१. मूलयमकं
उद्देसवारवण्णना
१. यमकसमूहस्साति मूलयमकादिकस्स यमकसमूहस्स. मूलयमकादयो हि पकरणापेक्खाय अवयवभूतापि निच्चावयवापेक्खाय यमकसमूहोति वुत्तो. तेनाह ‘‘तंसमूहस्स च सकलस्स पकरणस्सा’’ति.
कुसलाकुसलमूलविसेसानन्ति दुतियपुच्छाय वुत्तानं संसयपदसङ्गहितानं कुसलसङ्खातानं, तथा पठमपुच्छाय वुत्तानं कुसलमूलसङ्खातानं विसेसानं अत्थयमकभावस्स वुत्तत्ताति योजना. यथा हि पठमपुच्छाय विसेसवन्तभावेन वुत्तायेव कुसलधम्मा दुतियपुच्छायं विसेसभावेन वुत्ता, एवं पठमपुच्छायं विसेसभावेन वुत्तायेव कुसलमूलधम्मा दुतियपुच्छायं विसेसवन्तभावेन वुत्ता. वत्तुवचनिच्छावसेन हि धम्मानं विसेसविसेसवन्तताविभागा होन्तीति. कुसलमूलकुसलविसेसेहि संसयितपदसङ्गहितेहि कुसलकुसलमूलानं विसेसवन्तानन्ति अधिप्पायो. एत्थ च विसेसवन्तापेक्खविसेसवसेन पठमो अत्थविकप्पो वुत्तो, दुतियो पन विसेसापेक्खविसेसवन्तवसेनाति अयमेतेसं विसेसो. तेनाह ‘‘ञातुं इच्छितानं ही’’तिआदि.
तत्थ ञातुं इच्छितानन्ति पुच्छाय विसयभूतानन्ति अत्थो. विसेसानन्ति कुसलकुसलमूलविसेसानं. विसेसवन्तापेक्खानन्ति कुसलमूलकुसलसङ्खातेहि विसेसवन्तेहि सापेक्खानं. विसेसवतन्ति कुसलमूलकुसलानं. विसेसापेक्खानन्ति कुसलकुसलमूलविसेसेहि सापेक्खानं. एत्थाति एतस्मिं मूलयमके. पधानभावोति पठमविकप्पे ताव संसयितप्पधानत्ता पुच्छाय विसेसानं पधानभावो वेदितब्बो. ते हि संसयितानं विसेसवन्तोति. दुतियविकप्पे पन विसेसा नाम विसेसवन्ताधीनाति विसेसवन्तानं तत्थ पधानभावो दट्ठब्बो. द्विन्नं पन एकज्झं पधानभावो न युज्जति. सति हि अप्पधाने पधानं नाम सिया. तेनाह ‘‘एकेकाय पुच्छाय एकेको एव अत्थो सङ्गहितो होती’’ति. एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा विनिच्छितविसेसितब्बभावेहि इध पधानभावो न युज्जतेवाति. न धम्मवाचकोति न सभावधम्मवाचको. सभावधम्मोपि हि अत्थोति वुच्चति ‘‘गम्भीरपञ्ञं निपुणत्थदस्सि’’न्तिआदीसु (सु. नि. १७८). ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’तिआदीसु (विभ. ७२०) अत्थ-सद्दस्स हेतुफलवाचकता दट्ठब्बा. आदि-सद्देनस्स ‘‘अत्थाभिसमया’’तिआदीसु (सं. नि. १.१२९) आगता हितादिवाचकता सङ्गय्हति. तेनेवाति पाळिअत्थवाचकत्ता एव.
तीणिपि पदानीति एत्थ पि-सद्दो समुच्चयत्थो, समुच्चयो च तुल्ययोगे सिया. किं नाम-पदेन अनवसेसतो कुसलादीनं सङ्गहोति आसङ्काय तदासङ्कानिवत्तनत्थमाह ‘‘तीणिपि…पे… सङ्गाहकत्त’’न्ति. तत्थ सङ्गाहकत्तमत्तन्ति मत्त-सद्दो विसेसनिवत्तिअत्थोति. तेन निवत्तितं विसेसं दस्सेतुं ‘‘न निरवसेससङ्गाहकत्त’’न्ति वुत्तं. न हि रूपं नाम-पदेन सङ्गय्हति. कुसलादियेव नामन्ति नियमो दट्ठब्बो, न नामंयेव कुसलादीति इममेव च नियमं सन्धायाह ‘‘कुसलादीनं सङ्गाहकत्तमत्तमेव सन्धाय वुत्त’’न्ति. यदिपि नाम-पदं न निरवसेसकुसलादिसङ्गाहकं, कुसलादिसङ्गाहकं पन होति, तदत्थमेव च तं गहितन्ति नामस्स कुसलत्तिकपरियापन्नता वुत्ताति दस्सेन्तो आह ‘‘कुसलादि…पे… वुत्त’’न्ति.
उद्देसवारवण्णना निट्ठिता.
निद्देसवारवण्णना
५२. दुतिययमकेति एकमूलयमके. एवमिधापीति यथा एकमूलयमके ‘‘ये केचि कुसला’’इच्चेव पुच्छा आरद्धा, एवं इधापि अञ्ञमञ्ञमूलयमकेपि ‘‘ये केचि कुसला’’इच्चेव पुच्छा आरभितब्बा सिया. कस्मा? पुरिमयमक…पे… अप्पवत्तत्ताति. इदञ्च दुतिययमकस्स तथा अप्पवत्तत्ता वुत्तं, ततिययमकं पन तथेव पवत्तं. केचीति पदकारा. ते हि यथा पठमदुतिययमकेसु पुरिमपुच्छा एव परिवत्तनवसेन पच्छिमपुच्छा कताति पच्छिमपुच्छाय पुरिमपुच्छा समाना ठपेत्वा पटिलोमभावं, न तथा अञ्ञमञ्ञयमके. तत्थ हि द्वेपि पुच्छा अञ्ञमञ्ञविसदिसा. यदि तत्थापि द्वीहिपि पुच्छाहि सदिसाहि भवितब्बं, ‘‘ये केचि कुसला’’ति पठमपुच्छा आरभितब्बा, पच्छिमपुच्छा वा ‘‘सब्बे ते धम्मा कुसलमूलेन एकमूला’’ति वत्तब्बा सिया. एवं पन अवत्वा पठमदुतिययमकेसु विय पुरिमपच्छिमपुच्छा सदिसा अकत्वा ततिययमके तासं विसदिसता ‘‘ये केचि कुसला’’ति अनारद्धत्ता, तस्मा पटिलोमपुच्छानुरूपाय अनुलोमपुच्छाय भवितब्बन्ति इममत्थं सन्धाय ‘‘ये केचि कुसलाति अपुच्छित्वा’’ति वुत्तन्ति वदन्ति.
अत्थवसेनाति सम्भवन्तानं निच्छितसंसयितानं अत्थानं वसेन. तदनुरूपायाति तस्सा पुरिमपुच्छाय अत्थतो ब्यञ्जनतो च अनुच्छविकाय. पुरिमञ्हि अपेक्खित्वा पच्छिमाय भवितब्बं. तेनाति तस्मा. यस्मा अनुलोमे संसयच्छेदे जातेपि पटिलोमे संसयो उप्पज्जति, यदि न उप्पज्जेय्य, पटिलोमपुच्छाय पयोजनमेव न सिया, तस्मा न पच्छिमपुच्छानुरूपा पुरिमपुच्छा, अथ खो वुत्तनयेन पुरिमपुच्छानुरूपा पच्छिमपुच्छा, ताय च अनुरूपताय अत्थादिवसेन द्विन्नं पदानं सम्बन्धत्ता अत्थादियमकता वुत्ता. देसनाक्कमतो चेत्थ अनुलोमपटिलोमता वेदितब्बा ‘‘कुसला कुसलमूला’’ति वत्वा ‘‘कुसलमूला कुसला’’ति च वुत्तत्ता. सेसयमकेसुपि एसेव नयो. विसेसवन्तविसेस, विसेसविसेसवन्तग्गहणतो वा इध अनुलोमपटिलोमता वेदितब्बा. पठमपुच्छायञ्हि ये धम्मा विसेसवन्तो, ते निच्छयाधिट्ठाने कत्वा दस्सेन्तो ‘‘ये केचि कुसला धम्मा’’ति वत्वा तेसु यस्मिं विसेसो संसयाधिट्ठानो, तंदस्सनत्थं ‘‘सब्बे ते कुसलमूला’’ति पुच्छा कता. दुतियपुच्छायं पन तप्पटिलोमतो येन विसेसेन ते विसेसवन्तो, तं विसेसं सन्निट्ठानं कत्वा दस्सेन्तो ‘‘ये वा पन कुसलमूला’’ति वत्वा ते विसेसवन्ते संसयाधिट्ठानभूते दस्सेतुं ‘‘सब्बे ते धम्मा कुसला’’ति पुच्छा कता. अनियतवत्थुका हि सन्निट्ठानसंसया अनेकज्झासयत्ता सत्तानं.
इमिनापि ब्यञ्जनेनाति ‘‘ये केचि कुसलमूलेन एकमूला’’ति इमिनापि वाक्येन. एवं न सक्का वत्तुन्ति येनाधिप्पायेन वुत्तं, तमेवाधिप्पायं विवरति ‘‘न ही’’तिआदिना. तत्थ तेनेवाति कुसलब्यञ्जनत्थस्स कुसलमूलेन एकमूलब्यञ्जनत्थस्स भिन्नत्ता एव. विस्सज्जनन्ति विभजनं. इतरथाति कुसलमूलेन एकमूलब्यञ्जनेन पुच्छाय कताय. तानि वचनानीति कुसलवचनं कुसलमूलेन एकमूलवचनञ्च. कुसलचित्तसमुट्ठानरूपवसेन चस्स अब्याकतदीपनता दट्ठब्बा. एत्थाति ‘‘इमिनापि ब्यञ्जनेन तस्सेवत्थस्स सम्भवतो’’ति एतस्मिं वचने. ये केचि कुसला…पे… सम्भवतोति एतेन कुसलानं कुसलमूलेन एकमूलताय ब्यभिचाराभावं दस्सेति. तेनेवाह ‘‘न हि…पे… सन्ती’’ति. वुत्तब्यञ्जनत्थस्सेव सम्भवतोति हि इमिना अवुत्तब्यञ्जनत्थस्स सम्भवाभाववचनेन स्वायमधिप्पायमत्थो विभावितो. यथा हि कुसलमूलेन एकमूलब्यञ्जनत्थो कुसलब्यञ्जनत्थं ब्यभिचरति, न एवं तं कुसलब्यञ्जनत्थो. कथं कत्वा चोदना, कथञ्च कत्वा परिहारो? कुसलमूलेन एकमूला कुसला एवाति चोदना कता, कुसलमूलेन एकमूला एव कुसलाति पन परिहारो पवत्तोति वेदितब्बं. दुतिययमके विय अपुच्छित्वाति ‘‘ये केचि कुसला’’ति अपुच्छित्वा. कुसलमूलेहीति कुसलेहि मूलेहि. तेति कुसलमूलेन एकमूला.
एकतो उप्पज्जन्तीति एत्थ इति-सद्दो आदिअत्थो पकारत्थो वा. तेन ‘‘कुसलमूलानि एकमूलानि चेव अञ्ञमञ्ञमूलानि चा’’तिआदिपाळिसेसं दस्सेति. यं सन्धाय ‘‘हेट्ठा वुत्तनयेनेव विस्सज्जनं कातब्बं भवेय्या’’ति वुत्तं. तत्थ हेट्ठाति अनुलोमपुच्छाविस्सज्जने. वुत्तनयेनाति ‘‘मूलानि यानि एकतो उप्पज्जन्ती’’तिआदिना वुत्तनयेन. तम्पीति ‘‘कुसलमूलेना’’तिआदि अट्ठकथावचनम्पि. तथाति तेन पकारेन, अनुलोमपुच्छायं विय विस्सज्जनं कातब्बं भवेय्याति इमिना पकारेनाति अत्थो. येन कारणेन ‘‘न सक्का वत्तु’’न्ति वुत्तं, तं कारणं दस्सेतुं ‘‘ये वा पना’’तिआदिमाह. तत्थ ‘‘आमन्ता’’इच्चेव विस्सज्जनेन भवितब्बन्ति ‘‘सब्बे ते धम्मा कुसला’’ति पुच्छायं विय ‘‘सब्बे ते धम्मा कुसलमूलेन एकमूला’’ति पुच्छितेपि पटिवचनविस्सज्जनमेव लब्भति, न अनुलोमपुच्छायं विय सरूपदस्सनविस्सज्जनं विभजित्वा दस्सेतब्बस्स अभावतो. ये हि धम्मा कुसलमूलेन एकमूला, न ते धम्मा कुसलमूलेन अञ्ञमञ्ञमूलाव. ये पन कुसलमूलेन अञ्ञमञ्ञमूला, ते कुसलमूलेन एकमूलाव. तेनाह ‘‘न हि…पे… विभागो कातब्बो भवेय्या’’ति.
तत्थ येनाति येन अञ्ञमञ्ञमूलेसु एकमूलस्स अभावेन. यत्थाति यस्मिं ञाणसम्पयुत्तचित्तुप्पादे. अञ्ञमञ्ञमूलकत्ता एकमूलकत्ता चाति अधिप्पायो. द्विन्नं द्विन्नञ्हि एकेकेन अञ्ञमञ्ञमूलकत्ते वुत्ते तेसं एकेकेन एकमूलकत्तम्पि वुत्तमेव होति समानत्थो एकसद्दोति कत्वा. तेनेवाह ‘‘यत्थ पन…पे… न एकमूलानी’’ति. तयिदं मिच्छा, द्वीसुपि एकेकेन इतरस्स एकमूलकत्तं सम्भवति एवाति. तेनाह ‘‘एतस्स गहणस्स निवारणत्थ’’न्तिआदि. ‘‘ये धम्मा कुसलमूलेन अञ्ञमञ्ञमूला, ते कुसलमूलेन एकमूला’’ति इममत्थं विभावेन्तेन इध ‘‘आमन्ता’’ति पदेन यत्थ द्वे मूलानि उप्पज्जन्ति, तत्थ एकेकेन इतरस्स एकमूलकत्तं पकासितमेवाति आह ‘‘आमन्ताति इमिनाव विस्सज्जनेन तंगहणनिवारणतो’’ति. निच्छितत्ताति एत्थ एकतो उप्पज्जमानानं तिण्णन्नं ताव मूलानं निच्छितं होतु अञ्ञमञ्ञेकमूलकत्तं, द्विन्नं पन कथन्ति आह ‘‘अञ्ञमञ्ञमूलानं ही’’तिआदि. समानमूलता एवाति अवधारणेन निवत्तितत्थं दस्सेतुं ‘‘न अञ्ञमञ्ञसमानमूलता’’ति वुत्तं. तेन अञ्ञमञ्ञमूलानं समानमूलतामत्तवचनिच्छाय एकमूलग्गहणं, न तेसं अञ्ञमञ्ञपच्चयताविसिट्ठसमानमूलतादस्सनत्थन्ति इममत्थं दस्सेति. द्विन्नं मूलानन्ति द्विन्नं एकमूलानं एकतो उप्पज्जमानानं. यथा तेसं समानमूलता, तं दस्सेतुं ‘‘तेसु ही’’तिआदि वुत्तं. तंमूलेहि अञ्ञेहीति इतरमूलेहि मूलद्वयतो अञ्ञेहि सहजातधम्मेहि.
इदानि येन अधिप्पायेन पटिलोमे ‘‘कुसला’’इच्चेव पुच्छा कता, न ‘‘कुसलमूलेन एकमूला’’ति, तं दस्सेतुं ‘‘अञ्ञमञ्ञमूलत्ते पन…पे… कताति दट्ठब्ब’’न्ति आह. न हि कुसलमूलेन अञ्ञमञ्ञमूलेसु किञ्चि एकमूलं न होतीति वुत्तोवायमत्थो. मूलयुत्ततमेव वदति, न मूलेहि अयुत्तन्ति अधिप्पायो. अञ्ञथा पुब्बेनापरं विरुज्झेय्य. तेनेवाति मूलयुत्तताय एव वुच्चमानत्ता. उभयत्थापीति अञ्ञमञ्ञमूला एकमूलाति द्वीसुपि पदेसु. ‘‘कुसलमूलेना’’ति वुत्तं, कुसलमूलेन सम्पयुत्तेनाति हि अत्थो. यदि उभयम्पि वचनं मूलयुत्ततमेव वदति, अथ कस्मा अनुलोमपुच्छायमेव एकमूलग्गहणं कतं, न पटिलोमपुच्छायन्ति उभयत्थापि तं गहेतब्बं न वा गहेतब्बं. एवञ्हि मूलेकमूलयमकदेसनाहि अयं अञ्ञमञ्ञयमकदेसना समानरसा सियाति चोदनं मनसि कत्वा आह ‘‘तत्था’’तिआदि.
तत्थ तत्थाति तस्मिं अञ्ञमञ्ञयमके. यदिपि एकमूला अञ्ञमञ्ञमूलाति इदं पदद्वयं वुत्तनयेन मूलयुत्ततमेव वदति, तथापि सामञ्ञविसेसलक्खणे अत्थेव भेदोति दस्सेतुं ‘‘मूलयोगसामञ्ञे’’तिआदि वुत्तं. समूलकानं समानमूलता एकमूलत्तन्ति एकमूलवचनं तेसु अविसेसतो मूलसब्भावमत्तं वदति, न अञ्ञमञ्ञमूलसद्दो विय मूलेसु लब्भमानं विसेसं, न च सामञ्ञे निच्छयो विसेसे संसयं विधमतीति इममत्थमाह ‘‘मूलयोगसामञ्ञे…पे… पवत्ता’’ति इमिना. विसेसे पन निच्छयो सामञ्ञे संसयं विधमन्तो एव पवत्ततीति आह ‘‘मूलयोगविसेसे पन…पे… निच्छितमेव होती’’ति. तस्माति वुत्तस्सेव तस्स हेतुभावेन परामसनं, विसेसनिच्छयेनेव अविनाभावतो, सामञ्ञस्स निच्छितत्ता तत्थ वा संसयाभावतोति अत्थो. तेनाह ‘‘एकमूलाति पुच्छं अकत्वा’’ति. कुसलभावदीपकं न होतीति कुसलभावस्सेव दीपकं न होति तदञ्ञजातिकस्सपि दीपनतो. तेनाह ‘‘कुसलभावे संसयसब्भावा’’ति. अञ्ञमञ्ञमूलवचनन्ति केवलं अञ्ञमञ्ञमूलवचनन्ति अधिप्पायो. कुसलाधिकारस्स अनुवत्तमानत्ताति इमिना ‘‘सब्बे ते धम्मा कुसला’’ति कुसलग्गहणे कारणमाह. एकमूलग्गहणे हि पयोजनाभावो दस्सितो, कुसलस्स वसेन चायं देसनाति.
५३-६१. मूलनये वुत्ते एव अत्थेति मूलनये वुत्ते एव कुसलादिधम्मे. कुसलादयो हि सभावधम्मा इध पाळिअत्थताय अत्थोति वुत्तो. कुसलमूलभावेन, मूलस्स विसेसनेन, मूलयोगदीपनेन च पकासेतुं. कुसलमूलभूता मूला कुसलमूलमूलाति समासयोजना. मूलवचनञ्हि निवत्तेतब्बगहेतब्बसाधारणं. अकुसलाब्याकतापि मूलधम्मा अत्थीति कुसलमूलभावेन मूलधम्मा विसेसिता. मूलग्गहणेन च मूलवन्तानं मूलयोगो दीपितो होति. समानेन मूलेन, मूलस्स विसेसनेन, मूलयोगदीपनेन च पकासेतुं ‘‘एकमूलमूला’’ति, अञ्ञमञ्ञस्स मूलेन मूलभावेन, मूलस्स विसेसनेन, मूलयोगदीपनेन च पकासेतुं ‘‘अञ्ञमञ्ञमूलमूला’’ति मूलमूलनयो वुत्तोति योजना. तीसुपि यमकेसु यथावुत्तविसेसनमेवेत्थ परियायन्तरं दट्ठब्बं.
मूलयोगं दीपेतुन्ति मूलयोगमेव पधानं सातिसयञ्च कत्वा दीपेतुन्ति अधिप्पायो. यथा हि कुसलानि मूलानि एतेसन्ति कुसलमूलकानीति बाहिरत्थसमासे मूलयोगो पधानभावेन वुत्तो होति, न एवं ‘‘कुसलसङ्खाता मूला कुसलमूला’’ति केवलं, ‘‘कुसलमूलमूला’’ति सविसेसनं वा वुत्ते उत्तरपदत्थप्पधानसमासे. तेनाह ‘‘अञ्ञपदत्थ…पे… दीपेतु’’न्ति. वुत्तप्पकारोवाति ‘‘कुसलमूलभावेन मूलस्स विसेसनेना’’तिआदिना मूलमूलनये च, ‘‘अञ्ञपदत्थसमासन्तेन क-कारेना’’तिआदिना मूलकनये च वुत्तप्पकारो एव. वचनपरियायो मूलमूलकनये एकज्झं कत्वा योजेतब्बो.
७४-८५. न एकमूलभावं लभमानेहीति अब्याकतमूलेन न एकमूलकं तथावत्तब्बतं लभमानेहि अट्ठारसअहेतुकचित्तुप्पादाहेतुकसमुट्ठानरूपनिब्बानेहि एकतो अलब्भमानत्ता. यथा हि यथावुत्तचित्तुप्पादादयो हेतुपच्चयविरहिता अहेतुकवोहारं लभन्ति, न एवं सहेतुकसमुट्ठानं रूपं. तेनाह ‘‘अहेतुकवोहाररहितं कत्वा’’ति. एत्थ च ‘‘सब्बं रूपं न हेतुकमेव, अहेतुकमेवा’’ति वुत्तत्ता किञ्चापि सहेतुकसमुट्ठानम्पि रूपं अहेतुकं, ‘‘अब्याकतो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो, विपाकाब्याकता किरियाब्याकता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४०३) पन वचनतो हेतुपच्चययोगेन सहेतुकसमुट्ठानस्स रूपस्स अहेतुकवोहाराभावो वुत्तो. केचि पन ‘‘अब्बोहारिकं कत्वाति सहेतुकवोहारेन अब्बोहारिकं कत्वाति अत्थं वत्वा अञ्ञथा ‘अहेतुकं अब्याकतं अब्याकतमूलेन एकमूल’न्ति न सक्का वत्तु’’न्ति वदन्ति. तत्थ यं वत्तब्बं, तं वुत्तमेव अहेतुकवोहाराभावेन सहेतुकतापरियायस्स अत्थसिद्धत्ता. अपिच हेतुपच्चयसब्भावतो तस्स सहेतुकतापरियायो लब्भतेव. तेनाह ‘‘न वा सहेतुकदुके विय…पे… अब्बोहारिकं कत’’न्ति. एत्थ एत्थाति एतस्मिं एकमूलकदुके. हेतुपच्चययोगायोगवसेनाति हेतुपच्चयेन योगायोगवसेन, हेतुपच्चयस्स सब्भावासब्भाववसेनाति अत्थो. सहेतुकवोहारमेव लभति पच्चयभूतहेतुसब्भावतो.
अपरे पन भणन्ति ‘‘सहेतुकचित्तसमुट्ठानं रूपं अहेतुकं अब्याकतन्ति इमिना वचनेन सङ्गहं गच्छन्तम्पि समूलकत्ता ‘अब्याकतमूलेन न एकमूल’न्ति न सक्का वत्तुं, सतिपि समूलकत्ते निप्परियायेन सहेतुकं न होतीति ‘अब्याकतमूलेन एकमूल’न्ति च न सक्का वत्तुं, तस्मा ‘अहेतुकं अब्याकतं अब्याकतमूलेन न एकमूलं, सहेतुकं अब्याकतं अब्याकतमूलेन एकमूल’न्ति द्वीसुपि पदेसु अनवरोधतो अब्बोहारिकं कत्वाति वुत्त’’न्ति, तं तेसं मतिमत्तं ‘‘सहेतुकअब्याकतसमुट्ठानं रूपं अब्याकतमूलेन एकमूलं होती’’ति अट्ठकथायं तस्स एकमूलभावस्स निच्छितत्ता, तस्मा वुत्तनयेनेव चेत्थ अत्थो वेदितब्बो.
८६-९७. कुसलाकुसलाब्याकतरासितो नमननामनसङ्खातेन विसेसेन अरूपधम्मानं गहणं निद्धारणं नाम होतीति आह ‘‘नामानं निद्धारितत्ता’’ति. तेन तेसं अधिकभावमाह विञ्ञायमानमेव पकरणेन अपरिच्छिन्नत्ता. यदि एवं ‘‘अहेतुकं नामं सहेतुकं नाम’’न्ति पाठन्तरे कस्मा नामग्गहणं कतन्ति आह ‘‘सुपाकटभावत्थ’’न्ति, परिब्यत्तं कत्वा वुत्ते किं वत्तब्बन्ति अधिप्पायो.
निद्देसवारवण्णना निट्ठिता.
मूलयमकवण्णना निट्ठिता.