धातुवंसो |ओ०.०००१|

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

१. तथागतस्सागमनकथा

सम्बुद्धमतुलं सुद्धं धम्मं सङ्घं अनुत्तरं,

नमस्सित्वा पवक्खामि धातुवंसप्पकासनं;

तिक्खत्तुमगमा नाथो लङ्कादीपं मनोरमं,

सत्तानं हितमिच्छन्तो सासनस्स चिरट्ठितिं.

तत्थ तिक्खत्तुमगमा नाथो’ति अनमतग्गे संसारवट्टे परिनामेत्वा अप्पतिसरणभावप्पत्तानं लोकियलोकुत्तरसुखनिप्फादनभावेन नाथो पतिसरण भूतो भगवा बुद्धधम्मसङ्घरतनत्तयमग्गं आचिक्खन्तो लङ्कादीपं तिक्खत्तुं गतो. तत्थ पठमगमने ताव बोधिमण्डं आरुय्ह पुरत्थीमाभिमुखो निसीदित्वा सूरिये अनत्थमितेयेव मारबलं विधमेत्वा, पठमयामे पुब्बेनिवासञाणं अनुस्सरित्वा मज्झिमयामे चुतुपपातञाणं पत्वा पच्छिमयामावसाने पच्चयाकारे ञाणं ओतारेत्वा दसबलचतुवेसारज्जादि गुणपतिमण्डितं सब्बञ्ञुतञाणं पटिविज्झित्वा बोधिमण्डप्पदेसे अनुक्कमेन सत्तसत्ताहं वीतिनामेत्वा अट्ठमे सत्ताहे अजपालनिग्रोधमूले निसिन्नो धम्मगम्भिरतं पच्चवेक्खनेन अप्पोस्सुक्कतं आपज्जमानो दससहस्स ब्रह्मपरिवारेन सहम्पतिमहाब्रह्मुना आयाचितधम्मदेसनो हुत्वा |ओ०.०००२| बुद्धचक्खुना लोकं ओलोकेन्तो पञ्चवग्गियानं भिक्खुनं बहूपकारकं अनुस्सरित्वा उट्ठायासना कासीनं पुरं गन्त्वा अञ्ञाकोणडञ्ञप्पमुखे अट्ठारस ब्रह्मकोटियो अमतं पायेन्तो धम्मचक्कं पवत्तेत्वा पक्खस्स पञ्चमियं पञ्चवग्गिये सब्बेपि ते अरहन्ते पतिट्ठापेत्वा तं दिवसमेव यसकुलपुत्तस्स रत्तिभागे सोतापत्तिफलं दत्वा पुनदिवसे अरहन्तं दत्वा तस्स सहायके चतुपञ्ञासजने अरहन्तं पापेत्वा एवं लोके एकसट्ठिया अरहन्तेसु जातेसु वुत्थवस्सो पवारेत्वा, ‘चरथ भिक्खवे चारिक’ न्ति भिक्खु दिसासु पेसेत्वा सयं उरुवेलं गच्छन्तो अन्तरामग्गे कप्पासिकवनसण्डे भद्दवग्गिये कुमारे तिंसजने विनेत्वा एहिभिक्खुभावेन पब्बाजेत्वा उरुवेलं गन्त्वा अड्ढुड्ढानि पाटिहारियसहस्सानि दस्सेन्तो उरुवेलकस्सपादयो सहस्सजटिलपरिवारे तेभातिकजटिले विनेन्तो तत्थेव विहासि. अपरभागे अङ्गमगधरट्ठवासिनो उरुवेलकस्सपस्स महायञ्ञं उपट्ठापेसुं. सो पन इच्छाचाराभिभूतो चिन्तेसि? ‘‘सचायं महासमणो इमस्स समागमस्स मज्झे पाटिहारियं करेय्य लाभसक्कारो मे परिहायिस्सति’’ति. तस्सेवं पवत्तअज्झासयं ञत्वा पातोव उत्तरकुरुतो भिक्खं आहरित्वा अनोतत्ते आहारं परिभुञ्जित्वा सायन्ह समये फुस्सपुण्णमीउपोसथदिवसे लङ्कादीपस्सत्थाय लङ्कादीपमुपागमि.

तस्स पन दीपस्स महागङ्गाय दक्खिणपस्से आयामतो तियोजने पुथुलतो एकयोजनप्पमाणे महानागवनुय्याने यक्खसमागमस्स मज्झे तस्स उपरि महियङ्गणथूपस्स पतिट्ठानट्ठाने आकासेयेव ठीतो वुट्ठिवातन्धकारं दस्सेत्वा तेसं भयं उप्पादेसि. ते भयेन उपद्दुता ‘‘कस्स नु खो इमं कम्म’’न्ति इतो चितो ओलोकेन्तो अद्दसंसु भगवन्तं आकासे निसिन्नं. दिस्वान भगवन्तं अभयं याविंसु. तेसं भगवा आह?

‘‘सचे |ओ०.०००३| तुम्हे अभयं इच्छथ मय्हं निसज्जट्ठानस्स ओकासं देथा’’ति. सब्बेपि ते तस्स निसज्जट्ठानं अदंसु. भगवा निसज्जाय ओकासं गहेत्वा तेसं भयं विनोदेत्वा तेहि दिन्ने भुमिभागे चम्मखण्डं पत्थरित्वा निसीदि. निसिन्नोव पन भगवा चम्मखण्डं पसारेसि. ते यक्खा भीततसिता अञ्ञत्थ गन्तुं असहमाना समन्ततो सागरतीरे रासिभूता अहेसुं. सत्था गिरिदीपं इद्धानुभावेन आहरित्वा दस्सेसि. तेसु तत्थ पतिट्ठितेसु पुन यथाट्ठानेव ठपेत्वा पत्थरितचम्मखण्डम्पि संखिपि. तस्मिं खणे ततो ततो देवा सन्निपतिंसु. तेसं समागमे धम्मं देसेसि. अनेकेसं पाणकोटीनं धम्माभिसमयो अहोसि. सरणेसु च सीलेसु च पतिट्ठिता असङ्खेय्या अहेसुं. सुमनकूटे पन महासुमनदेवो सोतापत्तिफलं पत्वा अत्तनो पूजनीयं भगवन्तं याचि. भगवा तेन याचितो सीसं पाणिना परामसित्वा केसधातुंगहेत्वा तस्स अदासि. दत्वा च पन लङ्कादीपं तिक्खत्तुं पदक्खिणं कत्वा परित्तं कत्वा आरक्खं संविधाय पुन उरुवेलमेव आगतो. सो पन केसधातुयो सुवण्णचङ्गोटकेनादाय सत्थु निसिन्नट्ठाने नानारतनेहि विचित्तं थूपं पतिट्ठापेत्वा उपरि इन्दनीलमणिथूपिकाहि पिदहित्वा गन्धमालादीहि पूजेन्तो विहासि. परिनिब्बुते पन भगवति सारिपुत्तस्स अन्तेवासिको सरभू नाम थेरो खीणासवो चितकतो इद्धिया तथागतस्स गीवट्ठिं आदाय तस्मिं इन्दनीलमणिथूपे पतिट्ठापेत्वा मेघवण्णपासाणेहि द्वादसहत्थं थूपं कारापेत्वा गतो. ततो देवानम्पियतिस्सरञ्ञो भाता चूळाभयो नाम कुमारो तमब्भुतं चेतियं दिस्वा अभिप्पसन्नो तं पटिच्छादेन्तो तिंसहत्थं चेतियं पतिट्ठापेसि. पुन दुट्ठगामणी अभयमहाराजा तं पटिच्छादेत्वा असीतिहत्थं कञ्चुकचेतियं कारापेसि. महियङ्गण |ओ०.०००४| थूपस्स पतिट्ठानाधिकारो एवं वित्थारतो वेदितब्बो?

बोधिं पत्वान सम्बुद्धो बोधिमूले नरासभो

निसीदित्वान सत्ताहं पाटिहीरं ततो अका.

ततो पुब्बुत्तरे ठत्वा पल्लङ्का ईसके जिनो

अनिमिसेन नेत्तेन सत्ताहं तं उदिक्खयि.

चङ्कमित्वान सत्ताहं चक्खमे रतनामये

विचिनित्वा जिनो धम्मं वरं सो रतनाघरे.

अजपालम्हि सत्ताहं अनुभोसि समाधिजं

रम्मे च मुचलिन्दस्मिं विमुत्तिसुखमुत्तमं.

राजायतनमूलम्हि सत्तरत्तिन्दिवं वसी

दन्तपोनोदकं सक्को अदासि सत्थुनो तदा.

चतुहि लोकपालेहि सिलापत्तं समाहटं चतुक्कमेककं कत्वा अधिट्ठानेन नायको.

वाणिजेहि तदा दिन्नं मन्थञ्च मधुपिण्डिकं

तहिं पन गहेत्वान भत्तकिच्चं अका जिनो.

गण्हिंसु सरणं तस्स तपुस्सभल्लिका उभो

सरणं अगमुं ते तं सत्थु दिन्नसिरोरुहा.

गन्त्वान ते सकं रट्ठं थूपं कत्वा मनोरमं

नमस्सिंसु च पूजेसुं द्वेभातिकोपासका.

इति सो सत्तसत्ताहं वीतिनामेसि नायको?

ब्रह्मुना याचितो सत्था धम्मचक्कं पवत्तितुं.

ततो बाराणसिं गन्त्वा धम्मचक्कं पवत्तयि

कोण्डञ्ञो देसिते धम्मे सोतापत्तिफलं लभि.

ब्रह्मानो’ट्ठारसकोटी देवता च असङ्खिया

सोतापत्तिफलं पत्ता धम्मचक्के पवत्तिते.

पत्तो |ओ०.०००५| पाटिपदे वप्पो भद्दियो दुतिये फलं,

ततिये च महानामो अस्सजी च चतुत्थीयं.

ते सब्बे सन्निपातेत्वा पञ्च’मे पञ्चवग्गिये,

अनत्तसुत्तं देसेत्वा बोधियग्ग फलेन ते.

बोधिं पापेत्वा पञ्चाहे यसत्थेरादिके जने,

ततो मग्गन्तरे तिंसकुमारे भद्दवग्गिये.

उरुवेलं ततो गन्त्वा उरुवेलाय सञ्ञितं,

उरुवेलेननुञ्ञातो उरुवेलनागं दमि.

तं तं दमी जिनो नागं दमनेन उरादिगं,

तथागतं निमन्तिंसु दिस्वा ते पाटिहारियं.

इधेव वनसण्डस्मिं विहारेत्वा महामुनी,

उपट्ठाहामसे सब्बे निच्चभत्तेन तं मयं.

उरुवेलकस्सपस्स महायञ्ञे उपट्ठिते,

तस्स’त्तनो नागमने इच्छाचारं विजानिय.

उत्तरकुरुतो भिक्खं हरित्वा दिपदुत्तमो,

अनोतत्तदहे भुत्वा सायन्ह समये सयं.

बोधितो नवमे मासे फुस्सपुण्णमियं जिनो,

लङ्कादीपं विसोधेतुं लङ्कादीपमुपागमि.

यक्खे दमित्वा सम्बुद्धो धातुं दत्वान नायको,

गन्त्वान उरुवेलं सो वसी तत्थ वने जिनो.

पठमगमनकथा समत्ता.

दुतियगमने पन बोधितो पञ्चमे वस्से जेतवनमहाविहारे वसन्तो चूळोदर’महोदरानं मातुलभागिनेय्यानं नागानं मणिपल्लङ्कं निस्साय सङ्गामं पच्चुपट्ठितं दिस्वा सयं पत्तचीवरमादाय चित्तमासस्स काळपक्खे उपोसथदिवसे |ओ०.०००६| नागदीपं गन्त्वा तेसं सङ्गाममज्झे आकासे निसिन्नो अन्धकारं अकासि. ते अन्धकाराभिभूते समस्सासेत्वा आलोकं दस्सेत्वा अत्तनो सरणभूतानं तेसं सामग्गिकरणत्थं फलभरितरुक्खं चालेन्तो विय धम्मं देसेसि. ते उभोपि धम्मे पसीदित्वा तम्पि पल्लङ्कं तथागतस्स अदंसु. भगवा पल्लङ्के निसिन्नो दिब्बन्नपानेहि सन्तप्पितो भत्तानुमोदनं कत्वा असीतिकोटियो नागे सरणेसु च सीलेसु च पतिट्ठापेसि. तस्मिं समागमे महोदरस्स मातुलो मणिअक्खिको नाम नागराजा भगवन्तं पुन कल्याणिदेसमागमनत्थं. अयाचि. भगवा पन तुण्हीभावेन अधिवासेत्वा ‘‘जेतवनमेव गतो.

एवञ्हि सो नागदीपं उपेतो,

माराभिभु सब्बविदु सुमेधो;

दमेत्व नागे करुणायुपेतो,

गन्त्वा वसी जेतवने मुनिन्दो.

दुतियगमनकथा समत्ता.

ततियगमने पन बोधितो अट्ठमे वस्से जेतवनमहाविहारे विहरन्तो भगवा? ‘‘मम परिनिब्बानतो पच्छा तम्बपण्णिदीपे सासनं पतिट्ठहिस्सति, सो दीपो बहु भिक्खुभिक्खुनीउपासकोपासिकादि अरियगणसेवितो कासावपज्जोतो भविस्सति, मय्हं चतुन्नं दाठाधातुनं अन्तरे एका दाठा च दक्खिणअक्खधातु च नलाटधातु च रामगामवासीहि लद्धो एककोट्ठासो च अञ्ञे बहुसरीरधातु च केसधातुयो च तत्थेव पतिट्ठहिस्सन्ति अनेकानि सङ्घारामसहस्सानि च. बुद्धधम्मसङ्घरतने पतिट्ठितसद्धो महाजनो भविस्सति. तस्मा लङ्कादीपं गन्त्वा तत्थ समापत्तिं समापज्जित्वा आगन्तुं वट्टती ‘‘ति चिन्तेत्वा आनन्दत्थेरं आमन्तेसि? ‘‘आनन्द चतुपटिसम्भिदप्पत्तानं पञ्चसतमहाखीणासवानं भिक्खूनं पटिवेदेसि. अम्हेहि सद्धिं गन्तब्ब ‘‘न्ति. आनन्दत्थेरो कपिलवत्थुकोळिय नगरवासीनं पञ्चसतमहाखीणासवानं भिक्खूनं पटिवेदेसि. ते पटिवेदिता पञ्चसतखीणासवा पत्तचीवरधारा हुत्वा सत्थारं वन्दित्वा |ओ०.०००७| अञ्जलिं पग्गय्ह नमस्समाना अट्ठंसु. सत्थुनो पन सललाय नाम गन्धकुटिया अविदूरे रत्तसेतनीलुप्पलकुमुदपदुमपुण्डरीकसतपत्तसहस्सपत्तजलजेहि सोगन्धिक नानापुप्फेहि सञ्चन्ना,सुभसोपाना, पसादितसमतित्तिककाकपेय्यसुरमणीयसीतलमधुरोदका सुफुल्लपुप्फफलधारित नानाविधविचित्तसालसललचम्पकासोकरुक्खानागरुक्खादीहि सुसज्जितभूमिपदेसा अच्चन्तरमणिया पोक्खरणी अत्थि. तत्थ अधिवत्थो महानुभावो सुमनोनाम नागराजा सोळससहस्समत्ताहि नागमाणविकाहि परिवुतो महन्तं सिरिसम्पत्तिं अनुभवमानो तथागतस्स रूपसोभग्गप्पत्तं अत्तभावं ओलोकेत्वा महन्तं सुखसोमनस्सं अनुभवमानो अत्तनो मातरं नन्दनागमानविकं गरुट्ठाने ठपेत्वा तस्सा वेय्यावच्चं कुरुमानो तस्मिंयेव पोक्खरणिं अज्झावसति. सत्था पन अत्तनो गमनं संविधानानन्तरे सुमनं नागराजानं अविदुरे ठितं आमन्तेत्वा सपरिवारो आगच्छा हीति आह. सो साधुति सम्पटिच्छित्वा अत्तनो परिवारे छकोटिमत्ते नागे गहेत्वा सुपुप्पीतचम्पकरुक्खं तथागतस्स सूरियरंसिनिवारणत्थं छत्तं कत्वा गण्हि. अथ भगवा रविरस्मिपत्थटसुवण्णपब्बतो विय विरोचमानो अत्तनो पत्तचीवरमादाय आकासं अब्भूग्गञ्छि. सत्थारं परिवारेत्वा ठीता ते पञ्चसतखीणासवापि सकं सकं पत्तचीवरमादाय आकासं उग्गन्त्वा सत्थारं परिवारयिंसु. सत्था पञ्चसतखीणासवपरिवुतो विसाखपुण्णमुपोसथदिवसे कल्याणियं गन्त्वा महारहे मण्डपमज्झे पञ्ञत्तवर बुद्धासने पञ्चसतखीणासवपरिवुतो हुत्वा निसीदि.

अथ मणिअक्खिको नाम नागराजा बुद्धपमुखं भिक्खु सङ्घं अनेकेहि दिब्बेहि खज्जभोज्जेहि सन्तप्पेत्वा एकमन्तं निसीदि. सत्था तस्स भत्तानुमोदनं कत्वा सुमनकुटे पदलञ्छनं दस्सेत्वा तस्मिं पब्बतपादे अनेकपादपाकिण्णभूमिप्पदेसे निसिन्नो दिवाविहारं कत्वा ततो वुट्ठाय दीघवापिचेतियट्ठाने समापत्तिं समापज्जि. महापथवी उदकपरियन्तं कत्वा सतवारं सहस्सवारं सङ्कम्पि. तत्थ महासेनं नाम देवपुत्तं आरक्खत्थाय निवत्तेत्वा ततो |ओ०.०००८| वुट्ठाय महाथूपट्ठाने तथेव समापत्तिं समापज्जि. महापथवि तथेव कम्पि. तत्रापि विसालरूप देवपुत्तं आरक्खं गण्हनत्थाय ठपेत्वा ततो वुट्ठाय थूपाराम चेतियट्ठाने तथेव निरोधसमापत्तिं समापज्जि. महापथवी तथेव कम्पि. तत्थ च पथविपाल देवपुत्तं आरक्खत्थाय. निवत्तेत्वा ततो वुट्ठाय मरिचवट्टिचेतियट्ठानं गन्त्वा पञ्चहि भिक्खुसतेहि सद्धिं समापत्तिं अप्पयि. पथवि तथेव कम्पि. तस्मिं ठाने इन्दकदेवपुत्तं आरक्खं गण्हनत्थाय ठपेसि. ततो वुट्ठाय काचरगामचेतियट्ठाने तथेव समापत्तिं समापज्जि. पथवि तथेव कम्पि. (तस्मिं ठाने महाघोस देवपुत्तं आरक्खं गण्हनत्थाय निय्यादेसि) एतस्मिं महाचेतियट्ठाने महाघोसं नाम देवपुत्तं आरक्खं गहणत्थाय निवत्तेत्वा ततो वुट्ठाय तिस्समहाविहारचेतियट्ठाने तथेव समापत्तिं समापज्जि. पथवि तथेव कम्पि. तत्थ मणिमेखलं नाम देवधीतरं आरक्खं गाहापेत्वा ततो नागमहाविहारचेतियट्ठाने तथेव समापत्तिं समापज्जि. पथवि तथेव कम्पि. तस्मिम्पि महिन्दं नाम देवपुत्तं आरक्खं गहणत्थाय ठपेसि. ततो वुट्ठाय महागङ्गाय दक्खिणदिसाभागे सेरु नाम दहस्स अन्ते वराह नाम सोण्डिमत्थके अतिमनोरमं उदकबुब्बुळकेलासकूटपटिभागं चेतियं पतिट्ठहिस्सती’ति पञ्चसतखीणासवेहि सद्धिं निरोधसमापत्तिं समापज्जि. बहलघनमहापथवि परिब्भमितकुम्भकारचक्कं विय पभिन्तमदमहा हत्थिनागस्स कुञ्चनादकरणं विय उच्छुकोट्टन यन्त-मुखसद्दो |ओ०.०००९| विय (च) सतवारं सहस्सवारं नदमाना सोमनस्सप्पत्ता विय सकललङ्कादीपं उन्नादं कुरुमाना संकम्पि. ततो वुट्ठाय सुमननागरञ्ञो हत्थेसु ठित चम्पकरुक्खतो पुप्फानि आदाय तत्थ पूजेत्वा पुनप्पुनं तं ओलोकेसि. सो सत्थारं वन्दित्वा मया भन्ते किं कत्तब्बन्ति पुच्छि. इमस्स ठानस्स आरक्खं करोहीति आह. सो तं सुत्वा भन्ते तुम्हाकं गन्धकुटिं मम आरक्खं करोन्तस्स रूपसोभग्गप्पत्तं असीत्यानुब्यञ्जनब्यामप्पभाद्वत्तिंसमहापुरिसलक्खणविचित्तं दस्सनानुत्तरियभूतं पस्सन्तस्स मनोसिलातले सीहनादं नदन्तो तरुणसीहो विय गज्जन्तो पावुस्सकमहामेघो विय आकासगङ्गं ओतरन्तो विय रतनदामं गन्थेन्तो विय च अट्ठङ्गसमन्नागतं सवनीयसरं विस्सज्जेत्वा ब्रम्हघोसं निच्छारेन्तो नानानयेहि विचित्तकथं कथयमानानं सवनानुरित्तयभूतं संसारण्णवनिमुग्गानं तारणसमत्थं मधुर धम्मदेसनं सुणन्तस्स, ञाणिद्धिया कोटिप्पत्ते सारिपुत्तमोग्गल्लानादयो असीतिमहासावके पस्सन्तस्स, तत्थेव मय्हं वसनं रुच्चति. न सक्कोमि अञ्ञत्थ तुम्हेहि विना वसितुन्ति आह. भगवा तस्स कथं सुत्वा नगराज, इमं पदेसं तया चिरं वसितट्ठानं. ककुसन्धस्स भगवतो धातु इमस्मिंयेव ठाने पतिट्ठिता, त्वमेव तस्मिं काले वरनिद्दो नाम नागराजा हुत्वा तस्सा धातुया आरक्खं गहेत्वा गन्धमालादीहि पूजं करोन्तो चिरं विहासि. पुन कोणागमनस्स भगवतो धातु इमस्मिंयेव ठाने पतिट्ठिता त्वमेव तस्मिं काले जयसेनो नाम देवपुत्तो हुत्वा तस्सा धातुया आरक्खं गहेत्वा गन्धमालादीहि पूजं कत्वा तत्थेव चिरं विहासि. पुन कस्सपस्स भगवतो धातु इमस्मिंयेव ठाने पतिट्ठिता. त्वमेव तस्मिं काले दीघसालो नाम नागराजा हुत्वा ताय धातुया आरक्खं गहेत्वा गन्धमालादीहि पूजं करोन्तो विहासि. मयि पन परिनिब्बुते काकवण्णतिस्समहाराजा मय्हं नलाटधातुं इमस्मिंयेव |ओ०.००१०| ठाने पतिट्ठापेस्सति, तस्मा त्वं इमस्स ठानस्स आरक्खं करोहीति वत्वा पञ्चसीलेसु पतिट्ठापेत्वा पञ्चसतखीणासवेहि सद्धिं चेतियट्ठानं पदक्खिणं कत्वा त्वं अप्पमत्तो होहीति वत्वा आकासं उप्पतित्वा जेतवनमेव गतो.

तस्स पन नागरञ्ञो माता इन्दमानविका नाम आगन्त्वा तथागतं वन्दित्वा एकमन्तं ठिता, भन्ते मम पुत्तो सुमनो नाम नागराजा कुहिन्ति आह. तव पुत्तो तम्बपण्णिदीपे महावालुकगङ्गाय दक्खिणभागे सेरु नाम दहस्स समीपे वराह नाम सोण्डियं समाधि अप्पितत्ता अत्तनो परिवारे छकोटिमत्ते नागे गहेत्वा सत्थारं वन्दित्वा भन्ते इतो पट्ठाय तुम्हाकं दस्सनं दुल्लभं, खमथ मेति अच्चयं देसेत्वा महतिं नागसम्पत्तिं गहेत्वा पुत्तस्स सुमननागराजस्स सन्तिकं गन्त्वा महतिं इस्सरियसम्पत्तिं अनुभवन्ति तत्थेव आरक्खं गहेत्वा चिरं विहासि.

महापञ्ञो महासद्धो महावीरो महाइसि,

महाबलेन सम्पन्नो महन्तगुणभुसितो;

गन्त्वान तम्बपण्णिं सो सत्तानुद्दयमानसो,

गन्त्वा नागवरं दीपं अगा जेतवनं विदु.

अतिसयमतिसारो सारदानं करोन्तो,

अतिअधिरमणियो सब्बलोकेकनेत्तो;

अतिगुणधरणीयो सब्बसत्ते तमग्गं,

अतिविपुलदयो तानेतुमागा सुदीपं.

ततियगमनकथा समत्ता.

इति अरियजनपसादनत्थाय कते धातुवंसे तथागतस्स गमनं नाम पठमो परिच्छेदो.

आगन्त्वा तम्बपण्णिं सो सत्तानुद्दयमानसो

पुन गन्त्वा नागदीपं अगा जेतवनं वरं

अतिसयमतिसारो सारदानेक रत्तो

अतिधितिरमणियो सब्बलोकेकनेत्तो

अतिगुणरमणीयं सब्बसन्तेकमग्गं

अतिविपुलदयत्ता लङ्कमागा सुदीपं

इति सीहळभासाय कते धातुवंसे दिस्सते.

२. |ओ०.००११| परिनिब्बानकथा

सत्था पन ततो पञ्चचत्तालीसवस्सानि तिपिटकपरियत्तिधम्मं देसेत्वा वेनेय्यजने संसारतो चतुअरियमग्गफलपटिलाभवसेन उद्धारेत्वा निब्बाने पतिट्ठापेत्वा पच्छिमे काले वेसालिनगरं उपनिस्साय चापालचेतियं निस्साय विहरन्तो मारेन परिनिब्बानत्थाय आराधितो सतो सम्पजानो आयुसङ्खारे विस्सज्जेसि. तस्स विस्सट्ठभावं आनन्दोयेव अञ्ञासि. अञ्ञो कोचिपि जानन्तो नाम नत्थि. तस्मा भिक्खुसङ्घम्पि जानापेस्सामीति जेतवनमहाविहारं गन्त्वा सब्बं भिक्खुसङ्घं सन्निपातापेत्वा भिक्खवे तथागतस्स न चिरस्सेव तिण्णं मासानं अच्चयेन परिनिब्बानं भविस्सति, तुम्हे सत्ततिंसबोधि पक्खियधम्मेसु समग्गा हुत्वा एकीभावा होथ, तुम्हे विवादं मा करोथ. अप्पमादेन तिस्सो सिक्खा सम्पादेथाति वत्वा पुन दिवसे वेसालियं पिण्डाय चरित्वा पिण्डपाता पटिक्कमित्वा भण्डगामं गतो. भण्डगामतो हत्थिगामं हत्थिगामतो अम्बगामं अम्बगामतो जम्बुगामं जम्बुगामतो निग्रोधगामं निग्रोधगामतो भोगनगरं भोगनगरतो पावानगरं पावानगरतो कुसिनारानगरं पत्तो. तत्थ यमकसालानमन्तरे ठीतो आनन्दत्थेरं आमन्तेत्वा उन्तरसीसकं कत्वा मञ्चकं पञ्ञापेहि किलन्तोस्मि आनन्द निपज्जिस्सामि’ति आह. तं सुत्वा आनन्दत्थेरो उत्तरसीसकं कत्वा मञ्चकं पञ्ञापेत्वा चतुग्गुणं सङ्घाटिं अत्थरित्वा पञ्चचत्तालीसवस्सानि असयितबुद्धसेय्यं सयन्तो दक्खिणपस्सेन सतो सम्पजानो अनुट्ठानसञ्ञं मनसिकरित्वा सीहसेय्यं कप्पेसि.

अतीतमद्धान भवे चरन्तो,

अनन्तसत्ते करुणायुपेतो;

कत्वान पुञ्ञानि अनप्पकानि,

पत्तो सिवं लोकहिताय नाथो.

एवं |ओ०.००१२| हि सो दसबलोपि विहीनथामो,

यमस्स सालान निपज्जि मज्झे;

कत्वान सञ्ञञ्हि अनुट्ठहानं,

स इद्धिमा मारमुखं पविट्ठो.

तस्मिं खणे समकसाला सुपुप्फिता अहेसुं. न केवलं यमकसालायेव सुपुप्फीता, अथ खो दससहस्सी लोकधातु चक्कवाळेसु सालरुक्खापि पुप्फिता. न सालरुक्खायेव सुपुप्फिता, अथ खो यं किञ्चि पुप्फुपगफलूपग रुक्खजातं सब्बम्पि पुप्फञ्च फलञ्च गण्हि. जलेसु जलपदुमानि थलेसु थलपदुमानि खन्धेसु खन्धपदुमानि साखासु साखापदुमानि लतासु लतापदुमानि आकासे ओलम्बपदुमानि पिट्ठिपासाणे हिन्दित्वा सतपत्तपदुमानि सुपुप्फितानि अहेसुं. पथवितो याव ब्रह्मलोको ताव दससहस्सि चक्कवाळा एकमालागुणा विय अहेसुं. देवा आकासतो दिब्बमन्दारवपारिच्छत्तककोविळारपुप्फानि च चन्दनचुण्णानि च समाकिरन्ति. दिब्बतुरियसङ्गितियो च अन्तलिक्खे पवत्तन्ति. अनेकानि अच्छरियसहस्सानि अहेसुं. एवं पूजाविसेसे पवत्तमाने पठमयामे सुभद्दपरिब्बाजकं विनेत्वा मज्झिमयामे दससहस्सि लोकधातु देवतानं अनुसासित्वा पच्छिमयामावसाने पठमज्झानं समापज्जित्वा ततो वुट्ठाय दुतियज्झानं चतुत्थज्झानं समापज्जि. ततो वुट्ठाय आकासानञ्चायतनं विञ्ञाणञ्चायतनं आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनं समापज्जित्वा ततो वुट्ठाय निरोधसमापत्तिं समापज्जि. ततो वुट्ठाय पठमज्झानं दुतियज्झानं ततियज्झानं चतुत्थज्झानञ्च समापज्जि. ततो वुट्ठाय एत्थन्तरतो अनुपादिसेसनिब्बानधातुया परिनिब्बायि.

महामोहतमं हन्त्वा सत्तानं हदयस्सितं,

रवीव जोतमानो सो लोकस्स अनुकम्पको;

वस्सानि |ओ०.००१३| पञ्चतालीसं कत्वा सत्तहितं बहुं,

अधुना अग्गिक्खन्धोव परिनिब्बायि सो जिनो.

एवं पन भगवति परिनिब्बुते विस्सकम्मदेवपुत्तो तथागतस्स सरीरप्पमाणं वरदोणिं रतनेहि मापेत्वा विसुद्धकप्पासेहि तथागतस्स सरीरं वेठेत्वा रतनदोणियं पक्खिपित्वा गन्धतेलेहि पूरेत्वा अपराय दोणिया पिदहित्वा सब्बगन्धदारुचितकं कत्वा येभुय्येन देवतायो लोहितचन्दनघटिकायो आदाय चितकायं पक्खिपित्वा अग्गिं गाहापेतुं नासक्खिंसु. कस्मा? महाकस्सपत्थेरस्स अनागतत्ता. सो आयस्मा महाकस्सपत्थेरो येभुय्येन बहुन्नं देवानं पियो मनापो. थेरस्स हि दानं दत्वा सग्गे निब्बत्तानं पमाणो नाम नत्थि. तस्मा देवता तस्मिं समागमे अत्तनो कुलूपगत्थेरं अदिस्वा अम्हाकं महाकस्सपत्थेरो कुहिन्ति ओलोकेन्तो अत्तनो परिवारेहि पञ्चमत्तेहि भिक्खुसतेहि सद्धिं मग्गं पटिपन्नोति ञत्वा याव थेरो इमस्मिं न सम्पत्तो चितकं ताव न पज्जलतुति अधिट्ठहिंसु. तस्मिं काले थेरो येभुय्येन तेरसधुतङ्गधरेहि पञ्चमत्तेहि भिक्खुसतेहि सद्धिं आगन्त्वा चितकं तिक्खत्तुं पदक्खिणं कत्वा पादपस्से ठीतो, भन्ते तुम्हाकं दस्सनत्थाय इतो कप्पसतसहस्समत्थके पदुमुत्तरसत्थुनो पादमुले अभिनीहारतो पट्ठाय अविजहित्वा आगतो. इदानि मे अवसानदस्सनन्ति पादे गहेत्वा वन्दितुं अधिट्ठासि.

महाकस्सपथेरो सो भिक्खुसङ्घपुरक्खतो;

एकंसं चीवरं कत्वा पग्गहेत्वान अञ्जलिं.

पदक्खिणञ्च तिक्खत्तुं कत्वा ठत्वा पदन्तिके;

पतिट्ठहन्तु सीसे मे जिनपादेति’धिट्ठहि.

सहाधिट्ठानं चितका दुस्सानि च विभिन्दिय;

निक्खमिंसु तदा पादा घनमुत्तोव चन्दिमा.

उहो हत्थेहि पग्गय्ह ठपेत्वा अत्तनो सिरे;

वन्दित्वा सत्थुनो पादे खमापेत्वा विसज्जयी.

पुण्णचन्दो यथा अब्भं चितकं पाविसि तदा;

इदं अच्छेरकं दिस्वा रवं रवि महाजनो.

उट्ठहित्वान पाचीना वन्दो अत्थङ्गतो यथा;

पादे अन्तरधायन्ते अरोदिंसु महाजना.

तदा मल्लराजानो भगवतो सरीरकिच्चं करिस्सामाति वत्वा नानावत्थाभरणानि निवासेत्वा परिवारयिंसु. ततो राजानो मनुस्सा च अग्गिं दातुं आरहिंसु. तदा सक्को? मयि पन परिनिब्बुते सक्को देवराजा मणिजोतिरसं पसारेत्वा निक्खन्तअग्गिना मम सरीरकिच्चं करिस्सति. मणिअग्गिनो अवसाने मनुस्सा अग्गिं करिस्सन्तिति. एवं बुद्धवचनं परिभावेत्वा निक्खत्तुं पदक्खिणं कत्वा भगवतो सरीरकिच्चं कत्वा समन्ततो उट्ठहतुति अधिट्ठहि.

तस्मिं खणे सयमेव चितकं अग्गि गण्हि. सरीरं पन भगवतो झायामानं छविचम्ममंसनहारुअट्ठिअट्ठिमिञ्जं असेसेत्वा सुमनमकुळमुत्तारासिसदिसमेव धातुयो अवसेसा अहेसुं.

परिनिब्बुतकालेपि सकलं कलुनं अहु;

परिदेवो महा आसि मही उद्रियनं यथा.

देवतायानुभावेन सत्थुनो चितको सयं;

ततो एकप्पहारेन पज्जलित्थ समन्ततो.

यञ्च अब्भन्तरं दुस्सं यं दुस्सं सब्बबाहिरं

दुस्से द्वेव न झायिंसु तेसं दुस्सानमन्तरे;

यथा निरुद्धतेलस्स न मसी न च छारिका;

एवमस्स न दिस्सति बुद्धगत्तस्स झायतो.

सुमनमकुळसभावा च धोतमुत्ताभमेव च;

सुवण्णवण्णसंकासा अवसिस्संसु धातुयो.

दाठा चतस्सो उण्हीसं अक्खका द्वे च सत्तिमा;

न विकिण्णा ततो सेसा विप्पकिण्णाव धातुयो.

अहोसि तनुका धातु सासपबीजमत्तिका;

धातुयो मज्झिमा मज्झेभिन्नतण्डुलमत्तिका.

धातुयो |ओ०.००१५| महति मज्झे भिन्नमुग्गप्पमाणिका;

धातुवण्णा तयो आसुं बुद्धाधिट्ठानतेजसा.

सारिपुत्तस्स थेरस्स सिस्सो सरभुनामको;

आदाय जिनगीवट्ठिं चितकातोव धातु सो.

सद्धिं सिस्ससहस्सेन चेतिये महियङ्गणे;

ठपेत्वा चेतियं कत्वा कुसिनारमगा मुनि.

छळभिञ्ञो वसिप्पत्तो खेमो कारुणिको मुनि;

सहसा चितकातोव वामदाठं समग्गही.

आकासतो पतित्वापि निक्खमित्वापि सालतो;

समन्ततोम्बुमुग्गन्त्वा निब्बापेसुं जलानलं.

मल्लराजगणा सब्बे सब्बगन्धोदकेन तं;

चितकं लोकनाथस्स निब्बापेसुं महेसिनो.

एवं पन सब्बलोके करुणाधिको सम्मासम्बुद्धो वेसाखपुण्णमुपोसथे अङ्गारदिवसे परिनिब्बुतो. देवमनुस्सानं सङ्गहकरणत्थाय यमकसालानमन्तरे चितकं सत्तरत्तिन्दिवं वसी. ततो वीसं हत्थसतिकस्स उपरि सत्तरत्तिन्दिवं वसि. याव अग्गिपरिनिब्बापनं सत्तरत्तिन्दिवं होति.

ततो सत्तदिवसानि कुसिनारायं मल्लराजपुत्तेसु गन्धोदकेन चितकं निब्बापयमानेसु सालरुक्खतो उदकधारा निक्खमित्वा चितकं निब्बापयिंसु. ततो दसबलस्स धातुयो सुवण्णचङ्गोटके पक्खिपित्वा अत्तनो नगरे सन्थागारे ठपेत्वा सत्तिपञ्जरं कत्वा धनुपाकारेहि परिक्खिपापेत्वा सत्ताहं नच्चगीतवादितगन्धमालादीहि मल्लराजपुत्ता सक्कारं करिंसु.

ततो ते मल्लराजानो रम्मं देवसभोपमं;

सब्बथा मण्डुयित्वान सन्थागारं ततो पन.

मग्गं |ओ०.००१६| अलङ्करित्वान याव मकुटचेतिया;

हत्थीक्खन्धे ठपेत्वान हेमदोणिं सधातुकं.

गन्धादीहिपि पूजेत्वा कीळन्ता साधुकीळितं;

पवेसेत्वान नगरं सन्थागारे मनोरमे.

दसभूमस्मिं पल्लङ्के ठपेत्वा जिनधातुयो;

उस्सयुं ते तदा छत्ते सन्थागारसमन्ततो.

हत्थीहि परिक्खिपापेसुं ततो अस्से ततो रथे,

अञ्ञो’ञ्ञं परिवारेत्वा ततो योधे ततो धनु;

इति परिक्खिपापेसुं समन्ता योजनं कमा,

तदा नच्चेहि गीतेहि वादितेहि च पूजयुं.)