सत्तचत्तालीसतिम परिच्छेद

पञ्चराजको

१. अच्चये पितुनो राजा, उपराजा अहोसि सो;

समत्थो सक्कुमित्तानं, कातुं निग्गह संगहे.

२. सेना नामसि सप्पञ्ञा, महेसी तस्स राजिनो;

खुद्दपुत्ता पीया’तीव, रञ्ञो कल्याणदस्सना.

३. अदासि युवराजत्तं, जेट्ठपुत्तस्स अत्तनो;

आदिपादे’परेकासि, राजिनीपि च धीतरो.

४. दत्वा ठानन्तरं राजा, तेसं तेसं यथारहं;

जनं सङ्गहवत्थूहि, सङ्गहेसि चतूहिपि.

५. अथ केनापि सो गन्त्वा, हेतुना मणिहीरकं;

वसन्तो किर अस्सोसि, पच्चन्तो कुपितो इति.

६. ततो सेनापतिञ्चेव, जेट्ठपुत्तञ्च अत्तनो;

गन्त्वा साधेथ तं देस-मीति पेसेसि सज्जुकं.

७. तेसु तत्थोपयातेसु, पिसुना भेदचिन्तका;

वत्वा यंकिञ्चि भिन्दिंसु, ते उभोपि नराधिपे.

८. ततो द्वे वेरिनो हुत्वा, देसं गण्हितुमारभुं;

राजा सुत्वा खणेनेव, दुरतिस्स मुपागमि.

९. ते उभो तत्थ घातेत्वा, तेसं सब्बं समादिय;

हन्त्वा तं पक्खिये सब्बे, पुळत्थिनगरं गमि.

१०. तदा रोहणदेसम्हि, भोगाधिपतिनो सुतो;

दाठासिवादिपादस्स, महिन्दो नाम खत्तियो.

११. पितुनो सो’परिज्झित्वा, रञ्ञो सन्तिकमागमा;

दिस्वा राजापि सन्तुट्ठो, तं सङ्गण्हि यथारहं.

१२. तेन मेत्तिं थिरं कातुं, धीतरं देव नामिकं;

तस्स दत्वान पाहेसि, बलं रोहणमेवसो.

१३. सो गन्त्वा राजसेनाय, मद्दापेत्वान रोहणं;

जम्बुदीपं पलापेत्वा, पितरं रोहणं लभि.

१४. महाविहारे कारेसि, सलाकग्गं थिरं सुभं;

खोलक्खियमुनिन्दस्स, परिहाराय दापयि.

१५. महानामव्हयं गामं, पूजयित्वा यथाबलं;

वड्ढमानदुमिन्दस्स, जिण्णं गेहञ्च कारिय.

१६. रुक्खणत्थाय तस्सा;दा, कोट्ठागामं बहुदयं;

नीलारामस्स पादासि, काळुस्सं नाम गामकं.

१७. लोहरूपस्स पादासि, आरामस्स च गामकं;

जिण्णञ्च पटिसङ्खासि, पटिमायो च कारयि.

१८. पासादे चेतियो चेव, विहारे च अनप्पके;

पुळत्थिनगरे’कासि, वेज्जसालं महादयो.

१९. तथा पण्डा वियञ्चेव, भोगगामसमायुतं;

पिट्ठसप्पिनमन्धानं, सालायो च तहिं तहिं.

२०. पोत्थकेसु लिखापेत्वा, अट्टे सम्मा विनिच्छिते;

राजगेहे ठपापेसि, उक्कोटनभयेन सो.

२१. नागवड्ढननामस्स, भोगगामे बहू अदा;

लेखे’पुब्बे न वारेत्वा, पालेत्वा पुब्बसासनं.

२२. पितरा च महादानं, पुञ्ञमञ्ञम्पि वा कतं;

सब्बं तमविनासेत्वा, निच्चं सो रक्खि सादरो.

२३. महेसी च महारञ्ञो, पुञ्ञानि बहुकारयि;

कण्टकं चेतियं कासि, देवी चेतियपब्बते.

२४. कारेत्वा जयसेनञ्च, पब्बतं गामिकस्सदा;

भिक्खुसङ्घस्स सा गामं, महुम्मारञ्च तस्स दा.

२५. सिलामेघव्हयं कत्वा, भिक्खुनीनमुपस्सयं;

सिलामेघव्हये दासि, भिक्खुनीनञ्च पच्चये.

२६. गामाये’सुं पुराकीता, विहारो तत्थ साधनं;

दत्वा ते मे चयित्वान, विहारस्सेव दापयि.

२७. छादयित्वा महारुक्खे, सब्बे चेतियपब्बते;

नानारागे धजे चेव, पटाकायो च पूजयि.

२८. पुब्बारामकभागम्पि, पासादं पटिसङ्खरि;

उस्सानविट्ठिं दुब्भोगं, सुभोगं तस्स कारयि.

२९. विहारं गिरिभण्डञ्च, नट्ठं पाकतिकं करि;

भोगगामे च दापेसि, भिक्खूनं तन्निवासिनं.

३०. अम्बुय्यानम्हि आवासं, कत्वा दप्पुळपब्बतं;

भिक्खूनं तिसतस्सा’दा, सम्पन्नचतुपच्चयं.

३१. कारेत्वा नीलगल्लञ्च, आरामं सो मनोरमं;

दकवारं बहुप्पादं, तस्स दापेसि कारिय.

३२. अरिकारि विहारे च, पटिसङ्खासि जिण्णकं;

सलाकग्गञ्च पासादं, अपुब्बंयेव कारयि.

३३. वाहदीपे सकारेसि, सेनग्गबोधिपब्बतं;

धम्मं तीसु निकायेसु, वाचयित्थ बहुस्सुते.

३४. गण्हापेसि च भिक्खूनं, अयोपत्तेसु गण्ठिके;

पुञ्ञन्ति वुत्तं सब्बं सो, न किञ्चि परिवज्जयि.

३५. कुलीनानमनाथानं, इत्थीनं’दा पिळन्धनं;

भोजनं भोजनत्थीनं, बहु सो दासि रत्तियं.

३६. गुन्नं सस्सानि पादासि, काकादीनञ्च भत्तकं;

तण्डुलञ्च कुमारानं, मधुफाणितसंयुत्तं.

३७. एवं पुञ्ञानि कत्वान, नरिन्दो सो सपारिसो;

भुत्वा पञ्चसु वस्सेसु, मेदिनिं सम्परिच्चजि.

३८. ततो तस्स सुतो आसि, सीहळानं रथेसतो;

सब्बरूपगुणोपेतो, महिन्दो नाम खत्तियो.

३९. सो धम्मिकसीलामेघो, इच्चासि धरणीतले;

धम्मदीपो धम्मधजो, सुद्धधम्मपरायनो.

४०. पुब्बकेहि नरिन्देहि, कतं धम्मपथानुगं;

सब्बं कासि अहापेत्वा, अधम्मं तु विवज्जयि.

४१. राजारतनपासादे, कातुं सो नवकम्मकं;

सब्बकालेसु दापेसि, गेट्ठुम्बदकवारकं.

४२. जिण्णञ्च पटिसङ्खासि, पुञ्ञकम्ममकासि च;

रज्जं कत्वान चतूसु, वस्सेसु निधनं गतो.

४३. अग्गबोधि ततो राजा, छत्तं उस्सापयि पुरे;

कारेन्तो सब्बसत्तानं, हितं सुखमसेसतो.

४४. धातुपूजं सकारेसि, सत्थुसब्बगुणारहं;

पितामहकतस्सा’पि, सम्बुद्धस्स महामहं.

४५. उदयग्गादिबोधिञ्च, परिवेणं सकारयि;

नामं गहेत्वा पितुनो, अत्तनो च नराधिपो.

४६. सभोगं परिवेणञ्च, कत्वा तं भूतनामकं;

सकाचरियकस्सा’दा, भिक्खूनं तिसतस्स च.

४७. राजसालाय दापेसि, चूळवापियगामकं;

गामद्वयञ्च दापेसि, काळूलमल्लवातके.

४८. पवेसं विनिवारेसि, उपोसथदिनेसु सो;

मच्छमंससुरादीनं, अन्तोनगरमत्तनो.

४९. भिक्खू वा चेतिये वा सो, वन्दित्वा निक्खमं ततो;

वालुका हा विनस्सन्तु, इति पादेसु वोधयी.

५०. यं यं सोवग्गियं कम्मं, कम्मं निस्सरणवहं;

वत्थुत्तये पसन्नो सो, कम्मं तं सब्बमाचरि.

५१. मातुपट्ठाननिरतो, रत्तिन्दिवमहोसिसो;

गन्त्वा तस्सा उपट्ठानं, पातोव किर भूपति.

५२. सीसं तेलेन मक्खेत्वा, उब्बट्टेत्वान जल्लिकं;

नखे विसुद्धे कत्वान, नहापेत्वान सादरं.

५३. अच्छादेत्वा नवं वत्थं, सुखसम्फस्समत्तनो;

वत्थं छड्डितमादाय, पेल्लेत्वा सयमेव तं.

५४. तस्स तोयेन सिञ्चित्वा, सीसं समकुटं सकं;

गन्धमालाहि तं सम्मा, चेतियं विह पूजिय.

५५. नमस्सित्वान तिक्खत्तुं, कत्वा तं सो पदक्खिणं;

दापेत्वा परिसाय’स्सा, वत्थादीनि यथारुचिं.

५६. सहत्थेनेव भोजेत्वा, भोजनं तं महारहं;

भुत्थावसेसं भुञ्जित्वा, समाकिरियमत्थके.

५७. भोजेत्वा परिसं तस्सा, राजभोजनमुत्तमं;

सज्जेत्वा वासगेहञ्च, सुगन्धपरिवासितं.

५८. सहत्था पञ्ञपेत्वान, सयनं तत्थ साधुकं;

पादे धोविय मक्खेत्वा, गन्धतेलेन सण्हकं.

५९. सम्बाहेन्तो निसीदित्वा, कत्वा निद्दमुपेतकं;

कत्वा पदक्खिणं मञ्चं, तिक्खत्तुं साधुवन्दिय.

६०. आरक्खके नियोजेत्वा, दासेकम्मकरेपि च;

तस्सा पिट्ठिमकत्वान, अपक्कमेव पिट्ठितो.

६१. ठत्वा अदस्सने ठाने, तिक्खत्तुं पुन वन्दिय;

सन्तुट्ठो तेन कम्मेन, सरन्तो तं पुनप्पुनं.

६२. गेहं याति सजीवन्तं, एवमेव उपट्ठहि;

एकदा दासवादेन, वन्दित्वा दासमत्तनो.

६३. तेनत्तनो कथापेसि, खमापेतुं सयं वचो;

अत्तानं भिक्खुसङ्घस्स, दापयित्वान मातरा.

६४. धनमत्थग्घनं ञत्वा, भुजिस्सो आसि बुद्धिमा;

एवं पुञ्ञपरो हुत्वा, कत्वा दीपस्स सङ्गहं.

६५. एकादसहि वस्सेहि, देवलोकमुपागमि;

तस्सानुजो दप्पुळो’थ, राजा होसि तदच्चये.

६६. सब्बं पुब्बकराजूनं, चरियं सो समाचरि;

तदा महिन्दनामस्स, पुत्तारोहणसामिनो.

६७. पितरा निहटा’गञ्छुं, राजानं मातुलं सकं;

सो ते दिस्वा पवत्तिं तं, सुत्वा दत्वा महाबलं.

६८. पाहेसि पितरा युद्धं, कातुं बन्धु हिते रते;

महिन्दोपि तथाभावं, विदित्वा रोहणाधिपो.

६९. युद्धं पटिपदेयेव, तेसं’कासि महाबलो;

ते उभोपि पलायिंसु, दत्वा सेनाय नायकं.

७०. पुनागन्त्वा महीपालं, सेवमाना इधा’वसुं;

पितापि तेन सन्तुट्ठो, अञ्ञेन सकबन्धुना.

७१. युज्झन्तो मरणं गञ्छि, ञातिसोपि मतो किर;

तदा’दा भागिनेय्यस्स, राजा कित्तग्गबोधिनो.

७२. सब्बरूपगुणोपेतं, धितरं देव नामिकं;

सो दप्पुळं ठपेत्वान, सेवत्थं तस्स राजिनो.

७३. सयं सेनङ्गमादाय, रोहणं समुपागमि;

रोहणाधिपति हुत्वा, सब्बाकारसमप्पितो.

७४. पुत्तधीताहि वड्ढेन्तो, वासं तत्थेव कप्पयि;

राजाकासि दुमिन्दस्स, घरं जिण्णं नवं थिरं.