९. गीतस्सरसुत्तं
२०९. [चूळव. २४९] ‘‘पञ्चिमे, भिक्खवे, आदीनवा आयतकेन गीतस्सरेन धम्मं भणन्तस्स. कतमे पञ्च? अत्तनापि तस्मिं सरे सारज्जति, परेपि तस्मिं सरे सारज्जन्ति, गहपतिकापि उज्झायन्ति – ‘यथेव मयं गायाम, एवमेवं खो समणा सक्यपुत्तिया गायन्ती’ति, सरकुत्तिम्पि निकामयमानस्स समाधिस्स भङ्गो होति, पच्छिमा जनता दिट्ठानुगतिं आपज्जति. इमे खो, भिक्खवे, पञ्च आदीनवा आयतकेन गीतस्सरेन धम्मं भणन्तस्सा’’ति. नवमं.