हत्थवनगल्लविहार |ओ०.०००१| वंसो

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

१. स्नेहुत्तराय हदया मलमल्लिकाय,

पज्जालितो मतिदसाय जिनप्पदीपो;

मोहण्धकारमखिलं मम नीहरन्तो,

निच्चं विभावयतु चारु पदत्थरासिं.

२. लङ्काभिसित्तवसुधाधिपतीसु राजा,

यो बोधिसत्तगुणवा सिरिसङ्घबोधि;

तस्सातिचारु चरिया रचनामुखेन,

वक्कामि हत्थवनगल्लविहार वंसं.

३. ब्रह्मन्वयेननुगतत्थमनोमदस्सी,

ख्यातेन सब्बयतिराजधुरन्धरेन;

व्यापारितोहमितिभानुगतं कथञ्च,

निस्साय पुब्बलिखितंविध वायमामि.

४. अर्ण्थ सुगतागमसुधापगानिद्धोतकुदिट्ठिविसकलङ्काय लंकाय भगवतो अङ्गीरसस्समहानागवनुय्याने समितिसमागतयक्ख रक्खसलोकविजयापदानस्स सिद्धक्खेन्तभूतो सीहळमहीमण्डलमण्डनाय मानो विविधरतनाकरोपलक्खमानमहग्घमणि भेदो मणि भेदो नाम जनपदो.

५. लद्धान सत्थु वरणङ्कमनञ्ञलब्भ,

मानण्दिना सुमनकूटसिलुच्चयेन;

उस्सापिता विजयकेतुमतल्लिकेव,

सुद्धोरुवालुकनदी यमलङ्करोति.

६. लङ्काय यक्खगणनीहरणे जिनस्स,

चम्मासनुग्गनहुनासनफस्सदाहा;

संसाररक्खसवपुब्भवबुब्बुलंच,

यस्मिं विहाति महियङ्गण थूपराजा.

७. |ओ०.०००२|

सदामहोघाय महापगाय,

पानीयपानाय समोसटानं;

समुच्चयो सारदवारिदानं,

नूनं गतो थावरथूपरूपं.

८. तस्सापगाय विमलम्बुनि दिस्समान,

मालोलविचितरलं पटिबिम्बरूपं;

भोगेहि वेठिय निजं भवनं फणीहि,

पूजत्थिकेहि विय राजति नीयमानं.

९. तस्स महियङ्गण महा विहारस्स परियन्तगामके सेलाभयो नाम खत्तियो पटिवसन्तो पुत्तं पटिलभित्वा अङ्गलक्खणपाठकानं दस्सेसि ते तस्स कुमारस्स अङ्गलक्खणानि ओलोकेत्वा ‘‘अयं कुमारो खमकसत्तो नहोति. धञ्ञपुञ्ञलक्खणसम्पन्नो, सकलम्पि सीहळदीपं एकच्छत्तं करित्वा महन्तमहन्तानि अच्छरियब्भुतानि महावीरचरितानि दस्सेस्सती’’ति व्याकरिंसु.

१०. ततो सेलाभय खत्तियो पुत्तस्स अभिसेकादिसम्पत्तिं सुत्वा कोटिप्पत्तपमोदपरवसोपि तस्मिं काले अनुराधपुरे रज्जं कारयता ‘‘वोहारतिस्समहाराजतो कदाचि केचि उपद्दवो जायिस्सतीति. जातपरिसङ्कोतं कुमारमादाय महियङ्गणमहाविहारे बोधि अङ्गणे परित्तग्गे सन्निपतितस्स नण्दमहाथेरपमुखस्स महाभिक्खुसङ्घस्स मज्झे निपज्जापेत्वा ‘‘एसो मे भन्ते कुमारो महासङ्घस्स च महा बोधिपादस्स च सरणं गच्छति तं सब्बेपि भदन्ता रक्खन्तु सङ्घबोधि नामको चायं होतु’’ति महासङ्घस्स च बोधि देवताय च निय्यादेत्वा पटिजग्गन्तो कुमारस्स सत्तवस्सिक काले कालमकासि.

११. अथ मातुलो नण्दमहाथेरो कुमारकं विहारमानेत्वा पटिजग्गन्तो तेपिटकं बुद्धवचनं उग्गण्हापेत्वा बाहिरसत्थेसु च परमकोचिदं कारेसि. सङ्घबोधिकुमारोपि कताधिकारत्ता तिक्खपञ्ञत्ता च ञाणविञ्ञाणसम्पन्नो हुत्वा वयप्पत्तो लोकस्स लोचनेहिनिपियमानाय रूपसम्पत्तिया सवञ्जलिपुटेहि अस्सादियमानसदाचारगुण सम्पत्तिया च पत्थ ट यसोघोसो अहोसि.

१२. किमिह बहुना?- कादम्बिनी कदम्बतो सिनिद्धनीलायतगुणंधम्मिल्लकलापे, परिपुण्णहरिणङ्कमण्डलतो हिलादकरपसादसोम्मगुणं मुखमण्डले चामीकरपिंजरकम्बुवरतो मेदुरोदारबण्धुरभावं गीवावयवे, कल्याणसिलुच्चयतो संहत विलासं उरत्थले, सुरसाधिसाखतो |ओ०.०००३| पीवरायतललितरूपं कामदानपदानद्व बाहुयुगळे, समदगन्धसिन्धुरतो गमनलीळ्हं कराकारद्व हत्थियुगळे, चारुतरथरुचिरोचमानचामीकरमुकुरतो तदाकारं सजाणुमण्डले जङ्घयुगळे, निच्चा सीनकमला कमलतो रत्तकोमळदलसिरं चरणयुगळे आदाय योजयता पारमिताधम्मसिप्पिता निम्मितस्स परमदस्सनीयगरूपविलासस्स तस्स अत्तभावस्स संवण्णनागन्थगारवमावहति.

१३. देहे सुलक्खणयुते नवयोब्बनड्ढे,

तस्सुज्जले च पसमाहरणोदयेन;

का वण्णना कमलरूपिनि जातरूपे,

लोकुत्तरं परिमलं परितो वहन्ते.

१४. दोसारयो हदयदुग्गपुरे विजित्वा,

तत्थाभिसिच्च सुहदं विय धम्मभूपं;

अत्थानुसासनिमिमस्स वदं गिराय,

तत्थप्पवत्तयि सुधी निजकायकम्मं.

इति राजकुमारुप्पत्ति परिच्छेदो पठमो.

१५. अथेकदा मातुलमहाथेरा वयप्पत्तं सिरिसङ्घबोधि कुमारं धम्मसवनावसाने आमन्तेत्वा एवमाह, ‘‘कुमार! महाभागधेय्य! इदानि त्वमसि अधीतसुगतागमो, विदितसकल बाहिरसत्थो. चतुब्बिधपण्डिच्चकोटिप्पत्तो, तथापि अभिमानधने खत्तियकुले जाति, सब्बपत्थव्यापिता योब्बनविलासेन समलङ्कतं सरीरं, अप्पटिमा रूपसिरि, अमानुसं बलञ्चेति महतीय बलवनण्थ परम्परा’सब्बाअविनयान मेकेकम्पि तेसमायतनं किमुत समवायो?‘‘येभुय्येन सत्थसलिल विक्खालनाति निम्मलापि कालुसियमुपयानि बुद्धी, अनुज्झितधवलतापि सरागाएव भवति नवयोब्बनगब्बितानं दिट्ठि, अपहरति च वातमण्डलि केव सुक्खपण्णं उबभुतरजो भन्ति अतिदूरमत्तनो इच्छाय योब्बनसमये पुरिसं पकति. इण्द्रियभरिणभारिनी सत्तमतिदुरन्ताय मुपभोगमिगतणहिका तस्मा अयमेवानस्सादित विसय रसस्स ते कालो गुरुपदेसस्स. मदनसरप्पभारजज्जरिते हदये जलमिव गलति गुरूनमनुस्सानं अकारणंछवति दुप्पकति नो कुलंवा सुतं वा मनयस्स वण्दनप्पभवोनदहति किं दहनो? किंवापसमहेतुनापि नातिवण्डतरो भवति वडबानळो सलिलेन, तस्मा गाळ्हतर मनुसासीतब्बोसि.

१६. अपगतमले हि मनसि एलिकमणिम्हि विय रजनिकरमयुखापविसन्ति, सुखमुपदेसगुणा, गुरुवचनममलम्पि सलिलमिव महन्तं जानिमुपजनयति सवनहतं सूलमिव अभब्बस्स, भब्बस्सतु |ओ०.०००४| करिनो विय सब्बाभरणमाननसोभासमुदयमधिकतर मुपवहति, अनादिसिद्ध तण्हाकसायितिण्द्रियानुचरञ्हि चित्तं नावहति कन्नामानत्थं, तस्मा राज कुमारानञ्च यतीनञ्च सतिबलेन इण्द्रियविजयो दिट्ठधम्मिकसम्परायिकम्बिलं कल्याणजातमुपजनयति, इण्द्रियविजयो च सम्भवति गुरुवुद्धोपसेवाय तब्बवनमविराधेत्वा पटिपज्जतो, तस्मा तया आपाणपरियन्तं वत्थुत्तयसरणपरायणता न पहातब्बा.

न रागापस्मारविबोधनं विसयदहनसलिल संसेवनं कातब्बं, पस्सतू हि कल्याणाभिनिवेसि चक्खूण्द्रियलाळन परवसस्स सलभस्स समुज्जलित दीपसिखापतनं सोतिण्द्रिय सुखानुयुत्तस्स तरुण हरीणस्स उसु पातसम्मुखीभवनं घाणिण्द्रिय परवसस्स मधुकरस्स मदवारणकण्णतालभन्नं रसनिण्द्रियतप्पणव्यसनिनो पुथुलोमस्स बलिसाघासव्यसनं फस्सीण्द्रियानुभवनलालसस्समतङ्गजस्सवारिणि बण्धनापायं इमेहि इण्द्रियेहि मिलितेहि एकस्स कामिनो सदिदेव पञ्चन्नं, विसयरसानमुपसेवाय पत्तब्बं महन्तं दुक्खजालं कथमुपवण्णयाम? इमानि च सुभासितानि पच्चवेक्खतु अनुक्खणं विचक्खणो.

१७. नागारिकं सुखमुदिक्खति किञ्चि धीरो,

जानाति देहपटिजग्गनमत्थतोवे;

संसेवतोपि युवतिं रतिमोहितस्स,

कण्डुयने विय बनस्स सुखाभिमानो.

१८. को सेवेय्य परं पोसो अवमानं सहेय्यवव,

न वे कलत्तनिगळं यदि दुक्खनिबण्धनं.

१९. आकड्ढमाना चिसिखा स्मिपं,

परम्मुखायेव सदा पवत्ता;

दूरम्पि गच्छन्ति गुणं विहाय,

पवत्तनं तादिसमेव थीन.

२०. असन्थुतं ता पुरिसम्पि अन्तो,

करोन्ति आदायकताव भित्ति;

नेत्तिं सवल्ली विय हण्थगापि,

दसासु सब्बासु च सङ्कनीया.

२१. अन्तोरुद्धा बहिद्धापि निस्सासा विय नारियो,

करोन्ति नासमेवस्स कोधीमातासु विस्ससे.

२२. मानस पापसंनिन्नं अपाया विवटा नना,

समन्ता पापमित्ताव मोक्खो सब्बभयाकथं.

२३. |ओ०.०००५| अपि च हदयतरुकोटर कुटीरो कोध कुण्डलीन कदाचि बहि कातब्बो. अपि तु’तितिक्खामन्तेन अचिप्फण्दन्तं उपनेतब्बो.

२४. सतं तितिक्खाकवचे विगुण्ठिता,

सियुं दुरालापखगा खलानं;

सभापसंसाकुसुमत्त मेता,

निबज्झरे ता गुण मालिकाय.

२५. लोकाधिपच्चं विपुलेधने च,

मनोनुकूले तनये च दारे;

लद्धापि यायेति न जातु तिततिं,

बाधेतु सातं न पपञ्च तण्हा.

२६. वण्णप्पसादा यस्सा सुखाव,

धना च हायन्तुप जीविकाच;

येनाभिभूतारिपुनेव सत्ता,

दोसग्गि सो ते हदयं जहातु.

२७. खेदो विपत्तीसु पटिकिरया न,

तस्मा न दीनप्प कतिं भजेय्य;

पञ्ञानुयातं वीरियं वदन्ति,

सब्बत्थ सिद्धिग्गहणग्गहण्थं.

२८. व्यापारा सब्बभूतानं सुखत्थाय विधीयरे;

सुखञ्च न विना धम्मं तस्मा धम्मपरो भवा’ति.

२९. एवमादिकं सप्पुरिसनीतिपथं आदिसन्ते महाथेरे तेन कल्याणधम्मेन असोतब्बतानादरियरचितभुकूटिक मुखेन वा दिसाचिक्खित्तचक्खुना च अहङ्कारपरवसेन गजनिमिलितमुब्भावयता वा अत्तनो पञ्ञाधिक्खेपमिवच अचिन्तयता चुळाविनिहितकोमळञ्जलिपुटेन तन्निन्नेन, तप्पोणेन सिरसा च पीति समुदित साधुवादविकसितकपोलेनमुखेन च. सकलावयवचित्थटरोमञ्च कञ्चुकितेन देहेन च भूमियं निपज्जित्वा दीघप्पमाण पमाण मावरत्तामग्गफललाभतोविय विसिट्ठतरं पमुदितमाविकतमासि.

इति अनुसासन परिच्छेदो दुतियो.

३०. ततो पट्ठाय यथावुत्तपटिपदं अविराधेत्वा समावरणेन सन्तुट्ठो तस्स सङ्घबोधि समञ्ञं गोपेतुकामो मातुलमहाथेरो धम्मिकोति वोहारं पट्ठपेसि.

३१. लक्खणपाठकानं वचनं सद्दहन्तो भागिनेय्यं पब्बजितुकामम्पि |ओ०.०००६| अपब्बाजेत्वा ‘‘इध वासतो अनुराधपुरे वासोयेव कुमारस्स योगक्खेमावहो, पुञ्ञानुरूपेन जायमानस्स विपाकस्स च ठानं होति, महाचेतियस्स वत्तपटिवत्तसमाचरणेनच महन्तो पुञ्ञक्खण्धो सम्पजिस्सति’’ति मञ्ञमानो तं कुमारमादाय गच्छन्तो अनुराधपुरं गन्तुकामो निक्खमि. सङ्घतिस्सोगोठाभयोति च लम्बकण्णा राज कुमारा अपरेपि दुचे तस्स पंसुकीळनतो पट्ठाय सहायातेन कुमारेन सद्धिं निक्खमिंसु ते तयो कुमारे आदाय गच्छन्तो महाथेरो पुरेतरमेव अनुराधपुरं पाविसि. महाथेरमनुगच्छन्तेसु तेसु कुमारेसु जेट्ठो सङ्घतिस्सो मज्झिमो सङ्घबोधि कनिट्ठो गोठाभयोति ते थेरं पच्छतो अनुगच्छन्ता तयोपि पटिपाटि या तिस्सवापिया सेतुमत्थकेन गच्छन्ति.

३२. तत्थ सेतुसालाय निसिन्नो कोचि अण्धोविचक्खणो तेसं तिण्णन्तं कुमारानं पदविञ्ञासद्दं सुत्वा लक्खणानुसारेन उपपरिक्खिपित्वा ‘‘एते तयोपि सीहळदीपे पथविस्सरा भविस्सन्ती’’ति तत्थ निसिन्नानं व्याकासि. तंवचनं पच्छा गच्छन्तो गोठाभयो सुत्वा इतरेसं गच्छन्तानं अनिवेदयित्वा पच्चागम्म ‘‘कतमो चिरं रज्जं कारेस्सति? चंसट्ठितिञ्च करोति’’ति? पुच्छित्वा पच्छिमोति वुत्ते हट्ठपहट्ठो उदग्गुदग्गो सीघतरं आगम्म तेहि सद्धिं गच्छन्तो तिखिण मन्तिताय गम्भीरभावतो च कञ्चि अजानापेत्वा अन्तोपुरं पाविसि. ते तयोपि पतिरूपे निवासे वासं गण्हिंसु.

३३. अथ कनिट्ठो ‘‘एते द्वेपि अप्पायुकत्ता रज्जे पतिट्ठितापि न चिरं जीवन्ति किर अहमेव तेसं रज्जं दुपेस्सामि’’ति तदनुरूपेन उपायेनपटिज्जन्तो तेसं रज्जलाभाय उपायं दस्सेन्तो अभिण्हं मत्तेति. जेट्ठोपि तस्मिं अतिपियासमानो तेनोपदिट्ठमेव समाचरन्तोराजानं दिस्वा लद्ध सम्मानो सब्बेसु राजकिच्चेसु पुब्बङ्गमो हुत्वा न चिरस्सेव राजवल्लभो अहोसि? तस्मिं काले रज्जं कारेन्तो विजय राजा नाम खत्तियो तस्मिं पसन्नो सब्बेसु राजकिच्चेसु तममेव पधानभूतं कत्वा सेनापतिं अकासि.

३४. धम्मिको पन रज्जेन अनत्थिकताय रज्जलाभाय चित्तम्पि अनुप्पादेत्वा केवलं महाथेरस्स अनुसासनमत्तेनेव राजुपट्ठानवेलायं अनुचरणमत्तमाचरन्तो राजगेहं पविसित्वा ततो तेहि सद्धिं निक्खम्म सायं महा थेरस्स विहारेयेव वसन्तो अत्तनो धम्मिकानुट्ठानं अहापेत्वा महाचेतियो पट्ठानगिलानुपट्ठानादिकं |ओ०.०००७| अनवज्ज धम्मंचरन्तो कालं वीतिनामेति.

तदा सङ्घतिस्सो सकलरज्जञ्च पुरञ्च अत्तनोहत्थगतं कत्वा एकस्मिं दिने लद्धोकासो राजानं अन्तोभवनेयेव गोठाभयेन मारापेत्वा सयं रज्जे पतिट्ठति.

इति अनुराधपुरप्पवेसपरिच्छेदो ततियो.

३५. अथ गोठाभयो धम्मिकं अनिच्छामानम्पि सेनापतिट्ठाने ठपेत्वा आयतिं अपेक्खमानो सयं भण्डागारिको अहोसि. अथ सङ्घतिस्सो राजा बहुं पुञ्ञ्च अपुञ्ञ्च पसवन्तो जम्बुफलपाककाले ससेनो सामच्चो सभोरोधो अभिण्हं पाचीन देसं गन्त्वा जम्बुफलानि खादति. रञ्ञो येभुय्येन गमना गमनेन उपद्दुता रट्ठवासिनो राजुपभोगारहेसु जम्बुफलेसु विसं योजेसुं. अथ सो सङ्घतिस्सो राजा तेन विसेन तत्थेव कालमकासि.

३६. अथ गोठाभयो अण्धविचक्खणस्स वचनं अनुस्सरन्तो अनुक्कमेन रज्जं दापेत्वा पच्छा अहं सुप्पतिट्ठो भविस्सामि’ति मञ्ञमानो सामच्चो ससेनो सङ्घबोधिकुमारं रज्जेन निमन्तेसि. सो तेमिय महाबोधिसत्तेन दिट्ठादीनवत्ता रज्जसुखापरिच्चागानुभूतं महन्तं दुक्खजालं अनुस्सरित्वा पुनप्पुनं याचियमानोपि पटिक्खिपियेव अभयो गामनिगमराजधानीसु सब्बेपि मनुस्से सन्निपातेत्वा तेहि सद्धिं नानाप्पकारं याचमानोपि सम्पटिच्छापेतुं नासक्खि. अथ सब्बेपि रट्ठवासिनो सामच्चामहाविहारं गन्त्वा महा सङ्घं सन्निपातेत्वा सङ्घ मज्झे सङ्घबोधिकुमारो महा सङ्घं भूमियं निपज्ज नमस्सित्वा लद्धोकासो एकमन्तं निसीदित्वा एवं वत्तुमारभी.

३७. अयञ्हि राजलक्खीनाम यथा यथा दिप्पते, तथा तथा कप्पुरदीपसिखेव कज्जिलंमलिनमेव कम्मजातं केवलमुब्बमति. तथाहि अयं संवधनवारिधारा तण्हाविसवल्लीनं, नेनाद मधुरभीतिका अयं इण्द्रियमिगानं, परामासधुमलेखा सुचरित चित्तकम्मस्स विब्भमसेय्या मोहनिद्दानं तिमिरुग्गति पञ्ञादिट्ठीनं, पुरस्सरपताका अविनयमहासेनाय, उप्पत्तिनिन्नना कोधवेग कुम्भिलानं, आपानभूमि मिच्छादिट्ठिवदनं. संगीति साला इस्सरिय विकारनाटकानं आवासदरीदोसासिविसानं, उस्सारणवेत्तलता सप्पुरिसवोहारानं, अकालजदागमो सुचरित हंसानं, पत्थावना कपटनाटकानं, कदलिका कामकरिनो वज्झवाला साधुभावस्स, राहुमुखं धम्मचण्द |ओ०.०००८| मण्डलस्स, नहि तं पस्सामि योहि अपरिचितायापि एताय निब्भरमुपगुल्हो न विप्पलद्धो, अपिच, अभिसेकसमये राजञ्ञानं मङ्गलकलसजलेहि विय विक्खालनमुपयाति दक्खिञ्ञं अग्गिहुततधुमेनेव मलिनीभवति हदयं पुरोहित कुसग्ग समज्जतेन विय अपनियते तितिक्खा, उण्हीस पट्ट बण्धनेन विय छादीयती जरागमदस्सनं, आतपत्त मण्डलेन विय तिरोकरीयति परलोकापेक्खणं, चामरपवनेन विय दुरमुद्धुयते सच्चादिता वेत्तलताप्पहारेन विय दुरमपयन्ति सग्गुणा एके रज्जसिरि मदिरा मदमत्ता सकत्थनिप्फादनपरेहि धनपिसिताघासगिज्झेहि सहानलीनीबकेहि दूतं विनोदनन्ति, परदाराभिगमनं विद्धताति, मीगवन परिस्समोति, सुरापानं विलासोति, निच्चप्पमत्तता, सुरभावोति सदारप्पिच्चागं अव्यसनितानि, गुरुवचनावधीरणं अपरप्पनेयत्तमिति अजितहच्चतं सुखोपसेवत्तमीति, नच्चगीत गणाकानुसत्ति रसिकतेहि परिभवसहत्तं खमेति, सेरीभावं पण्डिच्चामिति वण्दिजन नवचनं यसेंघोसोति तरलता उस्साहोति. अविसेसञ्ञुत्तं अपक्खपातित्तमिति? एव दोसगणम्पि गुणपक्खे अज्झारोपयन्तेहि सयम्पि अन्तो ह सन्तेहि पतारणकुसलेहि धुत्तेहि अमानुसोचिताहि थोमानाहि पतारियमाना, चित्तमदमत्त चित्ता निच्चेत न ताय तथेति अत्तनि अज्झारोपयन्ता अलिकाभिमानं मच्चधम्मसमानापि दिब्बं सावतिण्णमिव अमानुसमिव अत्तान मञ्ञमाना आरधदिब्बोचितकिरयानु भावा सब्बजनो पभसनीय भावमुपयन्ति. अत्त मिलम्बनञ्च अनु जीविजनेन करीयमानं अभिनण्दन्ति.

३८. मानसा देवताज्झारोपणप्पतारण सम्भूत सम्भावनो पहतञ्च अन्तो पविट्ठ अपरभुजयुगं विय अत्तनो बाहुयुगं सम्भावयन्ति. तचन्तरित लोचनंसकललाट मासंकन्ति, अलिकसम्भावनाभिमानभरिता न नमस्सन्ति देवतायो न पूजयन्ति समण ब्राह्मणे न मानयन्ती माननीये, न उपतिट्ठन्ति गुरुदस्सनेपि अनत्थकाया सान्तरीत, विसयो पभोगसुखाति अपहसन्ति यतिनो? जराभि भवपलपिमिति न सुणन्ति वुद्धजनुपदेसं, अत्तनो पञ्ञा परिभवोति उसुसन्ति सचिवो पहेसस्स,कुञ्जन्ति एकन्त हितवादिनं एवमादिना काकणेन बहुन्नं दोसानं माकर भूतंरज्जीविभवं अयं न इच्छामी’ति अवोच.

३९. अथ महाजनेन सादर मज्झेसितो महासङ्घो कुमारभिमुखो हुत्वा ‘‘महाभागधेय्य! थनचुचुके लग्गिताजलुक तिक्खडसनेनतत्थ वेदनुप्पादयन्ति लोहितमेव आकड्ढति, दारको पन कोमलेन मुखपुटेनमातु सुखसञ्ञं उप्पादयन्तो खीरमेव अव्हेति.

४०. |ओ०.०००९| एवमेव रज्जविभवं पत्तो अधीरो बालो बहुं अपुञ्ञमेव सञ्चिणानि, मेधावि धिरपुरिसो पन आयुसङ्खारस्स दुब्बलत्तञ्च धनसञ्चयस्स निस्सारत्तञ्च पञ्ञाय उप परिक्खित्वा दस कुसलकम्मानि पूरेन्तो तादिसेन महता भोगक्खण्धेन महन्तं कुसलरासिं उपचिणाति, त्वमसिकताधि कारो महासत्तधुरण्धरो, एतादिसं पुञ्ञायतनट्ठानं लद्धा धम्मेन समेन लोकं परिपालेन्तो सुगतसासनं पग्गण्हन्तो दानपारमिकोटिप्पत्तं कत्वा पच्छा अभिनिक्खमणञ्च करोन्तो बोधिपक्खियधम्मे परिपाचेही’’ति अनुसासि.

४१. अथ सो महज्झासयो पुरिसवरो महासङ्घस्स अनुसासनिं मद्दितु मसमण्थो अधिवासेसी. अनन्तरञ्च महाजनकायो सङ्घस्स अनुञ्ञाय सकलं सीलदीपं एकच्छत्तं कत्वा अभिसिञ्चिय धम्मिक सिरिसङ्घबोधिराजाति वोहारं पट्ठपेसि गोठाभयञ्च सेनापतिट्ठाने ठपेसि.

४२. दानं अदा धारयि निच्चसीलं,

वही तितिक्खं भजि अप्पमादं;

पजा हितज्झासय सोम्मरूपो,

धम्मो च सो विग्गभवा विरोची.

४३. विञ्ञाय लोकस्स हि सो सभावं,

पधानवत्तानु गतिप्पधानं;

निधातुकामो जन्तासु धम्मं,

सयम्पि धम्मा वरणम्हि सत्तो.

इति रज्जाभिसेक परिच्छेदो चतुत्थो.

४४. सो राजा महा विहारे महग्घ महाविसालं सलाकग्गं कारापेत्वा अनेकसहस्सानं भिक्खूनं निच्चं सलाक भत्तं पट्ठपेसि. मातुलमहाथेरस्संच सकनाम धेय्येन महन्तं परिवेण विहारं कारापेत्वा अनेकेहि कप्पियभण्डेहि सद्धिं सपरिवार वेणा कानि गामक्खेत्तानि सङसपरिभोगारहानि कत्वा दापेसि सत्तमेव निसीथकाले रहोगतो महाबोधिसत्तस्स दुक्करचरितानि सल्लक्खेन्तो तादिसापदानं अत्तनि सम्पादेतुमासिंसि. तथा हि

४५. देहीति वत्थुमसुकं गदितोत्थिकेहि,

नालं कथेतुम्ह नत्थि न देमिचाति;

चित्ते महाकरुणाय पहटावकासाव,

दुरंजगाम विय तस्स भवत्थु तण्हा.

एवमम्हाकं |ओ०.००१०| बोधिसत्तस्स विय बाहिर वत्थुपरिच्चागमहुस्सवो कदा मे भविस्सतिति च,

४६. आनीयते निसित सत्थनिपातनेन,

निक्कड्ढते च मुहु दान्हवायरत्या;

एवं पुनप्पुन गतागतवेगखिन्नं,

दुक्खं न तस्स हदयं वत पीळयित्थ.

एवं किरस्स महासत्तस्स मंस लोहितादि अज्झत्तिकवत्थुदानसमये दुक्खवेदना मनं न सम्बाधेसि. ममापि ईदिसं अज्झत्तिक दानमहामङ्गलं कदा भविस्सतीति च.

४७. सो संखपालभूजगो विसवेगवापि,

सीलस्स भेदनभयेन अकुप्पमानो;

इच्छं सदेहहरवाभिजने दयाय,

गन्तुं सयं अपदताय सुसोचनूनं.

एवं सील रक्खनापदानसिरिं कदा विन्दामीति च,

४८. पिवेय्य थञ्ञं अमतञ्च बालो,

वुद्धिं गतो सोव जिगुच्छिते तं;

स जातु एवं अनुभूय रज्जं,

ञाणस्स पाके सततं जहाति.

एवं मयापि अचिरस्सेव अवस्सं अभिनिक्खमनं कातब्बन्ति च,

४९. सो सेनको द्विजपसिब्बकसायिसप्पं,

अञ्ञासि दोसकलुसाय धियाब्भुतंतं;

का वण्णनास्स खलु दोसविनिग्गताय,

सब्बञ्ञुताय दसपारमिसाधिताय.

एवंविधा कल्यानञाणसम्पत्ति कदा मे समिज्झिस्सतीति च,

५०. वालेन सो किसकलण्दकजातियम्पि,

उस्सिञ्चितुं सलिलमुस्सहि सागरस्स;

तं मुद्धताय न भवे मतिया महन्या,

सम्पादनाय भिमतस्स समत्थताय.

एवं विधाय वीरियपारमिया कदा भाजनं भविस्सामिति च

५१. कलाबुराजेन हि खन्तिवादि,

वधं विधायापि अतित्तकेन;

हते पदेनोरसि खन्तिसोधे,

सो कूटसण्धिग्गहणं बुबोध.

एवं विधाय खत्तिपारमिया अत्तानं कदा अलंकरिस्सामिति च

५२. |ओ०.००११|

मिच्छाभियोगं न सहिंसु तस्स,

रामाभिधानस्सपि पादुकायो;

सच्चञ्चया नाञ्ञमभासिधीरो,