३. तिकनिद्देसवण्णना
९१. सेससंवरभेदेनाति कायिकवाचसिकवीतिक्कमतो सेसेन संवरविनासेन. सो पन द्वारवसेन वुच्चमानो मनोद्वारिको होतीति आह ‘‘मनोसंवरभेदेना’’ति. इदानि तं पकारभेदेन दस्सेन्तो ‘‘सतिसंवरादिभेदेन वा’’ति आह, मुट्ठसच्चादिप्पवत्तियाति अत्थो. यं किञ्चि सभावभूतं चरितम्पि ‘‘सील’’न्ति वुच्चतीति अकुसलस्सपि सीलपरियायो वुत्तो.
९४. समानविसयानन्ति पठमफलादिको समानो एवरूपो विसयो एतेसन्ति समानविसया, तेसं.
१०७. तदत्थो तप्पयोजनो लोकुत्तरसाधकोति अत्थो. तस्स परमत्थसासनस्स. मूलेकदेसत्ताति मूलभावेन एकदेसत्ता.
११८. उन्नळो उग्गततुच्छमानो.
१२३. सीलस्स अनुग्गण्हनं अपरिसुद्धियं सोधनं अपारिपूरियं पूरणञ्चाति आह ‘‘सोधेतब्बे च वड्ढेतब्बे चा’’ति. अधिसीलं निस्सायाति अधिसीलं निस्सयं कत्वा उप्पन्नपञ्ञाय.
१२४. गूथसदिसत्तमेव दस्सेति, न गूथकूपसदिसत्तन्ति अधिप्पायो. गूथवसेनेव हि कूपस्सपि जिगुच्छनीयताति. अयञ्च अत्थो गूथरासियेव गूथकूपोति इमस्मिं पक्खे नवत्तब्बो सिया.
१३०. सरभङ्गसत्थारादयो रूपभवादिकामादिपरिञ्ञं कत्वा पञ्ञपेन्तो लोकियं परिञ्ञं सम्मदेव पञ्ञपेन्तीति आह ‘‘येभुय्येन न सक्कोन्ती’’ति. असमत्थभावं वा सन्धाय नो च पञ्ञापेतुं सक्कोन्तीति वुत्तन्ति योजना.
तिकनिद्देसवण्णना निट्ठिता.