३. कारककण्ड

पठमाविभत्तिरासि

अथ नामविभत्तीनं अत्थभेदा वुच्चन्ते.

कस्मिं अत्थे पठमा?

२८९. पठमत्थमत्ते [चं. २.१.९३; पा. २.३.४६].

नामस्स अभिधेय्यमत्ते पठमाविभत्ति होति.

रुक्खो, माला, धनं.

एत्थ च मत्तसद्देन कत्तु, कम्मादिके विभत्यत्थे निवत्तेति. तस्मा अत्थमत्तन्ति लिङ्गत्थोयेव वुच्चति.

तत्थ अनुच्चारिते सति सुणन्तस्स अविदितो अत्थो लीनत्थो नाम. तं लीनमत्थं गमेति बोधेतीति लिङ्गं, उच्चारितपदं.

तं पन पकतिलिङ्गं, निप्फन्नलिङ्गन्ति दुविधं. तत्थ विभत्तिरहितं पकतिलिङ्गं इधाधिप्पेतं लिङ्ग, विभत्तीनं विसुं विसुं विभागट्ठानत्ता.

लीनं अङ्गन्ति लिङ्गं. तत्थ ‘लीन’न्ति अपाकटं. ‘अङ्ग’न्ति अवयवो. लिङ्गं, नामं, पाटिपदिकन्ति अत्थतो एकं.

लिङ्गस्स अत्थो परमत्थो, पञ्ञत्तिअत्थोति दुविधो. तथा विसेसनत्थो, विसेस्यत्थोति.

तत्थ विसेसनत्थो नाम सकत्थो, तस्स तस्स सद्दस्स पटिनियतो पाटिपुग्गलिकत्थोति वुत्तं होति. सोयेव तस्मिं तस्मिं अत्थे आदिम्हि सद्दुप्पत्तिया चिरकालञ्च सद्दपवत्तिया निबद्धकारणत्ता निमित्तत्थोति च वुच्चति. सो सुति, जाति, गुण, दब्ब, क्रिया, नाम, सम्बन्धवसेन सत्तविधो होति.

विसेस्यत्थो नाम सामञ्ञत्थो, बहुनिमित्तानं साधारणत्थोति वुत्तं होति, सोयेव तंतंनिमित्तयोगा नेमित्तकत्थोति च वुच्चति, सो जाति, गुण, दब्ब, क्रिया, नामवसेन पञ्चविधो. गो, सुक्को, दण्डी, पाचको, तिस्सोति.

तत्थ गोसद्दो यदा जातिमत्तं वदति गो जातीति, तदा सुति विसेसनं. यदा दब्बं वदति गो गच्छतीति, तदा सुति च जाति च विसेसनं.

सुक्कसद्दो यदा गुणमत्तं वदति सुक्को गुणोति, तदा सुति विसेसनं. यदा गुणविसेसं वदति गोस्स सुक्कोति, तदा सुति च गुणजाति च विसेसनं. यदा गुणवन्तं दब्बं वदति सुक्को गोति, तदा सुति च गुणजाति च गुणविसेसो च सम्बन्धो च विसेसनं.

दण्डीसद्दो यदा जातिमत्तं वदति दण्डी जातीति, तदा सुति च दब्बञ्च विसेसनं. यदा दब्बवन्तं दब्बं वदति दण्डी पुरिसोति, तदा सुति च दब्बञ्च जाति च सम्बन्धो च विसेसनं.

पाचकसद्दो यदा जातिमत्तं वदति पाचको जातीति, तदा सुति च क्रिया च विसेसनं. यदा क्रियानिप्फादकं दब्बं वदति पाचको पुरिसोति, तदा सुति च क्रिया च जाति च क्रियाकारकसम्बन्धो च विसेसनं.

तिस्ससद्दो यदा नाममत्तं वदति तिस्सो नामन्ति, तदा सुति विसेसनं. यदा नामवन्तं दब्बं वदति, तिस्सो भिक्खूति, तदा सुति च नामजाति च सम्बन्धो च विसेसनं.

सब्बत्थ यं यं वदतीति वुत्तं, तं तं विसेस्यन्ति च दब्बन्ति च वेदितब्बं. एत्थ च सुति नाम सद्दसभावा एव होति, सद्दपक्खिका एव. सब्बो सद्दो पठमं सत्ताभिधायकोति च ञासे वुत्तं. तस्मा सब्बत्थ सुतिट्ठाने सत्ता एव युत्ता वत्तुन्ति. सत्ताति च तस्स तस्स अत्थस्स वोहारमत्तेनपि लोके विज्जमानता वुच्चति, तं तं सद्दं सुणन्तस्स च ञाणं तंतदत्थस्स अत्थितामत्तं सब्बपठमं जानाति, ततो परं जातिसद्दे जातिं जानाति. गुणसद्दे गुणन्ति एवमादि सब्बं वत्तब्बं. लिङ्ग, सङ्ख्या, परिमाणानिपि विसेसनत्थे सङ्गय्हन्ति.

तत्थ लिङ्गं नाम ये इत्थि, पुरिसानं लिङ्ग, निमित्त, कुत्ता’कप्पा नाम अभिधम्मे वुत्ता, ये च नपुंसकानं लिङ्ग, निमित्त, कुत्ता’कप्पा नाम अवुत्तसिद्धा, ये च सद्देसु चेव अत्थेसु च विसदा’विसदाकार, मज्झिमाकारा सन्दिस्सन्ति, सब्बमेतं लिङ्गं नाम.

एवं विसेसन, विसेस्यवसेन दुविधो अत्थो पुब्बे वुत्तस्स सद्दलिङ्गस्स अत्थो नाम, सो सलिङ्गो, ससङ्ख्यो, सपरिमाणो चाति तिविधो होति.

तत्थ सलिङ्गो यथा? सञ्ञा, फस्सो, चित्तं. कञ्ञा, पुरिसो, कुलं. माला, रुक्खो, धनन्ति.

ससङ्ख्यो यथा? एको, द्वे, तयो, बहू इच्चादि.

सपरिमाणो यथा? विदत्थि, हत्थो, दोणो, आळ्हकं इच्चादि.

अपि च सुद्धो, संसट्ठोति दुविधो लिङ्गत्थो. तत्थ कम्मादिसंसग्गरहितो सुद्धो नाम. सो सलिङ्गो, ससङ्ख्यो, सपरिमाणो, उपसग्गत्थो, निपातत्थो, पाटि-पदिकत्थोति छब्बिधो. अत्थि, सक्का, लब्भाइच्चादि इध पाटिपदिकं नाम. तुन, त्वान, त्वा, तवे, तुं, खत्तुंपच्चयन्तापि निपातेसु गय्हन्ति.

संसट्ठो वुत्तसंसट्ठो, अवुत्तसंसट्ठोति दुविधो. तत्थ वुत्तसंसट्ठो चतुब्बिधो समासेन वुत्तसंसट्ठो, तद्धितेन, आख्यातेन, कितेनाति. तत्थ समासेन वुत्तो छकारकसम्बन्धवसेन सत्तविधो, भावेन सद्धिं अट्ठविधो वा, तथा तद्धितेन वुत्तो. आख्यातेन वुत्तो कत्तु, कम्म, भाववसेन तिविधो. कितेन वुत्तो छकारक, भाववसेन सत्तविधो. सब्बो सुद्धो चेव वुत्तसंसट्ठो च पठमाय विसयो.

अवुत्तसंसट्ठोपि कत्तुसंसट्ठो, कम्मसंसट्ठोतिआदिना अनेकविधो. सो दुतियादीनं एव विसयोति. एत्थ च विभत्तिया विना केवलो सद्दो पयोगं नारहतीति कत्वा पयोगारहत्थमेव छब्बिधे सुद्धे चतुब्बिधे च वुत्तसंसट्ठे पठमा पयुज्जति, न अत्थजोतनत्थं.

केनचि वाचकेन अवुत्तानि पन कम्मादीनि विभत्तीहि विना विदितानि न होन्तीतिकत्वा अत्थजोतनत्थम्पि कम्मादीसु दुतियादयो पयुज्जन्ति. तस्मा अत्थमत्तेति इध देसन्तरावच्छेदके विसयमत्ते भुम्मं. कम्मे दुतियाइच्चादीसु पन निप्फादेतब्बे पयोजने भुम्मन्ति एवं द्विन्नं भुम्मानं नानत्तं वेदितब्बन्ति.

२९०. आमन्तने [क. २८५; रू. ७०; नी. ५७८; चं. २.१.९४; पा. २.३.४७; आमन्तणे (बहूसु)].

पगेव सिद्धस्स वत्थुनो नामेन वा निपातेन वा अत्तनो अभिमुखीकरणं आमन्तनं नाम. अधिकामन्तने अत्थमत्ते पठमा होति. एत्थ च आमन्तनपदं नाम क्रियापेक्खं न होति, तस्मा कारकसञ्ञं न लभति.

तं पन दुविधं सादरा’नादरवसेन. एहि सम्म, एहि जेति.

तथा सजीव, निज्जीववसेन, भो पुरिस, वदेहि भो सङ्ख, वदेहि भो सङ्ख [दी. नि. २.४२६]. उम्मुज्ज भो पुथुसिले, उम्मुज्ज भो पुथुसिलेति [सं. नि. ४.३५८].

तथा पच्चक्खा’पच्चक्खवसेन, भो पुरिस, कहं एकपुत्तक, कहं एकपुत्तकाति [सं. नि. २.६३; ध. प. अट्ठ. १.२].

तथा नियमा’नियमवसेन, भो पुरिस, अच्छरियं वत भो अब्भुतं वत भो [दी. नि. २.१९२]. यत्र हि नाम सञ्ञी समानोतिआदि [दी. नि. २.१९२]. इदं आमन्तनं नाम पगेव सिद्धे एव होति, न विधातब्बे, न हि पगेव राजभावं वा भिक्खुभावं वा अप्पत्तं जनं ‘‘भो राजा’’ति वा ‘‘भो भिक्खू’’ति वा आमन्तेन्तीति.

पठमाविभत्तिरासि निट्ठितो.

दुतियाविभत्तिरासि

कस्मिं अत्थे दुतिया?

२९१. कम्मे दुतिया [क. २९७; रू. २८४; नी. ५८०; चं. २.१.४३; पा. १.४.४९-५१].

कम्मत्थे दुतिया होति. करियतेति कम्मं, तं निब्बत्तिकम्मं, विकतिकम्मं, पत्तिकम्मन्ति तिविधं होति.

तत्थ निब्बत्तिकम्मं यथा? इद्धिमा हत्थिवण्णं मापेति, राजा नगरं मापेति, माता पुत्तं विजायति, बीजं रुक्खं जनेति, कम्मं विपाकं जनेति, आहारो बलं जनेति, जनो पुञ्ञं करोति, पापं करोति, बुद्धो धम्मं देसेसि, विनयं पञ्ञपेसि, भिक्खु झानं उप्पादेति, मग्गं उप्पादेति इच्चादि.

विकतिकम्मं यथा? गेहं करोति, रथं करोति, घटं करोति, पटं वायति, ओदनं पचति, भत्तं पचति, कट्ठं अङ्गारं करोति, सुवण्णं कटकं करोति, गेहं झापेति, रुक्खं छिन्दति, पाकारं भिन्दति, विहयो लुनाति, पाणं हनति, भत्तं भुञ्जति इच्चादि.

पत्तिकम्मं यथा? गामं गच्छति, गेहं पविसति, रुक्खं आरोहति, नदिं तरति, आदिच्चं पस्सति, धम्मं सुणाति, बुद्धं वन्दति पयिरुपासति इच्चादि.

पकतिकम्मं, विकतिकम्मन्ति दुविधं. सुवण्णं कटकं करोति, कट्ठं अङ्गारं करोति, पुरिसं ठितं पस्सति, पुरिसं गच्छन्तं पस्सति, भिक्खुं पस्सति सतं, सम्पजानं, अभिक्कमन्तं, पटिक्कमन्तं, आलोकेन्तं, विलोकेन्तं, समिञ्जेन्तं, पसारेन्तं.

एत्थ ‘पुरिसं, भिक्खु’न्ति पकतिकम्मं, ‘ठितं, सतं’इच्चादीनि विकतिकम्मानि.

धातुकम्मं, कारितकम्मन्ति दुविधं. गामं गच्छति, पुरिसं गामं गमेति.

धातुकम्मञ्च द्विकम्मिकधातूनं दुविधं पधानकम्मं, अप्पधानकम्मन्ति. अजपालो अजं गामं नेति, पुरिसो भारं गामं वहति, हरति, गामं साखं कड्ढति, गाविं खीरं दोहति, ब्राह्मणं कम्बलं याचति, ब्राह्मणं भत्तं भिक्खति, गावियो वजं अवरुन्धति, भगवन्तं पञ्हं पुच्छति, रुक्खं फलानि ओचिनाति, सिस्सं धम्मं ब्रवीति, भगवा भिक्खू एतदवोच [उदा. २३ (थोकं विसदिसं)], सिस्सं धम्मं अनुसासति इच्चादि.

एत्थ च ‘अजं, खीरं’ इच्चादि पधानकम्मं नाम कत्तारा परिग्गहेतुं इट्ठतरत्ता. ‘गामं, गाविं’इच्चादि अप्पधानकम्मं नाम तथा अनिट्ठतरत्ता.

तत्थ पधानकम्मं कथिनकम्मं नाम, कम्मभावे थिरकम्मन्ति वुत्तं होति. अप्पधानकम्मं अकथिनकम्मं नाम, अथिरकम्मन्ति वुत्तं होति. तञ्हि कदाचि सम्पदानं होति, कदाचि अपादानं, कदाचि सामि, कदाचि ओकासो. यथा – सो मं दकाय नेति, गावितो खीरं दोहति, गाविया खीरं दोहहि, गावियं खीरं दोहति इच्चादि.

कम्मे दुतियाति वत्तते.

२९२. गतिबोधाहारसद्दत्था कम्मक भज्जादीनं पयोज्जे [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४४; पा. १.४.५२].

निच्चविधिसुत्तमिदं. गमनत्थानं बोधनत्थानं आहारत्थानं सद्दत्थानं अकम्मकानं भज्जादीनञ्च धातूनं पयोज्जे कम्मनि दुतिया होति. एत्थ च पयोज्जकम्मं नाम कारितकम्मं वुच्चति.

पुरिसो पुरिसं गामं गमयति, सामिको अजपालं अजं गामं नयापेति, आचरियो सिस्सं धम्मं बोधेति, पुरिसो पुरिसं भत्तं भोजेति, आचरियो सिस्सं धम्मं पाठेति, पुरिसो पुरिसं सयापेति, अच्छापेति, उट्ठापेति, पुरिसो पुरिसं धञ्ञं भज्जापेति, कोट्टापेति, उद्धरापेति.

एतेसमीति किं? पुरिसो पुरिसेन ओदनं पाचेति.

एत्थ च गमनत्थादीनं पयोज्जे ततियापि रूपसिद्धियं [१४१ पिट्ठे] सद्दनीतियञ्च [सुत्त-१४८ पिट्ठे] वुत्ता. सद्दनीतियं ततियापयोगेपि कम्मत्थमेव इच्छति. ञासादीसु कत्वत्थं इच्छन्ति.

यदा पन पठमं पयोजकं अञ्ञो दुतियो पयोजेति, तदा पठमो पयोज्जो नाम. तस्मिं ततियाएवाति वुत्तियं वुत्तं. अत्तना विप्पकतं कुटिं परेहि परियोसापेति [पारा. ३६३].

२९३. हरादीनं वा [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४५; पा. १.४.५३].

हरादीनं पयोज्जे कम्मनि विकप्पेन दुतिया होति.

सामिको पुरिसं भारं हारेति पुरिसेन वा, पुरिसं आहारं अज्झोहारेति पुरिसेन वा, पुरिसं कम्मं कारेति पुरिसेन वा, राजा पुरिसं अत्तानं दस्सेति पुरिसेन वा, पुरिसं बुद्धं वन्दापेति पुरिसेन वा.

१९४. न खादादीनं [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४७; पा. १.४.५७].

खादादीनं पयोज्जे कम्मनि न दुतिया होति.

सामिको पुरिसेन खज्जं खादापेति, अद-भक्खने, भत्तं आदेति, सामिको दासेन पुरिसं अव्हापेति, सद्दायापेति, कन्दयति, नादयति. एत्थ च ‘सद्दायापेती’ति सद्दं कारापेति, नामधातु चेसा. कन्द, नदापि सद्दत्थायेव.

२९५. वहिस्सानियन्तुके [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४८; पा. १.४.५२].

वहिस्साति धातुनिद्देसो इ-कारो, नियामेति पयोजेतीति नियन्ता, नत्थि नियन्ता एतस्साति अनियन्तुको. यस्स अञ्ञेन पयोजकेन किच्चं नत्थि, सयमेव ञत्वा वहति, सो अनियन्तुको नाम, वहधातुस्स तादिसे अनियन्तुके पयोज्जे कम्मनि दुतिया न होति.

सामिको दासेन भारं वाहेति.

अनियन्तुकेति किं? बलीबद्दे भारं वाहेति.

२९६. भक्खिस्साहिंसायं [क. ३००; रू. २८६; नी. ५८७; चं. २.१.४९; पा. १.४.५].

भक्खितुं इच्छन्तस्स भक्खापनं हिंसा नाम न होति, अनिच्छन्तस्स भक्खापनं हिंसा नाम, भक्खधातुस्स पयोज्जे कम्मनि अहिंसाविसये दुतिया न होति.

सामिको पुरिसेन मोदके भक्खापेति.

अहिंसायन्ति किं? बलीबद्दे सस्सं भक्खापेति. एत्थ ‘सस्स’न्ति थूलतरं सस्सन्ति वदन्ति.

पाळियं ‘‘सब्बेसं विञ्ञापेत्वान [अप. थेर १.१.४३८], तोसेन्ति सब्बपाणिनं [अप. थेर १.१.३००]. थेरस्स पत्तो दुतियस्स गाहेतब्बो’’ इच्चादिना [पारा. ६१५] पयोज्जे छट्ठीपि दिस्सति.

२९७. झादीहि युत्ता [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५०; पा. २.३.२].

धीइच्चादीहि निपातोपसग्गेहि युत्ता लिङ्गम्हा दुतिया होति.

धी ब्राह्मणस्स हन्तारं [ध. प. ३८९], धीरत्थु’मं पूतिकायं [जा. १.३.१२९], धीरत्थु तं धनलाभं [जा. १.४.३६], धीरत्थु बहुके कामे. ततियापि दिस्सति, धीरत्थु जीवितेन मे [जा. २.१७.१३५]. अन्तरा च राजगहं अन्तरा च नाळन्दं [दी. नि. १.१], अभितो गामं वसति, परितोगामं वसति, नदिं नेरञ्जरं पति [सु. नि. ४२७], एतेसु छट्ठ्यत्थे दुतिया.

तथा पटिभाति मं भगवा [उदा. ४५; सं. नि. १.२१७], अपिस्सु मं तिस्सो उपमायो पटिभंसु [म. नि. १.३७४], पटिभातु तं भिक्खु धम्मो भासितुं [महाव. २५८]. पटिभन्तु तं चुन्द बोज्झङ्गा [सं. नि. ३.७९] – ‘म’न्ति मम, ‘त’न्ति तव, सम्पदानत्थे दुतिया. ‘म’न्ति ममञाणे, ‘त’न्ति तवञाणेतिपि वण्णेसुं. न उपायमन्तरेन अत्थस्स सिद्धि, नत्थि समादानमन्तरेन सिक्खापटिलाभो, नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्स [म. नि. ३.३९३; उदा. ७४]. तत्थ ‘अन्तरेना’ति निपातपदमेतं, वज्जेत्वात्यत्थो. पुब्बेन गामं, दक्खिणेन गामं, उत्तरेन गामं, गामस्स पुब्बेति अत्थो.

उपसग्गपुब्बानं अकम्मकधातूनं पयोगे आधारे दुतिया, पथविं अधिसेस्सति, गामं अधितिट्ठति, रुक्खं अज्झावसति, मञ्चं वा पीठं वा अभिनिसीदेय्य वा अभिनिपज्जेय्य वा [पाचि. १३०], गामं उपवसति, गामं अनुवसति, पब्बतं अधिवसति, घरं आवसति, अगारं अज्झावसति [दी. नि. १.२५८; पारा. ५१९], उपोसथं उपवसति, कामावचरं उपपज्जति, रूपावचरं उपपज्जति, अरूपावचरं उपपज्जति, सक्कस्स सहब्यतं उपपज्जति, निपन्नं वा उपनिपज्जेय्य [दी. नि. ३.२८२], निसिन्नं वा उपनिसीदेय्य [दी. नि. ३.२८२], ठितं वा उपतिट्ठेय्य [दी. नि. ३.२८२] इच्चादि.

तप्पान, चारेपि दुतिया, नदिं पिवति, समुद्दं पिवति, गामं चरति, अरञ्ञं चरति, नदियं, गामेति अत्थो.

काल, दिसासुपि आधारे एव दुतिया, तं खणं, तं मुहुत्तं, तं कालं, एकमन्तं [खु. पा. ५.१], एकं समयं [खु. पा. ५.१; दी. नि. १.१], पुब्बण्हसमयं [पारा. १६], सायन्हसमयं, तं दिवसं, इमं रत्तिं [दी. नि. ३.२८५], दुतियम्पि, ततियम्पि, चतुत्थं वा पञ्चमं वा अप्पेति, ततो पुब्बं, ततो परं, पुरिमं दिसं [दी. नि. २.३३६], दक्खिणं दिसं [दी. नि. २.३३६], पच्छिमं दिसं [दी. नि. २.३३६], उत्तरं दिसं [दी. नि. २.३३६], इमा दस दिसायो, कतमं दिसं तिट्ठति नागराजा [जा. १.१६.१०४], इमासु दिसासु कतमाय दिसाय तिट्ठति छद्दन्तनागराजाति अत्थोइच्चादि.

२९८. लक्खणित्थम्भूतविच्छास्वभिना [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५४; पा. १.४.९०, ९१; २.३.८].

लक्खणादीसु अत्थेसु पवत्तेन अभिना युत्ता लिङ्गम्हा दुतिया होति.

लक्खीयति लक्खितब्बं अनेनाति लक्खणं. अयं पकारो इत्थं, ईदिसो विसेसोति अत्थो. इत्थं भूतो पत्तोति इत्थम्भूतो. भिन्ने अत्थे ब्यापितुं इच्छा विच्छा.

तत्थ लक्खणे –

रुक्खमभि विज्जोतते विज्जु, रुक्खं अभि ब्यापेत्वा विज्जोततेति अत्थो, विज्जोभासेन ब्यापितो रुक्खो विज्जुप्पादस्स लक्खणं सञ्ञाणं होति.

इत्थम्भूते –

साधु देवदत्तो मातरमभि, मातरं अभि विसिट्ठं कत्वा साधूति अत्थो, देवदत्तो सक्कच्चं मातुपट्ठाने अग्गपुरिसोति वुत्तं होति. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो [पारा. १]. एत्थ च ‘अब्भुग्गतो’ति अभि विसिट्ठं कत्वा उग्गतोति अत्थो, अयं कित्तिसद्दो भोतो गोतमस्स सकललोकग्गभावं पकासेत्वा उग्गतोति वुत्तं होति, कित्तिसद्दसम्बन्धे पन तस्स खो पन भोतो गोतमस्साति अत्थो.

विच्छायं –

रुक्खं रुक्खं अभि विज्जोतते चन्दो, ब्यापेत्वा विज्जोततेत्यत्थो.

एत्थ च लक्खणादिअत्था अभिसद्देन जोतनीया पिण्डत्था एव, न वचनीयत्था, ब्यापनादिअत्था एव वचनीयत्थाति.

२९९. पतिपरीहि भागे च [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५५; पा. १.४.९०].

लक्खणि’त्थम्भूत, विच्छासु च भागे च पवत्तेहि पति, परीहि युत्ता लिङ्गम्हा दुतिया होति.

लक्खणे –

रुक्खं पति विज्जोतते विज्जु, रुक्खं परि विज्जोतते विज्जु. तत्थ ‘पती’ति पटिच्च, ‘परी’ति फरित्वा.

इत्थम्भूते –

साधु देवदत्तो मातरं पति, साधु देवदत्तो मातरं परि.

विच्छायं –

रुक्खं रुक्खं पति विज्जोतते चन्दो, रुक्खं रुक्खं परि विज्जोतते चन्दो.

भागे –

तं दीयतु, यदेत्थ मं पति सिया, तं दीयतु, यदेत्थ मं परि सिया. तत्थ ‘पती’ति पटिच्च, ‘परी’ति परिच्च, उद्दिस्साति अत्थो, ‘ठपित’न्ति पाठसेसो. एत्थ मं उद्दिस्स यं वत्थु ठपितं सिया, तं मे दीयतूत्यत्थो, एतेसु बहूसु भागेसु यो मम भागो, सो मय्हं दीयतूति वुत्तं होतीति.

३००. अनुना [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५६; पा. १.४.८४, ९०].

लक्खणि’त्थम्भूत, विच्छासु च भागे च पवत्तेन अनुना युत्ता लिङ्गम्हा दुतिया होति.

लक्खणे –

रुक्खं अनु विज्जोतते विज्जु, रुक्खं अनु फरित्वाति अत्थो. चतुरासीतिसहस्सानि, सम्बुद्धमनुपब्बजुं [बु. वं. २१.५], ‘सम्बुद्ध’न्ति बोधिसत्तं, अनु गन्त्वा पब्बजिंसूति अत्थो, विपस्सिबोधिसत्ते पब्बजिते सति तानिपि चतुरासीतिकुलपुत्तसहस्सानि पब्बजिंसूति वुत्तं होति. सच्चक्रियमनु वुट्ठि पावस्सि, ‘अनू’ति अन्वाय, पटिच्चाति अत्थो, सच्चक्रियाय सति सच्चक्रियहेतु देवो पावस्सीति वुत्तं होति. ‘‘हेतु च लक्खणं भवती’’ति वुत्तियं वुत्तं. सच्चक्रियाय सहेवातिपि युज्जति. ‘‘सह सच्चे कते मय्ह’’न्ति [चरिया. ३.८२] हि वुत्तं.

इत्थम्भूते –

साधु देवदत्तो मातरमनु. तत्थ ‘अनू’ति अन्वाय पटिच्च.

विच्छायं –

रुक्खं रुक्खं अनु विज्जोतते चन्दो. तत्थ ‘अनू’ति अनु फरित्वा.

भागे –

यदेत्थ मं अनु सिया, तं दीयतु. तत्थ ‘अनू’ति अन्वाय. सेसं वुत्तनयमेव.

३०१. सहत्थे [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५७; पा. १.४.८५].

सहत्थे अनुना युत्ता लिङ्गम्हा दुतिया होति.

पब्बतं अनु तिट्ठति [पब्बतमनुसेना तिट्ठति (मोग्गल्लानवुत्तियं)]. नदिं अन्वावसिता बाराणसी. ‘अनू’ति अनुगन्त्वा, नदिया सह आबद्धा तिट्ठतीति वुत्तं होति.

३०२. हीने [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५८; पा. १.४.८६].

हीने पवत्तेन अनुना युत्ता लिङ्गम्हा दुतिया होति.

अनु सारिपुत्तं पञ्ञवन्तो, अनुगता पच्छतो गताति अत्थो, सब्बे पञ्ञवन्तो सारिपुत्ततो हीनाति वुत्तं होति.

३०३. उपेन [क. २९९; रू. २८८; नी. ५८२, ५८६; चं. २.१.५९; पा. १.४.८७].

हीने उपेन युत्ता लिङ्गम्हा दुतिया होति.

उप सारिपुत्तं पञ्ञवन्तो, उपेच्च गता समीपे गताति अत्थो, हीनात्वेव वुत्तं होति.

एत्थ च अभिइच्चादयो कम्मप्पवचनीयाति सद्दसत्थेसु वुत्ता. तत्थ पकारेन वुच्चतीति पवचनीयं, पकारो च लक्खणि’त्थम्भूत, विच्छादिको पिण्डत्थो वुच्चति, कम्मन्ति ब्यापनादिक्रिया, कम्मं पवचनीयं येहि ते कम्मप्पवचनीया.

तत्थ ब्यापनादिक्रियाविसेसवाचीहि उपसग्गेहि सम्बन्धेसति कम्मत्थे दुतिया होति, असम्बन्धे पन आधार, साम्यादिअत्थेसु होति, लक्खणादयो पन सामत्थियसिद्धा पिण्डत्था एवाति.

३०४. कालद्धानमच्चन्तसंयोगे [क. २९८; रू. २८७; नी. ५८१; पा. २.३.५]

कालस्स वा अद्धुनो वा दब्ब, गुण, क्रियाहि अच्चन्तं निरन्तरं संयोगे काल’द्धानवाचीहि लिङ्गेहि परं दुतिया होति.

काले –

सत्ताहं गवपानं, मासं मंसोदनं, सरदं रमणीया नदी, सब्बकालं रमणीयं नन्दनं, मासं सज्झायति, वस्ससतं जीवति, तयो मासे अभिधम्मं देसेति.

अद्धाने –

योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति.

अच्चन्तसंयोगेति किं? मासे मासे भुञ्जति, योजने योजने विहारो.

एत्थ च क्रियाविसेसनम्पि कत्तारा साधेतब्बत्ता कम्मगतिकं होति, तस्मा तम्पि ‘कम्मे दुतिया’ति एत्थ कम्मसद्देन गय्हति.

सुखं सेति, दुक्खं सेति, सीघं गच्छति, खिप्पं गच्छति, दन्धं गच्छति, मुदुं पचति, गरुं एस्सति, लहुं एस्सति, सन्निधिकारकं भुञ्जति, सम्परिवत्तकं ओतापेति, कायप्पचालकं गच्छति [पाचि. ५९०], हत्थप्पचालकं गच्छति, सीसप्पचालकं गच्छति [पाचि. ५९४-५९५], सुरुसुरुकारकं भुञ्जति [पाचि. ६२७], अवगण्डकारकं भुञ्जति [पाचि. ६२२], पिण्डुक्खेपकं भुञ्जति [पाचि. ६२०], हत्थनिद्धुनकं भुञ्जति [पाचि. ६२३], हत्थनिल्लेहकं भुञ्जति [पाचि. ६२८], चन्दिमसूरिया समं परियायन्ति, विसमं परियायन्ति इच्चादि.

दुतियाविभत्तिरासि निट्ठितो.

ततियाविभत्तिरासि

कस्मिं अत्थे ततिया?

३०५. कत्तुकरणेसु ततिया [क. २८६, २८८; रू. २९१, २९३; नी. ५९१, ५९४; चं. २.१.६२-३; पा. २.३.१८].

कत्तरि करणे च ततिया होति. कत्ताति च कारकोति च अत्थतो एकं ‘‘करोतीति कत्ता, करोतीति कारको’’ति, तस्मा ‘‘कत्तुकारको’’ति वुत्ते द्विन्नं परियायसद्दानं वसेन अयमेव क्रियं एकन्तं करोति, सामी हुत्वा करोति, अत्तप्पधानो हुत्वा करोतीति विञ्ञायति, ततो क्रिया नाम कत्तुनो एव ब्यापारो, न अञ्ञेसन्ति च, अञ्ञे पन क्रियासाधने कत्तुनो उपकारकत्ता कारका नामाति च, तथा अनुपकारकत्ता अकारका नामाति च विञ्ञायन्तीति.

तत्थ कत्ता तिविधो सयंकत्ता, पयोजककत्ता, कम्मकत्ताति.

तत्थ धात्वत्थं सयं करोन्तो सयंकत्ता नाम, पुरिसो कम्मं करोति.

परं नियोजेन्तो पयोजककत्ता नाम, पुरिसो दासं कम्मं कारेति.

कम्मकत्ता नाम पयोज्जककत्तापि वुच्चति, पुरिसो दासेन कम्मं कारेति दासस्स वा, यो च अञ्ञेन कतं पयोगं पटिच्च कम्मभूतोपि सुकरत्ता वा कम्मभावेन अवत्तुकामताय वा अजाननताय वा वञ्चेतुकामताय वा कत्तुभावेन वोहरीयति, सो कम्मकत्ता नाम, कुसूलो सयमेव भिज्जति, घटो सयमेव भिज्जति. अपिच सुकरो वा होतु दुक्करो वा, यो कम्मरूपक्रियापदे पठमन्तो कत्ता, सो कम्मकत्ताति वुच्चति. सद्दरूपेन कम्मञ्च तं अत्थरूपेन कत्ता चाति कम्मकत्ता, कुसूलो भिज्जति, घटो भिज्जति, पच्चति मुनिनो भत्तं, थोकं थोकं घरे घरे इच्चादि.

एत्थ च सद्दत्थो दुविधो परमत्थो, पञ्ञत्तत्थोति. तत्थ परमत्थो एकन्तेन विज्जमानोयेव. पञ्ञत्तत्थो पन कोचि विज्जमानोति सम्मतो. यथा? राजपुत्तो, गोविसाणं, चम्पकपुप्फन्ति. कोचि अविज्जमानोति सम्मतो. यथा? वञ्झापुत्तो, ससविसाणं, उदुम्बरपुप्फन्ति. सद्दो च नाम वत्तिच्छापटिबद्धवुत्ती होति, वत्तमानो च सद्दो अत्थं न दीपेतीति नत्थि, सङ्केते सति सुणन्तस्स अत्थविसयं बुद्धिं न जनेतीति नत्थीति अधिप्पायो. इति अविज्जमानसम्मतोपि अत्थो सद्दबुद्धीनं विसयभावेन विज्जमानो एव होति. इतरथा ‘वञ्झापुत्तो’ति पदं सुणन्तस्स तदत्थविसयं चित्तं नाम न पवत्तेय्याति, सद्दबुद्धीनञ्च विसयभावेन विज्जमानो नाम अत्थो सद्दनानात्ते बुद्धिनानात्ते च सति नाना होति, विसुं विसुं विज्जमानो नाम होतीति अधिप्पायो. एवं सद्दबुद्धिविसयभावेन विज्जमानञ्च नानाभूतञ्च अत्थं पटिच्च कारकनानात्तं क्रियाकारकनानात्तञ्च होति, न पन सभावतो विज्जमानमेव नानाभूतमेव च अत्थन्ति निट्ठमेत्थ गन्तब्बं. तस्मा ‘‘संयोगो जायते’’ इच्चादीसु सद्दबुद्धीनं नानात्तसिद्धेन अत्थनानात्तेन द्विन्नं सद्दानं द्विन्नं अत्थानञ्च क्रियाकारकतासिद्धि वेदितब्बाति.

कयिरते अनेनाति करणं, क्रियासाधने कत्तुनो सहकारीकारणन्ति वुत्तं होति. तं दुविधं अज्झत्तिककरणं, बाहिरकरणन्ति.

तत्थ कत्तुनो अङ्गभूतं करणं अज्झत्तिकं नाम, पुरिसो चक्खुना रूपं पस्सति, मनसा धम्मं विजानाति, हत्थेन कम्मं करोति, पादेन मग्गं गच्छति, रुक्खो फलभारेन ओणमति.

कत्तुनो बहिभूतं बाहिरं नाम, पुरिसो यानेन गच्छति, फरसुना [परसुना (सक्कतगन्थेसु)] छिन्दति, रुक्खो वातेन ओणमति.

३०६. सहत्थेन [क. २८७; रू. २९६; नी. ५९२; चं. २.१.६५; पा. २.३.१९].

सहसद्दस्स अत्थो यस्स सोति सहत्थो, सहत्थेन सद्देन युत्ता लिङ्गम्हा ततिया होति. सहसद्दस्स अत्थो नाम समवायत्थो.

सो तिविधो दब्बसमवायो, गुणसमवायो, क्रियासमवायोति. पुत्तेन सह धनवा पिता, पुत्तेन सह थूलो पिता, पुत्तेन सह आगतो पिता. सह, सद्धिं, समं, नाना, विनाइच्चादिको सहत्थसद्दो नाम.

निसीदि भगवा सद्धिं भिक्खुसङ्घेन [महाव. ५९], सहस्सेन समं मिता [सं. नि. १.३२], पियेहि नानाभावो विनाभावो [दी. नि. २.१८३, २०७], सङ्घो सह वा गग्गेन विना वा गग्गेन उपोसथं करेय्य [महाव. १६७].

३०७. लक्खणे [रू. १४७ पिट्ठे; नी. ५९८; चं. २.१.६६; पा. २.३.२१].

लक्खणं वुच्चति इत्थम्भूतलक्खणं, तस्मिं ततिया होति.

अस्सुपुण्णेहि नेत्तेहि, पितरं सो उदिक्खति [जा. २.२२.२१२३]. ब्रह्मभूतेन अत्तना विहरति [अ. नि. ३.६७], असम्भिन्नेन विलेपनेन राजानमदक्खि, तिदण्डकेन परिब्बाजकमदक्खि, ऊनपञ्चबन्धनेन पत्तेन अञ्ञं पत्तं चेतापेति [पारा. ६१२ (थोकं विसदिसं)], भिक्खु पासादिकेन अभिक्कन्तेन पटिक्कन्तेन आलोकितेन विलोकितेन समिञ्जितेन पसारितेन गामं पिण्डाय पाविसि, सा काळी दासी भिन्नेन सीसेन लोहितेन गलन्तेन पतिविस्सकानं उज्झापेसि [म. नि. १.२२६], उक्खित्तकाय अन्तरघरे गच्छन्ति [पाचि. ५८४], पल्लत्थिकाय अन्तरघरे निसीदन्ति [पाचि. ५९९].

अङ्गविकारोपि इध सङ्गय्हति [क. २९१; रू. २९९; नी. ६०३], अक्खिना काणं पस्सति, ‘अक्खी’ति इदं ‘काण’न्ति पदे विसेसनं, विकलेन चक्खुअङ्गेन सो काणो नाम होति. हत्थेन कुणिं पस्सति, पादेन खञ्जं पस्सति.

३०८. हेतुम्हि [क. २८९; रू. २९७; नी. ६०१].