२. पवत्तिवारवण्णना

१८-२१. एतस्मिन्ति पवत्तिवारे. पुच्छामत्तलाभेनाति मोघपुच्छाभावमाह. एकेकन्ति ‘‘यस्स चक्खायतनं उप्पज्जति, तस्स सद्दायतनं उप्पज्जती’’तिआदिकं एकेकं. पञ्चाति ‘‘यस्स सद्दायतनं उप्पज्जति, तस्स गन्धायतनं उप्पज्जती’’तिआदीनि पञ्च. पुच्छामत्तलाभेन सङ्गहं अनुजानन्तो ‘‘विस्सज्जनवसेन हापेतब्बानी’’ति आह. ‘‘वक्खति ही’’तिआदिना यथावुत्तमत्थं अट्ठकथाय समत्थेति.

सदिसविस्सज्जनन्ति सामञ्ञवचनं विसेसनिविट्ठमेव होतीति तं विसेसं दस्सेन्तो ‘‘पुग्गलवारमेव सन्धाय वुत्त’’न्ति वत्वा तस्सा पन सदिसविस्सज्जनताय अब्यापितत्ता यत्थ सदिसं, तत्थापि विस्सज्जितन्ति दस्सेन्तो ‘‘ओकासवारे पन…पे… विस्सज्जित’’न्ति आह. तत्थ तन्ति दुतियं. पुग्गलवारेपीति यत्थ सदिसं विस्सज्जनं, तत्थ पुग्गलवारेपि विस्सज्जितं, पगेव ओकासवारेति अधिप्पायो. विरत्तकामकम्मनिब्बत्तस्साति भावनाबलेन विरत्तो कामो एतेनाति विरत्तकामं, रूपावचरकम्मं, ततो निब्बत्तस्स. पटिसन्धि एव बीजं पटिसन्धिबीजं, तस्स. ‘‘एवंसभावत्ता’’ति एतेन एकन्ततो कामतण्हानिदानकम्महेतुकानि घानादीनीति दस्सेति. गन्धादयो च न सन्तीति सब्बेन सब्बं तेसम्पि अभावं सन्धाय वदति. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव.

‘‘सच्च’’न्ति यथावुत्तवसेन गहेतब्बं चोदकेन वुत्तमत्थं सम्पटिच्छित्वा पुन येनाधिप्पायेन तानि यमकानि सदिसविस्सज्जनानि, तं दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं. तत्रायं सङ्खेपत्थो – तत्थ चक्खायतनमूलकेसु घानायतनयमकेन ‘‘सचक्खुकानं अघानकानं उपपज्जन्तान’’न्तिआदिना नयेन जिव्हाकायायतनयमकानि यथा सदिसविस्सज्जनानि, तथा इध घानायतनमूलकेसु घानायतनयमकेन तानि जिव्हाकायायतनयमकानि ‘‘यस्स घानायतनं उप्पज्जति, तस्स जिव्हायतनं उप्पज्जतीति? आमन्ता’’तिआदिना नयेन सदिसविस्सज्जनानीति. एवमेत्थ उभयेसं विसुं अञ्ञमञ्ञं सदिसविस्सज्जनताय इदं वुत्तं, न एकज्झं अञ्ञमञ्ञं सदिसविस्सज्जनताय. तेनाह ‘‘तस्मा तत्थ तत्थेव सदिसविस्सज्जनता पाळिअनारुळ्हताय कारण’’न्ति. एवञ्च सति चक्खायतनमूलग्गहणं किमत्थियन्ति आह ‘‘निदस्सनभावेना’’तिआदि. तत्थ निदस्सनभावेनाति निदस्सनभूतानं अञ्ञमञ्ञसदिसविस्सज्जनतासङ्खातेन निदस्सनभावेनेव, न पन तेसं निदस्सितब्बेहि सब्बथा सदिसविस्सज्जनतायाति अधिप्पायो. ‘‘येभुय्यताया’’ति वुत्तं येभुय्यतं दस्सेतुं ‘‘तेसु ही’’तिआदि वुत्तं.

एवन्ति इमिना ‘‘आमन्ता’’ति पटिवचनविस्सज्जनेन यथावुत्तवचनस्सेव विस्सज्जनभावानुजाननं कत्तब्बन्ति इममत्थं आकड्ढति. साति दुतियपुच्छा. घानायतनयमकेनाति चक्खायतनमूलकेसु घानायतनयमकेनेव. तंसेसानीति तेन घानायतनमूलककायायतनयमकेन सद्धिं सेसानि. सदिसविस्सज्जनत्ता अनारुळ्हानीति एत्थ ‘‘अनारुळ्हानी’’ति एत्तकमेव तथा-सद्देन अनुकड्ढीयति, न ‘‘सदिसविस्सज्जनत्ता’’ति दस्सेन्तो ‘‘तथाति…पे… समञ्ञेना’’ति वत्वा इदानि ‘‘कारणसामञ्ञेना’’ति वुत्तस्स सदिसविस्सज्जनत्तस्स तत्थ अभावं दस्सेतुं ‘‘घानजिव्हाकायायतनानं पना’’तिआदि वुत्तं. तत्थ अगब्भसेय्यकेसु पवत्तमानानन्ति एत्थापि ‘‘सहचारिताया’’ति पदं आनेत्वा सम्बन्धितब्बं, तथा ‘‘गब्भसेय्यकेसु च पवत्तमानान’’न्ति. इतरानि घानायतनमूलकानि जिव्हाकायायतनयमकानि द्वे न विस्सज्जीयन्ति, घानायतनमूलकेसु च यमकेसु विस्सज्जितेसु इतरद्वयमूलकानि जिव्हाकायायतनमूलकानि न विस्सज्जीयन्ति अविसेसत्ता अप्पविसेसत्ता चाति योजेतब्बं. तत्थ कायायतनयमके दुतियपुच्छावसेन अप्पविसेसो, इतरवसेन अविसेसो वेदितब्बो. रूपायतनमनायतनेहि सद्धिन्ति इदं रूपायतनमूलकमनायतनवसेन वुत्तन्ति आह ‘‘रूपायतन…पे… अधिप्पायो’’ति. तेनेवाह ‘‘रूपायतनमूलकेसु ही’’तिआदि. यमकानन्ति रूपायतनमूलकगन्धरसफोट्ठब्बायतनयमकानं. दुतियपुच्छानन्ति यथावुत्तयमकानंयेव दुतियपुच्छानं. वुत्तनयेनाति ‘‘सरूपकानं अचित्तकान’’न्तिआदिना वुत्तेन नयेन. आदिपुच्छानन्ति तेसंयेव यमकानं पठमपुच्छानं.

हेट्ठिमेहीति इदं अविसेसवचनम्पि येसु सदिसविस्सज्जनता सम्भवति, तदपेक्खन्ति आह ‘‘गन्धरस…पे… अत्थो’’ति. उद्दिट्ठधम्मेसु उद्देसानुरूपं लब्भमानविसेसकथनं विस्सज्जनं, यो तत्थ न सब्बेन सब्बं उद्देसानुरूपगुणेन उपलब्भति, तस्स अकथनम्पि अत्थतो विस्सज्जनमेव नाम होतीति आह ‘‘अविस्सज्जनेनेव अलब्भमानतादस्सनेन विस्सज्जितानि नाम होन्ती’’ति.

चक्खुविकलसोतविकला विय चक्खुसोतविकलोपि लब्भतीति सो पन अट्ठकथायं पि-सद्देन सङ्गहितोति दस्सेन्तो ‘‘जच्चन्धम्पि…पे… वेदितब्बो’’ति आह. परिपुण्णायतनमेव ओपपातिकं सन्धाय वुत्तन्ति एत्थ अट्ठानप्पयुत्तो एव-सद्दोति तस्स ठानं दस्सेन्तो ‘‘वुत्तमेवाति अत्थो’’ति वत्वा तेन परिपुण्णायतनस्स तत्थ अनियतत्ता अपरिपुण्णायतनस्सपि सङ्गहो सिद्धोति दस्सेन्तो ‘‘तेन जच्चन्धबधिरम्पि सन्धाय वुत्तता न निवारिता होती’’ति आह.

२२-२५४. तस्मिं पुग्गलस्स अनामट्ठत्ताति कस्मा वुत्तं, यावता ‘‘रूपीब्रह्मलोकं पुच्छती’’ति इमिनापि ओकासोयेव आमट्ठोति. ‘‘आमन्ता’’ति पटिञ्ञाय कारणविभावनाधिप्पायेनेव ‘‘कस्मा पटिञ्ञात’’न्ति चोदनं समुट्ठापेत्वा तं कारणं दस्सेतुकामो ‘‘ननू’’तिआदिमाह. गब्भसेय्यकभावं गन्त्वा परिनिब्बायिस्सतीति पच्छिमभविकं सन्धायाह. तदवत्थस्साति पच्छिमभवावत्थस्स. भविस्सन्तस्साति भाविनो. पटिञ्ञातब्बत्ताति ‘‘उप्पज्जिस्सती’’ति पटिञ्ञातब्बत्ता.

अथ कस्माति एत्थायं सङ्खेपत्थो – यदि ‘‘यस्स रूपायतनं उप्पज्जिस्सति, तस्स चक्खायतनं उप्पज्जिस्सती’’ति पुच्छायं वुत्तेन विधिना पटिञ्ञातब्बं, अथ कस्मा अथ केन कारणेन पटिलोमे ‘‘यस्स वा पन रूपायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जिस्सती’’ति पुच्छाय ‘‘आमन्ता’’ति पटिञ्ञातं, ननु इदं अञ्ञमञ्ञं विरुद्धन्ति? ननूतिआदिनापि चोदको तमेव विरोधं विभावेति. नो च नुप्पज्जिस्सति उप्पज्जिस्सति एवाति अत्थो. ‘‘तस्मिं भवे’’तिआदि तस्स परिहारो. तत्थ तस्मिं भवेति यस्मिं भवे ‘‘रूपायतनं नुप्पज्जिस्सती’’ति वुत्तं पवत्तमानत्ता, तस्मिं भवे. अनागतभावेन अवचनतोति भावीभावेन अवत्तब्बतो आरद्धुप्पादभावेन पवत्तमानत्ताति अधिप्पायो. तेनेवाह ‘‘भवन्तरे ही’’तिआदि. न पन वुच्चतीति सम्बन्धो. एवञ्च कत्वातिआदिना पाठन्तरेन यथावुत्तमत्थं समत्थेति.

यस्मिं अत्तभावे येहि आयतनेहि भवितब्बं, तंतंआयतननिब्बत्तककम्मेन अवस्संभावीआयतनस्स सत्तस्स, सन्तानस्स वा, ‘‘यस्स वा पन रूपायतनं उप्पज्जिस्सति, तस्स चक्खायतनं उप्पज्जिस्सतीति? आमन्ता, यस्स वा पन रूपायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जिस्सतीति? आमन्ता’’ति च एवं पवत्तं पुच्छाद्वयविस्सज्जनं आयतनपटिलाभस्स जातिभावतो सुट्ठु उपपन्नं भवति. पच्छिमभविकादयोति एत्थ आदि-सद्देन अरूपे उप्पज्जित्वा परिनिब्बायनका सङ्गय्हन्ति. इदम्पि विस्सज्जनं. अभिनन्दितब्बत्ताति ‘‘आमन्ता’’ति सम्पटिच्छितब्बत्ता.

यं पन अघानकानं कामावचरं उपपज्जन्तानन्ति वुत्तन्ति सम्बन्धो. यस्स विपाको घानायतनुप्पत्तितो पुरेतरमेव उपच्छिज्जिस्सति, तं घानायतनानिब्बत्तककम्मन्ति वुत्तं. कथं पनीदिसं कम्मं अत्थीति विञ्ञायतीति आह ‘‘यस्स यत्था’’तिआदि. एवम्पि गब्भसेय्यको एव इध अघानकोति अधिप्पेतोति कथमिदं विञ्ञायतीति चोदनाय ‘‘न ही’’तिआदिं वत्वा तमत्थं साधेतुं ‘‘धम्महदयविभङ्गे’’तिआदि वुत्तं. अवचनत्तम्पि हि यथाधम्मसासने अभिधम्मे पटिक्खेपोयेवाति. इधाति इमस्मिं आयतनयमके. यथादस्सितासूति ‘‘यस्स वा पन सोतायतनं नुप्पज्जिस्सति, तस्स चक्खायतनं नुप्पज्जति, यस्स यत्थ घानायतनं न निरुज्झति, तस्स तत्थ रूपायतनं न निरुज्झिस्सती’’ति च दस्सितप्पकारासु पुच्छासु. आमन्ताति वुत्तन्ति अथ कस्मा न विञ्ञायतीति योजना. एतासु पुच्छासु कस्मा पटिवचनेन विस्सज्जनं न कतन्ति अधिप्पायो. सन्निट्ठानेन गहितत्थस्साति ‘‘यस्स वा पन सोतायतनं नुप्पज्जिस्सति, यस्स यत्थ घानायतनं न निरुज्झिस्सती’’ति च एवमादिकेन सन्निट्ठानपदेन गहितस्स अत्थस्स. एकदेसे संसयत्थस्स सम्भवेनाति एकदेसे संसयितब्बस्स अत्थस्स सम्भवेन सन्निट्ठानत्थपटियोगभूतसंसयत्थस्स पटिवचनस्स अकरणतो ‘‘आमन्ता’’ति पटिवचनविस्सज्जनस्स अकत्तब्बतो अत्थस्स अभिन्दित्वा एकज्झं कत्वा अवत्तब्बतो. तेनाह ‘‘भिन्दितब्बेहि न पटिवचनविस्सज्जनं होती’’ति.

यदि सियाति भिन्दित्वा वत्तब्बेपि अत्थे यदि पटिवचनविस्सज्जनं सिया, परिपुण्णविस्सज्जनमेव न सिया अनोकासभावतो भिन्दितब्बतो चाति अत्थो. तथा हि ‘‘पञ्चवोकारे परिनिब्बन्तानं, अरूपे पच्छिमभविकानं, ये च अरूपं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं तेसं सोतायतनञ्च नुप्पज्जिस्सति, चक्खायतनञ्च नुप्पज्जती’’ति च, तथा ‘‘रूपावचरे परिनिब्बन्तानं, अरूपानं तेसं तत्थ घानायतनञ्च न निरुज्झति, रूपायतनञ्च न निरुज्झिस्सती’’ति च तत्थ विभागवसेन पवत्तो पाठसेसो. अथ कस्माति यदि अभिन्दितब्बे पटिवचनविस्सज्जनं, न भिन्दितब्बे, एवं सन्ते ‘‘यस्स वा पन सोमनस्सिन्द्रियं उप्पज्जति, तस्स चक्खुन्द्रियं उप्पज्जतीति? आमन्ता’’ति इमिना पटिवचनविस्सज्जनेन गब्भसेय्यकानं सोमनस्सपटिसन्धि नत्थीति कस्मा न विञ्ञायति, भिन्दितब्बे न पटिवचनविस्सज्जनं होतीति सम्पटिच्छितब्बन्ति? तं न, अञ्ञाय पाळिया तदत्थस्स विञ्ञायमानत्ताति दस्सेन्तो ‘‘कामधातुया’’तिआदिमाह.

‘‘यं चित्तं उप्पज्जति, न निरुज्झति, तं चित्तं निरुज्झिस्सति, नुप्पज्जिस्सतीति? आमन्ता’’ति तस्सेव चित्तस्स निरोधो अनागतभावेन तस्स उप्पादक्खणे यथा वुत्तो, एवं तस्सेव कम्मजसन्तानस्स निरोधो तस्स उप्पादे अनागतभावेन वत्तब्बो. तेनेतं दस्सेति ‘‘एकचित्तस्स नाम उप्पादक्खणे निरोधो अनागतभावेन वुच्चति, किमङ्गं पन एकसन्तानस्सा’’ति. सब्बत्थ सब्बस्मिं अनागतवारे. उपपज्जन्तानं एव वसेन सो निरोधो तथा अनागतभावेन वुत्तो, कस्मा पनेत्थ निरोधो उपपन्नानं वसेन न वुत्तोति आह ‘‘उप्पन्नानं पना’’तिआदि. तस्सेव यथापवत्तस्स कम्मजसन्तानस्स एव. तस्माति यस्मा उप्पादक्खणतो उद्धं निरोधो आरद्धो नाम होति, तस्मा. भेदे सतिपि कालभेदामसनस्स कारणे सतिपि. अनागतकालामसनवसेनेव निरोधस्सेव वसेन विस्सज्जनद्वयं उपपन्नमेव युत्तमेव होतीति. अञ्ञेसं वसेन निरोधस्सेव वत्तुं असक्कुणेय्यत्ता ‘‘अरहत’’न्ति वुत्तं.

यदि उपपत्तिअनन्तरं निरोधो आरद्धो नाम होति, अथ कस्मा चुतिया निरोधवचनन्ति चोदनं सन्धायाह ‘‘तन्निट्ठानभावतो पन चुतिया निरोधवचन’’न्ति. तन्निट्ठानभावतोति तस्स सन्तानस्स निट्ठानभावतो. पवत्तेतिआदि वुत्तस्सेवत्थस्स पाकटकरणं. तत्थ तस्साति सन्तानस्स. वक्खतीतिआदिपि पवत्ते निरोधं अनादियित्वा चुतिनिरोधस्सेव गहितताय कारणवचनं. तेनाति तेन यथावुत्तेन पाठन्तरवचनेन. एत्थाति एतस्मिं ‘‘यस्स चक्खायतनं निरुज्झिस्सती’’तिआदिके आयतनयमके. यदि पवत्ते निरुद्धस्सपि चुतिया एव निरोधो इच्छितो, ‘‘सचक्खुकान’’न्तिआदि कथन्ति आह ‘‘सचक्खुकानन्तिआदीसु च पटिलद्धचक्खुकानन्तिआदिना अत्थो विञ्ञायती’’ति. तेति अरूपे पच्छिमभविका. अचक्खुकवचनञ्च सावसेसन्ति योजना.

पवत्तिवारवण्णना निट्ठिता.

आयतनयमकवण्णना निट्ठिता.