्तं,ति अद्धं, अग्गि अगारे, सत्तमी अत्थे, पञ्चमी अन्तं, दु अङ्गिकं, भिक्खु आसने, पुथु आसने, सयम्भू आसने इतीध यवादेसेसु सम्पत्तेसु –

‘‘सञ्ञा’’ति वत्तते.