१. पण्णत्तिवारो

उद्देसवारवण्णना

२-३. खन्धयमके …पे… परिञ्ञा च वत्तब्बाति इदं पधानभावेन वत्तब्बदस्सनं. अभिञ्ञेय्यकथा हि अभिधम्मो, सा च यावदेव परिञ्ञत्ताति परिञ्ञासु च न विना तीरणपरिञ्ञाय पहानपरिञ्ञा, तीरणञ्च सम्पुण्णपरानुग्गहस्स अधिप्पेतत्ता कालपुग्गलोकासविभागमुखेन खन्धानं विसुं सह च उप्पादनिरोधलक्खणपरिग्गहवसेन सातिसयं सम्भवति, नाञ्ञथाति इममत्थं दस्सेन्तो ‘‘छसु कालभेदेसु…पे… परिञ्ञा च वत्तब्बा’’ति पधानं वत्तब्बं उद्धरति. तत्थ पन यथा न तीरणपरिञ्ञाय विना पहानपरिञ्ञा, एवं तीरणपरिञ्ञा विना ञातपरिञ्ञाय. सा च सुतमयञाणमूलिकाति देसनाकुसलो सत्था अन्वयतो ब्यतिरेकतो च समुदायावयवपदत्थादिविभागदस्सनमुखेन खन्धेसु परिञ्ञाप्पभेदं पकासेतुकामो ‘‘पञ्चक्खन्धा’’तिआदिना देसनं आरभीति दस्सेन्तो ‘‘ते पन खन्धा’’तिआदिमाह. पञ्चहि पदेहीति पञ्चहि समुदायपदेहि.

तत्थाति तेसु समुदायावयवपदेसु. धम्मोति रुप्पनादिको ञेय्यधम्मो. समुदायपदस्साति रूपक्खन्धादिसमुदायपदस्स. यदिपि अवयवविनिमुत्तो परमत्थतो समुदायो नाम नत्थि, यथा पन अवयवो समुदायो न होति, एवं न समुदायोपि अवयवोति सतिपि समुदायावयवानं भेदे द्विन्नं पदानं समानाधिकरणभावतो अत्थेवाभेदोति पदद्वयस्स समानत्थताय सिया आसङ्काति आह ‘‘एतस्मिं संसयट्ठाने’’ति. ‘‘चक्खायतनं रूपक्खन्धगणनं गच्छति, विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातू’’तिआदीसु एकदेसो समुदायपदत्थो वुत्तो, ‘‘यं किञ्चि रूपं…पे… अयं वुच्चति रूपक्खन्धो’’तिआदीसु (विभ. २) पन सकलोति आह ‘‘रूपादि…पे… अत्थो’’ति. अवयवपदानञ्चेत्थ विसेसनविसेसितब्बविसयानं समानाधिकरणताय समुदायपदत्थता वुत्ता, ततो एव समुदायपदानम्पि अवयवपदत्थता. न हि विसेसनविसेसितब्बानं अत्थानं अच्चन्तं भेदो अभेदो वा इच्छितो, अथ खो भेदाभेदो, तस्मा अभेददस्सनवसेन पठमनयो वुत्तो, भेददस्सनवसेन दुतियनयो. यो हि रुप्पनादिसङ्खातो रासट्ठो अवयवपदेहि रूपादिसद्देहि च खन्धसद्देन च विसेसनविसेसितब्बभावेन भिन्दित्वा वुत्तो, स्वायं अत्थतो रासिभावेन अपेक्खितो रुप्पनादिअत्थो एवाति.

यथा अवयवपदेहि वुच्चमानोपि समुदायपदस्स अत्थो होति, एवं समुदायपदेहि वुच्चमानोपि अवयवपदस्स अत्थोति ‘‘रूपक्खन्धो रूपञ्चेव रूपक्खन्धो च, रूपक्खन्धो रूपन्ति? आमन्ता’’तिआदिना पदसोधना कताति दस्सेन्तो आह ‘‘रूपादिअवयवपदेहि…पे… पदसोधनवारो वुत्तो’’ति. तत्थ एकच्चस्स अवयवपदस्स अञ्ञत्थ वुत्तिया अवयवपदत्थस्स समुदायपदत्थताय सिया अनेकन्तिकता, समुदायपदस्स पन तं नत्थीति समुदायपदत्थस्स अवयवपदत्थताय ब्यभिचाराभावो ‘‘रूपक्खन्धो रूपन्ति? आमन्ता’’ति पाळिया पकासितोति वुत्तं ‘‘रूपादि…पे… दस्सेतु’’न्ति.

‘‘रूपक्खन्धो’’तिआदीसु खन्धत्थस्स विसेसितब्बत्ता वुत्तं ‘‘पधानभूतस्स खन्धपदस्सा’’ति. वेदनादिउपपदत्थस्स च सम्भवतो ‘‘वेदनाक्खन्धो’’तिआदीसु. रूपावयवपदेन वुत्तस्साति रूपसङ्खातेन अवयवपदेन विसेसनभावेन वुत्तस्स खन्धत्थस्स रूपक्खन्धभावो होति. तेन वुत्तं ‘‘रूपक्खन्धो रूपन्ति? आमन्ता’’ति. तत्थाति तस्मिं रूपक्खन्धपदे. पधानभूतेन विसेसितब्बत्ता खन्धावयवपदेन वुत्तस्स रुप्पनट्ठस्स किं वेदनाक्खन्धादिभावो होतीति योजना. समाने अवयवपदाभिधेय्यभावे अप्पधानेन पदेन यो अत्थो विञ्ञायति, सो कस्मा पधानेन न विञ्ञायतीति अधिप्पायो. खन्धावयवपदेन वुत्तो धम्मोति रासट्ठमाह. तत्थ कोचीति रुप्पनट्ठो. केनचि समुदायपदेनाति रूपक्खन्धपदेन, न वेदनाक्खन्धादिपदेन. तेनाह ‘‘न सब्बो सब्बेना’’ति. एस नयो वेदनाक्खन्धादीसु. रूपरूपक्खन्धादिअवयवसमुदायपदसोधनमुखेन तत्थ च चतुक्खन्धवसेन पवत्ता पाळिगति पदसोधनमूलचक्कवारो. एवञ्च दस्सेन्तेनाति इमिना य्वायं रूपादिअवयवपदेहि रूपक्खन्धादिसमुदायपदेहि च दस्सिताकारो अत्थविसेसो, तं पच्चामसति. विसेसनभावो भेदकताय सामञ्ञतो अवच्छेदकत्ता, विसेसितब्बभावो अभेदयोगेन भेदन्तरतो अविच्छिन्दितब्बत्ता, समानाधिकरणभावो तेसं भेदाभेदानं एकवत्थुसन्निस्सयत्ता.

तेनाति यथावुत्तेन विसेसनविसेसितब्बभावेन. एत्थाति एतस्मिं समानाधिकरणे. तेनाति वा समानाधिकरणभावेन. एत्थाति रूपक्खन्धपदे. यथा नीलुप्पलपदे उप्पलविसेसनभूतं नीलं विसिट्ठमेव होति, न यं किञ्चि, एवमिधापि खन्धविसेसनभूतं रूपम्पि विसिट्ठमेव सियाति दस्सेन्तो ‘‘किं खन्धतो…पे… होती’’ति आह. तथा ‘‘रूपञ्च तं खन्धो चा’’ति समानाधिकरणभावेनेव यं रूपं, सो खन्धो. यो खन्धो, तं रूपन्ति अयम्पि आपन्नो एवाति आह ‘‘सब्बेव…पे… विसेसितब्बा’’ति. विसेसनेन च नाम निद्धारितरूपेन भवितब्बं अवच्छेदकत्ता, न अनिद्धारितरूपेनाति आह ‘‘किं पन त’’न्तिआदि, तस्सेव गहितत्ता न पियरूपसातरूपस्साति अधिप्पायो. न हि तं खन्धविसेसनभावेन गहितं, विस्सज्जनं कतं तस्सेवाति योजना. न खन्धतो अञ्ञं रूपं अत्थीति इदं रुप्पनट्ठो रूपन्ति कत्वा वुत्तं, न हि सो खन्धविनिमुत्तो अत्थि. तेनेवाति यथावुत्तरूपस्स खन्धविनिमुत्तस्स अभावेनेव. ‘‘पियरूपं सातरूपं, दस्सेन्तेनप्पक’’न्ति च आदीसु अतदत्थस्स रूपसद्दस्स लब्भमानत्ता ‘‘तेन रूपसद्देना’’ति विसेसेत्वा वुत्तं. वुच्चमानं भूतुपादायम्पि भेदं धम्मजातं. सुद्धेनाति केवलेन, रूपसद्देन विनापीति अत्थो. तयिदं पकरणादिअवच्छिन्नतं सन्धाय वुत्तं, समानाधिकरणतं वा. यो हि रूपसद्देन समानाधिकरणो खन्धसद्दो, तेन यथावुत्तरूपसद्देन विय तदत्थो वुच्चतेव. तेनाह ‘‘खन्धा रूपक्खन्धो’’ति. यदिपि यथावुत्तं रूपं खन्धो एव च, खन्धो पन न रूपमेवाति आह ‘‘न च सब्बे…पे… विसेसितब्बा’’ति. तेनेवाति अरूपसभावस्स खन्धस्स अत्थिभावेनेव. तेति खन्धा. विभजितब्बाति ‘‘खन्धा रूपक्खन्धो’’ति पदं उद्धरित्वा ‘‘रूपक्खन्धो खन्धो चेव रूपक्खन्धो च, अवसेसा खन्धा न रूपक्खन्धो’’तिआदिना विभागेन दस्सेतब्बा.

खन्धानं रूपविसेसन…पे… संसयो होतीति एत्थ किं खन्धतो अञ्ञापि वेदना अत्थि, यतो विनिवत्ता वेदना खन्धविसेसनं होति, सब्बे च खन्धा किं खन्धविसेसनभूताय वेदनाय विसेसितब्बाति एवं योजना वेदितब्बा. केचीति अनुभवनादिप्पकारा. केनचि विसेसनेनाति वेदनादिना विसेसनेन.

एत्थ च रूपादिपण्णत्ति खन्धपण्णत्ति च ‘‘रूपं खन्धो, खन्धा रूपक्खन्धो’’तिआदिना विसुं सह च रुप्पनादिके अत्थे पवत्तमाना कदाचि अवयवभूते पवत्तति, कदाचि समुदायभूते, तस्सा पन तथा पवत्तनाकारे निद्धारिते यस्मा रूपादिक्खन्धा पदतो अत्थतो च विसोधिता नाम होन्ति तब्बिसयकङ्खापनोदनतो, तस्मा ‘‘रूपक्खन्धो रूपञ्चेव रूपक्खन्धो च, रूपक्खन्धो रूपन्ति? आमन्ता’’तिआदिनयप्पवत्तेन पठमवारेन रूपादिअवयवपदेहि अवयवत्थो विय समुदायत्थोपि वुच्चति, तथा समुदायपदेहिपीति अयमत्थो दस्सितो. ‘‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिनयप्पवत्तेन पन दुतियवारेन विसेसवाची विय रूपादिअवयवपदेहि सामञ्ञभूतेनपि तंतंविसिट्ठेन खन्धावयवपदेन सो सो एव समुदायत्थो वुच्चति, न सब्बोति अयमत्थो दस्सितो. खन्धविनिमुत्तस्स यथाधिप्पेतस्स अभावा यदिपि खन्धोयेव रूपं, सो पन न सब्बो रूपं, अथ खो तदेकदेसो, तथा वेदनादयोपीति अयमत्थो ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदिनयप्पवत्तेन ततियवारेन दस्सितो. ‘‘रूपं खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिनयप्पवत्तेन पन चतुत्थवारेन ‘‘रूपं खन्धो’’ति रूपस्स खन्धभावे निच्छिते खन्धो नामायं न केवलं रूपमेव, अथ खो वेदनादि चाति वेदनादीनम्पि खन्धभावप्पकासने न सब्बे खन्धा वेदनादिविसेसवन्तो, केचिदेव पन तेन तेन विसेसेन तथा वुच्चन्तीति अयमत्थो दस्सितो. एवं दस्सेन्ती चेसा पाळि खन्धानं यथावुत्तपण्णत्तिसोधनमुखेन सरूपावधारणाय संवत्तति, तञ्च तेसं यावदेव उप्पादादिनिच्छयत्थन्ति दस्सेन्तो ‘‘एवं येसं…पे… वेदितब्बो’’ति आह.

एकदेसेपि समुदायवोहारो दिस्सति यथा पटो दड्ढो, समुद्दो दिट्ठोति आह ‘‘चक्कावयवभावतो चक्कानीति यमकानि वुत्तानी’’ति. बन्धित्वाति यमकभावेन बन्धित्वा, यमकमूलभावेनेव वा. मूलभावेन गहणं सम्बन्धभावो, तंसम्बन्धता च मूलपदादीनं नाभिआदिसदिसता दट्ठब्बा. अपुब्बस्स वत्तब्बस्स अभावतो नयिध देसना मण्डलभावेनेव सम्बज्झतीति आह ‘‘न मण्डलभावेन सम्बज्झनतो’’ति. यदिपि रूपक्खन्धमूलके अपुब्बं नत्थि, वेदनाक्खन्धादिमूलकेसु पन सञ्ञादिमुखेन देसनप्पवत्तियं अपुब्बवसेनेव गतो सिया मण्डलभावेन सम्बन्धो, न तथा पाठो पवत्तोति आह ‘‘वेदनाक्खन्ध…पे… सम्बन्धेना’’ति. पच्छिमस्स पुरिमेन असम्बज्झनमेव हि हेट्ठिमसोधनं. सुद्धक्खन्धलाभमत्तमेव गहेत्वाति ‘‘खन्धा रूप’’न्ति एत्थ खन्धाति खन्धसद्देन लब्भमानं रूपादीहि असम्मिस्सं खन्धट्ठमत्तमेव उद्देसवसेन गहेत्वा. यदिपि उद्देसे खन्धविसेसनं रूपादि ‘‘खन्धा रूप’’न्ति सुद्धरूपादिमत्तमेव गहितं, तथापि विसेसरहितस्स सामञ्ञस्स अभावतो तत्थ सुद्धरूपादिमत्तताय अट्ठत्वा. खन्धविसेसनभावसङ्खातन्ति यथाधिगतं खन्धानं विसेसनभावेन कथितं रुप्पनादिकं विसेसनत्थं दस्सेतुं. केवलमेव तं अग्गण्हन्तो खन्धसद्देन सह योजेत्वा…पे… विभत्तत्ता सुद्धक्खन्धवारोति वुत्तोति योजना.

उद्देसवारवण्णना निट्ठिता.