मिलिदटीका

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

निरन्तरं लोकहितस्स कारकं

निरन्तरं लोकहितस्स देसकं,

निरन्तरं लोकहितस्स चिन्तकं

नमामि वीरं नरदम्मसारथिं;

पञ्हधम्मविदुं नाथं गुय्हधम्मप्पकासकं,

नमस्सिवान सम्बुद्धं धम्मं साधुगुणम्पि च;

नागसेनमहाथेरं पिटकत्तयकोविदं,

वदिवा तम्पि सिरसा पञ्हधम्मप्पकासकं;

मिलिदपञ्हविवरणं मधुरथप्पकासिनिं,

रचयिस्सं समासेन तं सुणाथ समाहिता;

१. तथ पकिण्णकथविवरणं जातकुद्धरणन्ति द्वे येवमातिका.

तथ-

सम्बधो च पदञ्चेव पदथो पदविग्गहो

चोदना परिहारो’ति छब्बिधा अथवण्णना’ति;

वुत्तत्ता सम्बधो ताव वेदितब्बो. सो च यथावुत्ताज्झाहारवसेन दुविधो.

पकिण्णकथविवरणं

तेसु –’मिलिदो नाम सो राजा …पे… सागरन्ति एथ अज्झाहारसम्बधो वेदितब्बो यो’पि मिलिदो राजा भगवतो परिनिब्बानतो पञ्चवस्ससते अतिक्कन्ते राजकुले उप्पन्नो सो राजा मिलिदो नाम.

सागलायं पुरुत्तमे सागलनामके उत्तमनगरे रज्जं कारेन्तो नागसेनथेरं उपगञ्छि किं विया?ति.

गङ्गाव यथ सागरन्ति आह. यथा गङ्गा वा यमुनादीसु अञ्ञतरा वा सागरं उपगञ्छि तथा उपगञ्छि’ति अथो. व-सद्दो |ओ०.०३७०| वेथ समुच्चयथो. गङ्गा वा’ति वत्तब्बे आकारस्स रस्सत्तं कवा गङ्गाव इति वुत्तं. उप्पलंव यथोदके’ति एथ वुत्तसमुच्चयथो वासद्दो विय.

आसज्ज राजा …पे… विदाळने’ति एथ यथावुत्तसम्बधो वेदितब्बो. सो च सुविञेञय्यो’व. पदन्ति उपसग्ग निपातनामआख्यातपदवसेन चतुब्बिधं. तेसु नामपदं सामञ्ञगुण-कित्तिम-ओपपातिक-नाम वसेन चतुब्बिधं. तथ पठमकप्पिकमहाजनेन सम्मन्तिवा ठपितत्ता महासम्मतो’ति रञ्ञो नामं सामञञनामं नाम. धम्मकथिको पंसुकुलिको विनयधरो तेपिटको सद्धो पसन्नो’ति एवरूपं गुणतो आगतं नामं गुणनामं नाम. यम्पन जातस्स कुमारस्स नामगहणदिवसे दक्खिणेय्यानं सक्कारं कवा समीपे ठिता ञातका कप्पेवा’अयं अमुको नामा’ति नामं करोन्ति इदं कित्तिम नामं नाम. या पन पुरिमपञ्ञत्ति पच्छिमपञ्ञत्तियं पतति, पुरिमवोहारो पच्छिमवोहारे सेय्यथिदं पुरिमकप्पे’पि चदो चदोयेव नाम एतरहि’पि चदो चदोयेव नाम, अतीते सूरियो समुद्दो पथवी पब्बतोयेव नाम. एतरहि’पि पब्बतो पब्बतोयेव नामाति इदं ओपपातिकनामं नाम, इदं नामचतुक्कं अभिधम्मपरियायेन वुत्तं. सद्दसथे पन नामनाम-सब्बनाम-समासनाम-तद्धितनाम-कितनामवसेन पञ्चविधं वुत्तं. तं सब्बं इध यथारहं वेदितब्बं. पदथो पन आसज्जा’ति पवा. ठानाठानगते’ति कारणाकारणगते.

पुथू’ति नानप्पकारे.

सुत्तजालसमथिता’ति सुत्तन्तपिटकसङ्खातसुत्तसमूहेन समथिता पथिता, सुत्तं आहरिवा सुत्तथविसोधनवसेन सुत्तजालसोधका

नयेहि चाति अभिधम्मविनयादीहि नयेहि युत्तीहि वा.

पणिधाया चाति अभिधम्मविनयादीहि नयेहि युत्तीहि वा.

पणिधायाति अत्तनो ञाणं ठपेन्तो.

भासयिवान मानसन्ति अत्तनो चित्तं अतिसयेन पुनप्पुनं पवत्तापनवसेन हासेवा

कङ्खाठानविदाळने’ति कङ्खाय विचिकिच्छाय वस्सा कारणभूतानं अविज्जादिकिलेसानं धम्मानं विदाळनकारणे.

अयं पदथो नाम.

विग्गहो |ओ०.०३७१| पन एवं वेदितब्बो?

योनकसङ्खातानं मिलानं इदो

मिलिदो.

सोतं पतितानं जनानं संसीदनं राति आददाती’ति

सागरो, तं सागरं.

अभिधम्मविनयेसु अनुपविसनथेन ओगाळ्हा

अभिधम्मविनयोगाळ्हा.

सुत्तजालस्स समथिता

सुत्तजालसमथिता.

कङ्खा च कङ्खाठानञ्च कङ्खाठानानि कङ्खाठानानं विदाळनं

कङ्खाठानविदाळनं.

अयं विग्गहो.

इमा पञ्च गाथा केन कता?ति चोदना भदन्तबुद्धघोसाचरियेन कता’ति परिहारो. न केवलं पञच गाथा’व, थेरराजवचने’पि अञ्ञं पुब्बापरवचनम्पि तेन वुत्तं.

तेसु सम्बधनये–

‘एकख्यातो पदच्चयो सिया वाक्यं सकारको’ति च

‘येन यस्स हि सम्बधो दूरट्ठम्पि च तस्स तं,

अथतो असमानानं आसन्नत्तं अकारणंन्ति च;

‘नानत्ता सति या नाना-क्रिया होति यथारहं,

एकक्रियाय छन्नन्तु नथि कारकता सदा’;

‘वोहारविसयो सद्दो’नेकथपरमथतो,

बुद्धिविकप्पतो चथो तस्सथो’ति पवुच्चति;

तीणी’पि लक्खणानि सल्लक्खेवा यथा अथो च सभावो च लब्भति, तथा सद्दप्पयोगो कातब्बो. सद्दप्पयोगेन हि अत्थसभावा अनुवत्तितब्बा, न अत्थसभावेहि सद्दप्पयोगो अपि च आचरिया नानारट्ठेसु ठिता अत्तनो अत्तनो रट्ठवोहारानुरूपेन |ओ०.०३७२| सद्दप्पयोगस्स अथं वदन्ति. इध अम्हाकं बिङ्गरट्ठे सिलिट्ठवोहारानुरूपेन सद्दप्पयोगस्स अथो वत्तब्बो. यथा वचनं सिलिट्ठं होति कुलपुत्तानञ्च हदयं पविसति तथा वत्तब्बो कथं? यदि पठमा कत्ता होति, दुतिया कम्मं सविसेसनं पठमन्तकत्तं ववा क्रियापदं वत्तब्बं. क्रियापदं ववा सविसेसनं दुतियन्तकम्मं वत्तब्बं. यदि सविसेसनं पठमन्तपदं कम्मं होति तं तस्स विसेसनञ्च ववा ततियन्तकत्ता वत्तब्बो. तं ववा क्रियापदं वत्तब्बन्ति.

पदथो पन –

‘अथप्पकारणा लिङ्गा ओजञ्ञा (?) देसकालतो;

सद्दथा विभजीयन्ति; न सद्दायेव केवला’ति च;

‘परभावपथापेक्खं स-अमादि तु कारकं,

पच्चयस्स सधातुस्स अथभुतन्तु साधनन्ति च;

‘धातु सद्दो क्रियावाची पच्चयो साधनवाचको,

अथस्स वाचकं लिङ्गं विभत्ति अथजोतका;’

ति च लक्खणानि सल्लक्खेवा एकेकपदस्स अथविग्गहो वत्तब्बो.

पद विग्गहो पन-

‘धावथो हि सिया हेतु - पच्चयथो सिया फलं,

द्विन्नं जाननथञ्च इति सद्दो पयुज्जते;

सब्बवाक्ये क्रियासद्दो इतिसद्दो च होति हि;

क्रियाब्युप्पत्ति निमित्तं इतिसद्देन दीपितन्ति,

आदीनि लक्खणानि सल्लक्खेवा वत्तब्बो;

अयं अम्हेहि वुत्तो सद्दप्पयोगअथप्पयोगो योजनानं नयो सब्बथ उपकारो कुलपुत्तेहि उग्गहेतब्बो सल्लक्खेतब्बोयेव.

इतो परं यं अथतो च रूपतो च अपाकटं, तंयेव वण्णयिस्साम.

सुविभत्त-वीथि-चच्चर-चतुक्क-सिङ्घाटकन्नि सुविभत्ता रथिकासङ्खाता वीथि चच्चरसङ्खाता चतुक्का मग्गसधिसङ्खाता सिङ्घाटका |ओ०.०३७३| एथाति सुविविभत्तवीथिचच्चरचतुक्कसिङ्घाटं. वुत्तञ्हेतं अभिधानप्पदीपिकायं;

‘‘रच्छा च विसिखा वुत्ता रटिका वीथि चाप्यथ

व्युहो रच्छा अनिब्बिद्धा निब्बिद्धा तु पथद्धि च,

चतुक्कं चच्चरे मग्ग-सधि-सिङ्घाटकम्भवे’’ति;

कासिक-कोटुम्बरकादि - नानाविधवथापणसम्पन्नन्ति एथ महग्घवथं कासिकं कासिकरट्ठे वा उप्पन्नं कासिकं. कोटुम्बरदेसे जातं वथं कोटुम्बरं. आदिसद्देन खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गन्ति. धवलवथानि च खोमस्स अनुलोमभुतं दुकुलं कोसेय्यस्स अनुलोमभुतानि पत्तुन्नपट्ट-सोमार-चीनज वथानि च सङ्गण्हाति. वुत्तञ्हेतं खुद्दकसिक्खागथे?

दुकूलञ्चेव पत्तुन्न - पत्तं सोमारचीनजं इद्धिजं देवदिन्नञ्च तस्स तस्सानुलोमकन्ति.

तस्स टीकायञ्च’वाकमयत्ता दुकुला साणस्स अनुलोमकेहि कतसुत्तमयत्ता पत्तुण्णपट्ट-सोमारचीनवथानि कोसेय्यस्स अनुलोमानि इद्धिजदेवदिन्नवथानि छन्नं वथानं अनुलोमानि तेसं अञ्ञतरमयत्ता’ति वुत्तं.

तथ मिलिदपञ्हो लक्खणपञ्हो विमतिच्छेदनपञ्हो’ति दुविधो’ति एथ धम्मानं लक्खणपुच्छनवसेन पवत्तो पञ्हो लक्खणपञेहा.धम्मानं लक्खणपञ्हो’ति कथचि लिखितं. ठानुप्पन्तिकपटिहानो’ति तस्मिं तस्मिं गम्भीरथविचारणकाले कत्तब्बकिच्चसङ्खाते ठाने उप्पत्ति उप्पज्जनं ठानुप्पत्ति सा अस्स अथिति ठानुप्पत्तिकं. आरम्मणे पटिभातीति पटिभानं, ञाणं. ठानुप्पत्तिकं पटिभानं यस्स सो ठानुप्पत्तिकपटिभानो.

पटिबलो अतीतानागतपच्चुप्पन्नानन्ति एथ अथानं जानितुन्ति पाठसेसो कातब्बो सोयेव वा पाठो. तथ अहं अतीतभवे दिन्नदानो रक्खितसीलो भावितभावनो कतकल्याणो इदानि ञाणसम्पन्नो धनवा यसवा’ति अतीतथं जानितुं पटिबलो इदानि मया दानादि पुञ्ञं कत्तब्बं सम्पत्ति |ओ०.०३७४| भवतो. सम्पत्ति भवे उप्पज्जिवा सुखी हुवा परिनिब्बायिस्सामी’ति. एवं पच्चुप्पन्नअनागतथे जानितुं पटिबलो नाम.

समन्तयोगविधानकिरियानं करणकाले’ति युञ्जितब्बो योगो. समन्ततो सब्बतो सब्बकाले योगो सब्बकालेसु सब्बकत्तब्बकम्मानं विदहनं विधानं नाम. इदञ्चिदञ्च करिस्सामि, इमस्मिं कते इदं भविस्सती’ति पुब्बभागे उपायेन कत्तब्बविधानं किरिया नाम करणकालेयेव लब्भति. पुब्बभागे च करणकाले च निसम्मकारीति अधिप्पायो.

सेय्यथीदन्ति यानि सथानि तेन उग्गहितानि तानि सेय्यथिदं विभजिस्सामीति अथो अनेकथतो महनिदानसुत्तवण्णनायञ्च एवमेवथो वुत्तो’ सेय्यथिदं कतमानी’ति केचि वदन्ति. तं’कतमे पञ्चुपादानक्खधा? सेय्यथिदं? रूपूपादानक्खधो’तिआदिना नयेन समेति. तेसु च एकूनवीसतिसथेसु.

सुतीति एथ सुय्यते धम्मो एतायाति सुति, वेदो.

सम्मुतीति सद्दगन्थो. सेसा सङ्ख्यादयोपि च कत्तुयोनकत्ता बाहिर सथेसु यदि दिस्सन्ति ते सुगहेतब्बा येवाति.

भत्तविस्सग्गकरणथायाति भत्तकिच्चकरणथाय.

सकिं एवं चक्खुं उदपादीति अतीतभवे तीसु वेदेसु परिचयसतिञाणबलेन सकिमेव एकुग्गहणवारमेव चक्खु वेदुग्गहञाणचक्खु उदपादि. बहुतरं अवचापेवा एकवारमेव वदापेवा धारेतुं असक्कोन्तस्स ञाणचक्खु उदपादीति अधिप्पायो.

आचरियस्स अनुयोगं दवा’ति’आचरिय, तुम्हेहि यं यं इच्छथ, तं तं मं पुच्छथ, अहं विस्सजेस्सामि. ब्याकातुं असक्कोन्तस्स मे आचिक्खथा’ति आचरियस्स अत्तनो अनुयोगं अनुयुञ्जनं चोदनं दवा. एकच्चो हि अनुयोगं दातुं सक्कोति ब्याकातुं पन न सक्कोति. नागसेनदारको पन तदुभयम्पि कातुं सक्कोतियेव.

धम्मचक्खुं उदपादीति’यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्तिधम्मचक्खु सोतापत्तिमग्गञाणं निब्बानारम्मणं हुवा एवं उप्पज्जनाकारेन उदपादियं किञ्चि सङ्खतं धम्मजातं समुदयधम्मं उप्पज्जनसभावं सब्बं तं निरोधधम्मं, सब्बं तं धम्मजातं निरुज्झनसभावं अनिच्चं खयवयधम्मन्ति उदपादि. |ओ०.०३७५| कस्मा निब्बानारम्मणंयेव मग्गञाणमेव उदपादी?ति. तप्पटिच्छादकमोहधकारं विद्धंसेवा उप्पन्नत्ता.

(दोसिना) दोसिताति वत्तब्बे तकारस्स तकारं कवा दोसिना’ति वुत्तं.

रथं आरुय्हा’ति एथ सामिकं रमयतीति रथो’ति विग्गहो कातब्बो.

राजरथो नाम सब्बरतनविचित्तो इच्छितब्बो.

(वयहं) वहन्ती एतेनाति वयहं उपरिमण्डपसदिसपदरच्छन्नसब्बमालागुण्ठिमं वा छादेवाति अट्ठकथायं वुत्तनयेन कतसकटं वय्हं नाम.

सदमानिका’ति उभोसु पस्सेसु सुवण्णरजतादिमया गोपानसियो दवा गरुळपक्खकनयेन सदमानिका’ति अट्ठकथायं वुत्तनयेन कतो यानविसेसो वय्हादिद्वयं चेकथाय इधानीतं

तिथकरो’ति’उग्गहो सवणं पुच्छा कथनं धारणं इति पञ्चधम्मवसेनेव तिथवासो पवुच्चती’ति एवं वुत्ते तिथवासे पतिट्ठाय परे च पतिट्ठापेवा पिटकत्तयतिथछेककरणेन धम्मतिथङ्करो.

निपुणो’ति बधादीसु उपजाननसमथो.

विसारदो’ति परिसासु भयरहितो.

सामयिको’ति देसजभासासङ्खातसमयकुसलो सकसमयसमयन्तरच्छेकञाणवन्तो.

पटिभाणो’ति कल्याणवाक्य सङ्ख्यातपटिभाणवन्तो.

मेधावीति धम्मोजपञ्ञाय मेधावी. धम्मोजपञ्ञा नाय ञानगतो पण्डितो’किं सुतं किं वा सुणामि, किं कुसलं गवेसिन्ति’ याय विचारेति सा धम्मोजपञ्ञा नाम.

आयस्मापि खो नागसेनो पटिसम्मोदि…पे… आराधेसिति येनेव सम्मोदनियवचनेन थेरो रञेञा मिलिदस्स चित्तं आराधेसि तोसेसि तेनेव सम्मोदनीयवचनेन रञ्ञा सद्धिं पटिसम्मोदीति योजना.

ञायामीति ञातो पाकटो होमि.

अपि |ओ०.०३७६| च खो महाराज …पे… नागसेनो’ति यं इदंनागसेनो’ति नामं एसा सङ्खा समञ्ञा पञ्ञत्ति वोहारो नाममत्तं होतीति योजना.

(सङ्खा) एथ च सङ्खायतीति सङ्खा. सङ्कथियतीति अथो किन्ति सङ्कथियति? परस्साति अत्ता’ति भवो’ति पोसो’ति पुग्गलो’ति नरो’ति माणवो’ति तिस्सो’ति दत्तो’ति मञ्चपीठं भिसिबिम्बो हनन्ति विहारो परिवेणं द्वारं वातपानन्ति. एवं अनेकेहि आकारेहि सङ्कथीयतिति सङ्खा.

समञ्ञा सम्मा ञायतीति किन्ति ञायती?ति. अहन्ति ममन्ति…पे… द्वारं वातपानन्ति सम्मा ञायतीति समञ्ञा.

(पञ्ञत्ति) पञ्ञापीयतीति पञ्ञत्ति.

(वोहारो). किन्ति पञ्ञापीयतीति…पे… वोहरीयतीति वोहारो. किन्नि वोहरीयतिति. अहन्ति ममन्ति…पे… द्वारं वातपातन्ति वोहरीयतीति वोहारो. इमेहि चतुहि सङ्खाआदीहि पदेही नामपञ्ञत्तियेव अधिप्पेता नाममत्तन्ति दस्सनतो.

सचे वं महाराज पण्डितवादा सल्लपिस्ससीति वं सचे मया सद्धिं पण्डितानं सल्लापेन.

आवेठनम्पि कयिरति निब्बेठनम्पि कयिरती’ति पञ्हपूच्छनवसेन वेठनं पण्डितेहि कयिरति पञ्हविस्सज्जनवसेन वेठनं पण्डितेहि कयिरति पञ्हविस्सज्जनवसेन निब्बेठनम्पि कयिरति.

निग्गहो’पि कयिरती’ति नागसेनथेरो मुसाभणतीतिआदिना निग्गहनयेन अञ्ञपण्डितानं निग्गहणवचनं अञ्ञपण्डितेहि कयिरति. अपि च कथावथुप्पकरणे आगतो सब्बनिग्गहो निग्गहोयेव.

पटिक्कमम्पी’ति वं महाराज’राजा मिलिदो जम्बुदीपे अग्गराजा कस्मा मुसा भणसी’तिआदिना पटिक्कमम्पि कयिरति.

विसेसो ‘पीति’सम्पन्नं मुनिनो चित्तं, ‘कम्मना ब्यत्तत्तेन च विज्जाचरणसम्पन्नं धम्मगतानं पसंसती’तिआदिना गुणपसंसनसङ्खात विसेसो. इध पन कल्लो’सि भन्ते’तिआदि पटिग्गहणविसेसो’ति’सम्पन्नं मुनिनो चित्तं…पे… धम्मगतानं अनुमोदसी’तिआदिना गुणपसंसनसङ्खातो पटिग्गहणविसेसो. इध पन साधु खो वं महाराज रथं जानासी’तिआदि. एकं |ओ०.०३७७| वथुं पटिजानन्तीति कल्याणमणिआदिकं अञ्ञतरं एकं वथुं कल्याणं वा अथि नथिति पटिजानन्ति पठमदिवसे तयो पञ्हा रञ्ञा पुच्छिता नामपञ्ञत्तिपञ्हो सत्तवस्सिकपञ्हो वीमंसनपञ्हो.

भन्ते नागसेन पुच्छिस्सामीति …पे… किम्पन महाराज तया पुच्छितन्ति ततियो वीमंसनपञ्हो ठानुप्पत्तिकपटिहानजाननथाय वीमंसनवसेन पुच्छितत्ता विमंसनपञ्हो नाम. तथ’पुच्छितो मे भन्ते’ति इदं रञ्ञा अत्तना हेट्ठा पुच्छिते द्वे पञ्हे सधाय वुत्तं.

विस्सज्जितं मे’ति इदम्पि थेरेन अत्तना हेट्ठा विस्सज्जिते द्वे पञ्हे सधाय वुत्तं.

नागसेनो नागसेनो’ति सज्झायं करोन्तो पक्कामीति रञ्ञा नागसेनथेरे बहुमानगारवो कतो’ति दीपेतुं बुद्धघोसाचरियेन वुत्तं अगारवो हि पुग्गलो गरुट्ठानियं पुग्गलं दिस्वापि सुवापि जानिवापि अपस्सन्तो असुणन्तो अजानन्तो विय होतीति. तत्रायं वचनथो? आगुं पापं न करोतीति नागो. सेन्ति सयन्ति एतेन वादपच्चथिका जनाति सेनो नागो च सो सेनो चाति नागसेनो सामञ्ञादीसु चतुसु नामेसु इदं कित्तिमनामं.

सुट्ठु थेरो अबभनुमोदीति’साधु सुट्ठु’ति वचनेन. अन्तरामग्गे पुच्छितो अनथकालपञ्हो.

कतमेथ नागसेनो’ति कतमो धम्मो एतस्मिं वचने नागसेनो नाम होतीति पुच्छि.

जीवो’ति जीवभुतो वायो.

अस्सासपस्सासा नामेते कायसङ्खारो’ति थेरो अभिधम्मकथं अकासीति इमिना अनन्तकायस्स एते अन्तो-पविसन-बहि-निक्खमतवाता अस्सासपस्ससा नाम करजकायेन अभिसङ्खरीयन्ति, तस्मा कायसङ्खारा च होन्ति, तेनेव जीवेन नागसेनो नागसेनो’ति इमिना नाममत्तं गण्हाति न पुग्गलो जीवो गहेतब्बो’ति थेरो अभिधम्मकथं अकासि.

उपासकत्तं पवेदेसी’ति अत्तसन्निय्यातनेन सिस्सभावूपगमनेन पणिपातेन समादानेनाति चतुसु सरणगमनूपायेसु समादानेन रतनत्तयस्स च थेरस्स च उपासकभावं, बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामि, तञ्च सरणं गच्छामि, उपासकं मं धारेहि अज्जतग्गे पाणुपेतं सरणं गतन्ति.

अनन्तकायपञ्हो चतुथो.

किम्हि |ओ०.०३७८| होति कथासल्लापो’ति किम्हि कारणे निमित्तभुते कथासल्लापो होति. किम्पयोजनो कथासल्लापो’ति अधिप्पायो इदं रञञा किमथाय वुत्तं? अनुयोगदानथाय चेव पुच्छनस्स ओकासदापनथाय चाति ञातब्बं.

अथेन मयं महाराज अथिका अथेन होतु कथासल्लपो’ति इमिना थेरो रञ्ञो अनुयोगञ्चेव ओकासञ्च देति तथ अथेना’ति.

’अथो पयोजनो सद्दा’भिधेय्य वुद्धियं धने,

वथम्हि कारणे नासे हिते पच्छिमपब्बते’ति;

एवं वुत्तेसु अथेसु इध पयोजनञ्च हितञ्च लब्भति. तेसु लोकियलोकुत्तरफलं पयोजनं नाम, सासनवुद्धि वा. यथिच्छितफलनिप्फादानो हिनोति पवत्ततीति हितं. दानसीलादिलोकियलोकुत्तरकारणं.

किन्ती’ति किम्हि असङ्खतधातुसङ्खाते निब्बाने फलसङ्खाते निब्बाने इदं पच्चुप्पन्नदुक्खं निरुज्झेय्य.

अनुपादापरिनिब्बानन्ति अरहत्तफलसङ्खातं अनुपादापरिनिब्बानं. निब्बानञ्हि दुविधं अपच्चयपरिनिब्बानं अनुपादापरिनिब्बानन्ति. तेसु अविज्जादिपच्चयरहितत्ता असङ्खतधातु अपच्चय-परिनिब्बानं नाम. किलेससङ्खत-परिनिब्बानसङ्खातं उपादान रहितत्ता अरहत्तफलं अनुपादापरिनिब्बानं नाम.

राजाभिनीता’ति राजूहि पीळिता राजभीता वा.

इणट्टा’ति इणेन पीळिता.

कल्लो’सीति ब्याकरण ञाणेन छेको’सि, अङ्गुत्तरटीकायं’ ब्याकरणे समथो’. पटिबलो’तिपि वत्तुं वट्टति येवाति.

पब्बज्जापञ्हो पञ्चमो.

सोपादानो’ति सकिलेसो.

पटिसदहनपञ्हो छट्ठो.

योनिसो मनसिकारेनाति अनिच्चं दुक्खन्ति उपायेन पथेन सारणलक्खणेन आरम्मणपटिपादकमनसिकारेन.

मनसिकारपञ्हो सत्तमो.

उस्सहनलक्खणे’ति |ओ०.०३७९| सम्पयुत्तानं आरम्मणे संयोजनवसेन उस्सहनलक्खणे गण्हनलक्खणे वा.

मनसिकारलक्खणपञ्हो अट्ठमो.

यो सीलक्खधो वरपातिमोक्खियो’ति यो पातिमोक्खसीलसंवरसङ्खातो बुद्धुप्पादेयेव उप्पन्नो सीलगुणो सयं पतिट्ठाति इदुयादीनं एकदसन्नं कुसलधम्मानं निस्सयाकारेन निस्सयपच्चयो चेव बलवकारणट्ठेन उपनिस्सयो च पथवी इव सत्तानं पतिट्ठा.

सीलपतिट्ठानलक्खणपञ्हो नवमो.

अञ्ञेसं चित्तं विमुत्तं पस्सिवा’ति अञ्ञेसं अरियानं सोतापत्तिफलादिके फले विसेसेन अधिमुत्तं पक्खदन्तं ञाणचक्खुना पस्सिवा.

सद्धालक्खणपञ्हो दसमो.

सब्बे कुसला धम्मा’ति सब्बे लोकियकुसलधम्मा उप्पन्ना न परिहायन्ति.

वीरियलक्खणपञ्हो एकादसमो.

अपिलापनलक्खणो’ति आरम्मणे अनुपविसनट्ठेन ओगाहनलक्खणो सप्पटिभागधम्मो’ति पटिभागेन पच्चथिकेन सह वत्तन्तीति सप्पटिभागा सुक्को च कण्हपटिभागेन सप्पटिभागो.

कण्हसुक्कसप्पटिभागे’ति ईदिसपाठो यदि अथि सुदरोयेव.

अपिलापेतीति अनुपविसनट्ठेन ओगाहति.

हिताहितानं धम्मानं गतियो’ति कुसलाकुसलानं धम्मानं इट्ठानिट्ठ-विपाकदानभाव-संखात-निप्फत्तियो.

सब्बथकन्ति सब्बकिच्चे नियुत्तं सब्बलीनुधच्चेसु इच्छितब्बं वा.

सतिलक्खणपञ्हो द्वादसमो.

तप्पमुखा’वाति राजप्पधाना इव.

समाधिपञ्हो तेरसमो.

यो उप्पज्जति सो एव सो’ति यो पथविफस्सादिपरमथधम्मो उप्पज्जति, सो उप्पन्नपुब्बधम्मो एव.

पञ्ञालक्खणपञ्हो |ओ०.०३८०| चुद्दसमो.