जिनचरितय |ओ०.०००१|
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
१. उत्तमं उत्तमङ्गेन नमस्सित्वा महेसिनो;
निब्बाणमधुदं पादपङ्कजं सज्जनालिनं.
२. महामोहतमं लोके धंसेन्तं धम्मभाकरं;
पातुभूतं महातेजं धम्मराजोदयाचले.
३. जन्तुचित्तसरे जातं पसादकुमुदं सदा;
बोधेन्तं सङ्घवन्दञ्च सिलोरुकिरणुज्जलं.
४. तहिं, तहिं सुवित्थिण्णं जिनस्स चरितं हितं;
पवक्खामि समासेन सदा’नुस्सरणत्थिको.
५. पणितं तं सरन्तानं दुल्लभम्पि सिवंपदं;
अदुल्लभं भवे भोगपटिलाभम्हि का कथा?
६. तस्मा तं भञ्ञमानं मे चित्तवुत्तपदक्कमं;
सुन्दरं मधुरं सुद्धं सोतुसोतरसायनं.
७. सोतहत्थपुटा सम्मा गहेत्वान निरन्तरं;
अजरामरमि’च्छन्ता साधवो परिभुञ्जथ.
८. कप्पसतसहस्सस्स चतुन्नं चा’पि मत्थके;
असङ्खेय्यानमा’वासं सब्बदा पुञ्ञकामिनं.
९. |ओ०.०००२|
नानारतनसम्पन्नं नानाजनसमाकुलं;
विचित्तापण संकिण्णं तोरण ग्घिक भूसितं.
१०. युत्तं दसहि सद्देहि देविन्दपुरसन्निभं;
पुरं अमरसङ्खातं अहोसी रुचिरं वरं.
११. तहिं ब्राह्मन्वये जातो सब्बलोकाभिपूजितो;
महादयो महापञ्ञो अभिरूपो मनोरमो.
१२. सुमेधो नाम नामेन वेदसागरपारगू;
कुमारो’सि गरूनं सो अवसाने जिनंकुरो.
१३. रासिवड्ढकमच्चेन दस्सितं अमितं धनं;
अनेकसतगब्भेसु निचितं तं उदिक्खिय.
१४. धनसन्निचयं कत्वा अहो मय्हं पितादयो;
गता मासकमे’कम्पि नेवा’दाय दिवं इति.
१५. संवेगमु’पयातो’वचीमन्तेसी’ति गुणाकरो;
धनसारं इहं गय्ह गन्तुं युत्तन्ति मे पन.
१६. रहोगतो निसीदित्वा सुन्दरे निजमन्दिरे;
देहे दोसो उदिक्खन्तो ओवदन्तो’पि अत्तनो.
१७. भेदनं तनुनोदुक्खं दुक्खो तस्सो’दयो’पि च;
जातिधम्मो जराधम्मो व्याधिधम्मो अहं इति.
१८. एवमा’दीहि देहस्मिं दिस्वा दोसे अनेकधा;
पुरे भेरिं चरापेत्वा आरोचेत्वान राजिनो.
१९. भेरिनादसुगन्धेन याचकालिसमागते;
दानकिञ्जक्खओघेन सत्ताहं पीनयी ततो.
२०. दानग्गहिमबिन्दूनं निपातेना’पि धंसनं;
अयातं तं विलोकेत्वा रतनम्बुजकाननं.
२१. रुदतो ञातिसङ्घस्स जलितानलकानना;
गजिन्दो विय गेहम्हा निक्खमित्वा मनोरमा.
२२. |ओ०.०००३|
महन्तं सो महावीरो उपगञ्छि हिमालयं;
हरिचन्दनकप्पूरागरुगन्धेहि वासितं.
२३. सुफल्लचम्पकासोकपाटलीतिलकेहि च;
पूगपुन्नागनागादिपादपेहि च मण्डितं.
२४. सीहव्यग्घतरच्छेहि इभदीपिकपीहि च;
तुरङ्गमादिनेकेहि मिगेहि च समाकुलं.
२५. साळिकारविहंसेहि हंसकोञ्चसुवेहि च;
कपोतकरवीकादिसकुन्तेहि च कूजितं.
२६. यक्खरक्खसगन्धब्बदेवदानवकेहि च;
सिद्धविज्जाधरादीहि भूतेहि च निसेवितं.
२७. मनोसीलिन्दनीलोरुचारुपब्बतपन्तिहि;
सज्झुहेमादिनेकेहि भूधरेहि च भासुरं.
२८. सुवण्णमणिसोपाननेकतित्थसरेहि च;
सोभितं तत्थ कीळन्तनेकदेवङ्गनाहि च.
२९. सीतसीकरसञ्छन्ननिज्झरानं सतेहि च;
किण्णरोरगरङ्गेहि रम्मेहि विराजितं.
३०. सिखण्डिसण्डनच्चेहि लतानं मण्डपेहि च;
सेतवालुकसञ्छन्नमालकेहि च मण्डितं.
३१. सुवण्णमणिमुत्तादि अनेकरतनाकरं;
इच्छन्तानं जनालीनं पुञ्ञकिञ्जक्खमा’लयं.
३२. तम’ज्झोगय्ह सो धीरो सहस्सक्खेन मापिते;
दिस्वा इसिपरिक्खारे पण्णसालवरे तहिं.
३३. इसिवेसं गहेत्वान विहरन्तो समाहितो;
सत्ताह’ब्भन्तरे पञ्च अभिञ्ञ’ट्ठविधा’पि च.
३४. उप्पादेत्वा समापत्तिसुखेने’च तपोधनो;
नभसा दिवसे’कस्मिं गच्छन्तो जनतं इसि.
३५. |ओ०.०००४|
सोधेन्तम’ञ्जसं दिस्वा ओतरित्वा नभा तहिं;
इति तं जनतं पुच्छि कस्मा सोधेथ अञ्जसं.
३६. सुमेध त्वं नजानासि दीपङ्करतथागतो;
सम्बोधिमु’त्तमं पत्वा धम्मचक्कम’नुत्तरं.
३७. पवत्तेत्वान लोकस्स करोन्तो धम्मसङ्गहं;
रम्मं रम्मपुरं पत्वा वसती’ह सुदस्सने.
३८. भिक्खुसतसहस्सेहि चतूहि विमलेहि तं;
निमन्तयिम्ह दानेन मयं लोकेकनायक.
३९. तस्स आगमनत्थाय मग्गं सोधेम चक्खुम;
इति सोतस्स सो तस्स सुखं देन्तो जनो’ब्रविं.
४०. बुद्धो’ति वचनं सुत्वा पीतियो’दग्गमानसो;
सकभावेन सण्ठातुं नेवसक्खि गुणाकरो.
४१. तेना’रद्धञ्जसा धीरो याचित्वान पदेसकं;
लभित्वा विसमं ठानं समं कातुं समारभि.
४२. ना’लङ्कतेयेव तहिं पदेसे,
लोकेकनाथो सनरामरेहि;
सम्पूजितो लोकहितो महेसि,
वसीहि सद्धिं पटिपज्जि मग्गं.
४३. छब्बण्णरंसिजालेहि पज्जलन्तं तथागतं;
आगच्छन्तं तहि दिस्वा मोदमानो विचिन्तयि.
४४. यन्नूनि’मस्स धीरस्स सेतुं कत्वान कद्दमे;
सकत्तानं निपज्जये ससङ्घस्स महेसिनो.
४५. दीघरत्ताम’लं तं मे हिताय च सुखाय च;
इच्चे’वं चिन्तयित्वान निपन्नो’सो जिनङ्कुरो.
४६. पबोधेत्वान दिस्वान चारुलोचनपङ्कजे;
पुन’पे’वं विचिन्तेसि निपन्नो धितिमा तहिं.
४७. |ओ०.०००५|
इच्छेय्यं चे’हम’ज्जे’व हन्त्वा’नन्तरणे भवे;
सङ्घस्स नवको हुत्वा पविसेय्यं पुरं वरं.
४८. किम’ञ्ञातकवेसेन क्लेसनिब्बापणेन मे;
अयं बुद्धो’व’हं बुद्धो हुत्वा लोके अनुत्तरो.
४९. जनतं धम्मनावाय तारेत्वान भवण्णवाव;
निब्बाणपुरमा’नेत्वा सेय्यं मे परिनिब्बुतं.
५०. इच्चे’वं चिन्तयित्वान निपन्नो कद्दमे तहिं;
सुवण्णकदलिक्खन्धसन्निभो सो’ति सोभति.
५१. छब्बण्णरंसीहि विराजमानं,
दिस्वा मनुञ्ञं सुगतत्तभावं;
सञ्जातपीतीहि उदग्गचित्तो,
सम्बोधिया छन्दम’कासि धीरो.
५२. आगन्त्वान तहिं ठानं इसिं पङ्के निपन्नकं;
लोकस्स सेतुभूतो’पि सेतुभूतं तम’त्तनो.
५३. दिस्वा उस्सीसके तस्स ठत्वा लोकेकसेतुनो;
लोकेकलोचनो धीरो दीपङ्करतथागतो.
५४. गोतमो नाम नामेन सम्बुद्धो’यं अनागते;
भविस्सतीति व्याकासि सावके च पुरादिके.
५५. इदं वत्वान कत्वान ससङ्घो तं पदक्खिणं;
पूजेसि अट्ठमुट्ठिहि कुसुमेहि गुणप्पियो.
५६. इति कातून पायासि ससङ्घो लोकनायकोव;
रम्मकं नाम नगरं रम्मारामालयालयं
५७. जिनस्स वचनं सुत्वा उट्ठहित्वान पङ्कतो;
मुदितो देवसङ्घेहि कुसुमादीहि पूजितो.
५८. पल्लङ्कमा’भुजित्वान निसीदि कुसुमासने;
महातपो महापञ्ञो सुमेधो दमितिन्द्रियो.
५९. |ओ०.०००६|
देवा दससहस्सेसु चक्कवाळेसु मोदिता;
अभित्वविंसु तं धीरं निसिन्नं कुसुमासने.
६०. निसिन्नो उपधारेसि धम्मे बुद्धकरे तदा;
किमुद्धं वा अधो वा’पि दिसासु विदिसासु च.
६१. इच्चे’वं विचिनन्तो सो सकलं धम्मधातुकं;
अद्दक्खि सकसन्ताने पठमं दानपारमिं.
६२. एवमे’वं गवेसन्तो उत्तरिं पारमी विदू;
सब्बा पारमियो दिस्वा अत्तनो ञाणचक्खुना.
६३. संसारे संसरन्तो सो बहुं दुक्खं तितिक्खिय;
गवेसन्तो’मतं सन्तो पूरेत्वा दानपारमिं.
६४. सत्तनं कप्परुक्खो’व चिन्तामणि’व कामदो;
इच्छितिच्छितमन्नादिं ददन्तो ददतं वरो.
६५. तारकाहि बहुं कत्वा नभे चारुविलोचने;
उप्पाटेत्वा ददं धीरो याचकानं पमोदितो.
६६. महिया पंसुतो चा’पि समुद्दोदकतो’धिकं;
ददं सरीरमंसञ्च लोहितम्पि च अत्तनो.
६७. मोलिना’लङ्कते सीसे’धिकं कत्वा सिनेरुतो;
कम्पयित्वा महिं देन्तो सुते चा’पि सकङ्गताव.
६८. सीलनेक्कम्मपञ्ञादी पूरेत्वा सब्बपारमी;
वेस्सन्तरत्तभावे’ वम्पत्वा तम्भा चुतो पन.
६९. उप्पज्जित्वा सुरावासे सुन्दरे तुसिते पुरे;
वसन्तो सुचिरं कालं भुत्वाना’तन्तसम्पदं.
७०. कतञ्जलीहि देवेहि याचितो दिपदुत्तमो;