१. मातिकावण्णना

१. ‘‘धातुकथं देसयित्वा अनन्तरं तस्स आह पुग्गलपञ्ञत्ति’’न्ति वुत्ते तत्थ कारणं समुदागमतो पट्ठाय विभावेन्तो ‘‘धम्मसङ्गहे’’तिआदिमाह. तत्थ यदिपि धम्मसङ्गहे फस्सादीनं पथवीआदीनञ्च धम्मानं नानानयविचित्तो अनुपदविभागोपि कतो, न सङ्गहो एव, सो पन तेसं कुसलत्तिकादिहेतुदुकादितिकदुकेहि सङ्गहसन्दस्सनत्थोति वुत्तं ‘‘धम्मसङ्गहे तिकदुकादिवसेन सङ्गहितानं धम्मान’’न्ति. तेनेव हि तं पकरणं ‘‘धम्मसङ्गहो’’ति समञ्ञं लभि. कामञ्च धम्मसङ्गहेपि ‘‘तस्मिं खो पन समये चत्तारो खन्धा होन्ती’’तिआदिना (ध. स. ५८) खन्धादिविभागो दस्सितो, सो पन न तथा सातिसयो, यथा विभङ्गपकरणेति सातिसयं तं गहेत्वा आह ‘‘विभङ्गे खन्धादिविभागं दस्सेत्वा’’ति, यतो तं ‘‘विभङ्गो’’त्वेव पञ्ञायित्थ. धातुकथायाति आधारे भुम्मं, तथा ‘‘धम्मसङ्गहे विभङ्गे’’ति एत्थापि. आधारो हि सङ्गहणविभजनप्पभेदवचनसङ्खातानं अवयवकिरियानं तंसमुदायभूतानि पकरणानि यथा ‘‘रुक्खे साखा’’ति. करणवचनं वा एतं, धातुकथाय करणभूतायाति अत्थो.

एत्थ च अभिञ्ञेय्यधम्मे देसेन्तो देसनाकुसलो भगवा तिकदुकवसेन ताव नेसं सङ्गहं दस्सेन्तो धम्मसङ्गणिं देसेत्वा सङ्गहपुब्बकत्ता विभागस्स तदनन्तरं खन्धादिवसेन विभागं दस्सेन्तो विभङ्गं देसेसि. पुन यथावुत्तविभागसङ्गहयुत्ते धम्मे सङ्गहासङ्गहादिनयप्पभेदतो दस्सेन्तो धातुकथं देसेसि तस्सा अब्भन्तरबाहिरमातिकासरीरकत्ता. न हि सक्का खन्धादिके कुसलादिके च विना सङ्गहासङ्गहादिनयं नेतुन्ति. तेनाह ‘‘तथासङ्गहितविभत्तान’’न्ति. एवं सङ्गहतो विभागतो पभेदतो च धम्मानं देसना यस्सा पञ्ञत्तिया वसेन होति, यो चायं यथावुत्तधम्मुपादानो पुग्गलवोहारो, तस्स च समयविमुत्तादिवसेन विभागो, तं सब्बं विभावेतुं पुग्गलपञ्ञत्ति देसिताति इदमेतेसं चतुन्नं पकरणानं देसनानुक्कमकारणं दट्ठब्बं.

तेसन्ति धम्मानं. सभावतोति ‘‘फस्सो वेदना’’तिआदिसभावतो. उपादायाति ‘‘पुग्गलो सत्तो पोसो’’तिआदिना खन्धे उपादाय. पञ्ञापनं याय तज्जाउपादादिभेदाय पञ्ञत्तिया होति, तं पञ्ञत्तिं. पभेदतोति खन्धादिसमयविमुत्तादिविभागतो. याय पञ्ञत्तिया सभावतो उपादाय च पञ्ञापनन्ति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘तत्थ ये धम्मे’’तिआदिमाह. तत्थ असभावपञ्ञत्तियापि मूलभूतं उपादानं सभावधम्मो एव, केवलं पन तेसं पवत्तिआकारभेदसन्निस्सयतो विसेसोति दस्सेन्तो ‘‘ये धम्मे…पे… होती’’ति आह. तत्थ पुब्बापरियभावेन पवत्तमानेति इमिना पबन्धसन्निस्सयतं दस्सेन्तो सन्तानपञ्ञत्तिं वदति, असभावसमूहवसेनाति इमिना सेसपञ्ञत्तिं. तिस्सो हि पञ्ञत्तियो सन्तानपञ्ञत्ति समूहपञ्ञत्ति अवत्थाविसेसपञ्ञत्तीति. तत्थ पबन्धो सन्तानो. समुदायो समूहो. उप्पादादिको दहरभावादिको च अवत्थाविसेसो. तेसु असभावग्गहणेन विना पबन्धसमूहानं असभावत्ते सिद्धे असभावसमूहवसेनाति असभावग्गहणं पबन्धसमूहविनिमुत्तपञ्ञत्तिसन्दस्सनत्थन्ति तेन अवत्थाविसेसपञ्ञत्तिया परिग्गहो वुत्तोति वेदितब्बो.

तेसन्ति पुब्बे यं-सद्देन परामट्ठानं इन्द्रियबद्धधम्मानं. तेनेवाह ‘‘अञ्ञेसञ्च बाहिररूपनिब्बानान’’न्ति. ससभावसमूहससभावप्पभेदवसेनाति रूपक्खन्धादिससभावसमूहवसेन चक्खायतनादिससभावविसेसवसेन च. ‘‘ससभावसमूहसभावभेदवसेना’’ति च पाठो. तत्थ समूहसभावोति सभावसन्तानं अवत्थाविसेसविधुरं समूहवसेन लक्खणमेवाह. तथा हि खन्धपञ्ञत्तियापि सभावपञ्ञत्तिता वुत्ता. तायाति आयतनपञ्ञत्तिआदिप्पभेदाय सभावपञ्ञत्तिया. विभत्ता सभावपञ्ञत्तीति ‘‘फस्सो फुसना’’तिआदिना (ध. स. २) विभत्ता फस्सादिसभावपञ्ञत्ति. सब्बापीति पि-सद्देन सभावधम्मेसु सामञ्ञवसेन पवत्तं कुसलादिपञ्ञत्तिं सङ्गण्हाति. रूपादिधम्मानं समूहो सन्तानेन पवत्तमानो अवत्थाविसेससहितो एकत्तग्गहणनिबन्धनो सत्तोति वोहरीयतीति सो सभावधम्मो नाम पन न होतीति आह ‘‘पुग्गलपञ्ञत्ति पन असभावपञ्ञत्ती’’ति. तायाति पुग्गलपञ्ञत्तिया. यस्मा पन धम्मानं पबन्धो समूहो च धम्मसन्निस्सितोति वत्तब्बतं अरहति, तस्मा ‘‘परिञ्ञेय्यादिसभावधम्मे उपादाय पवत्तितो’’ति वुत्तं.

विज्जमानपञ्ञत्ति पन ‘‘सभावपञ्ञत्ती’’ति वुत्ता, अविज्जमानपञ्ञत्ति ‘‘असभावपञ्ञत्ती’’ति वुत्ता. सब्बा पञ्ञत्तियोति उपादायपञ्ञत्तिकिच्चपञ्ञत्तिआदयो सब्बा पञ्ञत्तियो. यदि सब्बा पञ्ञत्तियो इध दस्सिता होन्ति, कथं ‘‘पुग्गलपञ्ञत्ती’’ति नामं जातन्ति आह ‘‘खन्धादिपञ्ञत्तीसू’’तिआदि. अञ्ञत्थाति धम्मसङ्गहादीसु. ये धम्मेति ये खन्धादिधम्मे. पञ्ञत्तिया वत्थुभावेनाति पञ्ञापनस्स अधिट्ठानभावेन. अधिट्ठानञ्हि पञ्ञापेतब्बधम्मा पञ्ञापनस्स. एवञ्च कत्वा खन्धादीहि सद्धिं पुग्गलो गहितो. ये धम्मेति वा ये पञ्ञत्तिधम्मे. पञ्ञापेतुकामोति निक्खिपितुकामो वत्थुभेदतो असङ्करतो ठपेतुकामो. पञ्ञत्तिपरिच्छेदन्ति च वत्थुभेदभिन्नं पञ्ञत्तिभूतं परिच्छेदं. एवमेत्थ अत्थो दट्ठब्बो.

सामञ्ञप्पभेदपञ्ञापनाति सामञ्ञभूतानं विसेसभूतानञ्च अत्थानं पञ्ञापना. तेसन्ति अत्थ-सद्दापेक्खाय पुल्लिङ्गनिद्देसो. तत्थाति पञ्ञापनाय अत्थदस्सनभूतेसु दस्सनादीसु. इदमेवंनामकन्ति इदं रुप्पनादिअत्थजातं इत्थन्नामकं रूपक्खन्धवेदनाक्खन्धादिसमञ्ञं. तंतंकोट्ठासिककरणन्ति रूपवेदनादितंतंअत्थविभागपरियापन्नतापादनं. तथा सञ्ञुप्पादानमेवाति आह ‘‘बोधनमेव निक्खिपना’’ति. बोधनञ्हि बोधनेय्यसन्ताने बोधेतब्बस्स अत्थस्स ठपनन्ति कत्वा ‘‘निक्खिपना’’ति वुत्तं. ‘‘पञ्ञापना’’तिआदिना भावसाधनेन वत्वा साधनन्तरामसनेन अत्थन्तरपरिकप्पासङ्का सियाति तं निवारेतुं ‘‘यो पनायं…पे… वेदितब्बो’’ति आह. तेसं तेसं धम्मानन्ति तंतंपञ्ञापेतब्बधम्मानं. दस्सनभूताय नामपञ्ञत्तिया दिट्ठताय, ठपनभूताय ठपितताय. तंनिमित्ततन्ति तस्स दस्सनस्स ठपनस्स च निमित्तकारणतं. निमित्तञ्हि कत्तुभावेन वोहरीयति यथा ‘‘भिक्खा वासेती’’ति, ‘‘अरियभावकरानि सच्चानि अरियसच्चानी’’ति च.

पाळियं अनागततन्ति विज्जमानतादिविसेसवचनेन सह पाठानारुळ्हतं. विज्जमानस्स सतोति विज्जमानस्स समानस्साति इममत्थं दस्सेन्तो ‘‘विज्जमानभूतस्साति अत्थो’’ति आह. तथाति सच्चिकट्ठपरमत्थवसेन अविज्जमानस्स अनुपलब्भमानस्स. तं पन अनुपलब्भमानतं तथा-सद्देन ब्यतिरेकवसेन दीपितं पाकटतरं कातुं ‘‘यथा कुसलादीनी’’तिआदिमाह. तत्थ विनिवत्तसभावानीति विभत्तसभावानि. उपलद्धीति गहणं. तेनाकारेनाति तेन रूपवेदनादिआकारेन अविज्जमानस्स. अञ्ञेनाकारेनाति ततो रूपवेदनादितो अञ्ञेन तब्बिनिमुत्तेन पञ्ञापेतब्बपञ्ञापनाकारेन विज्जमानस्स. पञ्ञत्तिदुके वुत्तमेव ‘‘अयञ्च वादो सेवत्थिकथाय पटिसिद्धो’’तिआदिना. लोकनिरुत्तिमत्तसिद्धस्साति एत्थ मत्तग्गहणं तस्स पञ्ञत्तिवत्थुस्स न केवलं विज्जमानसभावतानिवत्तनत्थमेव, अथ खो विपरीतग्गाहनिवत्तनत्थम्पीति दस्सेन्तो ‘‘अनभिनिवेसेन चित्तेना’’ति आह. चतुसच्चपञ्चक्खन्धादिविनिमुत्तं सच्चन्तरखन्धन्तरादिकं पञ्चमसच्चादिकं. सचे तं कोचि अत्थीति पटिजानेय्य, अयाथावगहितस्स तं वाचावत्थुमत्तमेवस्साति दस्सेन्तो आह ‘‘साभिनिवेसेन…पे… वुत्त’’न्ति. उद्देसे निद्देसे च सत्तवन्तं पधानभावेन आगमनं सन्धायाह ‘‘सरूपतो तिस्सन्नं आगतत’’न्ति. गुणभावेन पन उद्धंसोतपञ्ञाविमुत्तपासाणलेखादिग्गहणेसु इतरापि तिस्सो पञ्ञत्तियो इमस्मिं पकरणे आगता एव.

यथावुत्तस्स…पे… अविरोधेनाति ‘‘विज्जमानपञ्ञत्ति अविज्जमानपञ्ञत्ती’’ति एवं वुत्तप्पकारस्स अविलोमनेन. आचरियवादाति चेत्थ अत्तनोमतियो वेदितब्बा, अञ्ञत्थ पन अट्ठकथा च. यथा च अविरोधो होति, तं दस्सेन्तो ‘‘तस्मा’’तिआदिमाह. तत्थ अविज्जमानत्ता पञ्ञापेतब्बमत्तत्थेन पञ्ञत्तीति एतेन ‘‘अविज्जमाना पञ्ञत्ति अविज्जमानपञ्ञत्ती’’ति इमं समासविकप्पमाह. अविज्जमानपञ्ञत्तीति एत्थ हि द्वे समासा अविज्जमानस्स, अविज्जमाना वा पञ्ञत्तीति अविज्जमानपञ्ञत्ति. तेसु पुरिमेन नामपञ्ञत्ति वुत्ता, दुतियेन उपादापञ्ञत्तिआदिभेदा इतरापि. ससभावं वेदनादिकं. तज्जपरमत्थनामलाभतोति तज्जस्स तदनुरूपस्स परमत्थस्स अन्वत्थस्स नामस्स लभनतो, अनुभवनादिसभावानं धम्मानं परमत्थिकस्स वेदनादिनामस्स लभनत्ताति अत्थो. एतेन विसेसनिवत्तिअत्थो मत्त-सद्दो, तेन चायं विसेसो निवत्तितोति दस्सेति. परतो लभितब्बन्ति परं उपादाय लद्धब्बं यथा रूपादिके उपादाय सत्तोति निस्सभावसमूहसन्तानादि पञ्ञत्तिवत्थु. एकत्तेनाति अनञ्ञत्तेन. अनुपलब्भसभावता ञाणेन अग्गहेतब्बसभावता, यतो ते नवत्तब्बाति वुच्चन्ति.

ससूकसालिरासिआदिआकारेन संकुचितग्गो वासववासुदेवादीनं विय मोलिविसेसो किरीटं, सो पन मकुटविसेसोपि होतियेवाति आह ‘‘किरीटं मकुट’’न्ति. सब्बसमोरोधोति सब्बासं विज्जमानपञ्ञत्तिआदीनं छन्नं पञ्ञत्तीनं अन्तोकरणं. सङ्खातब्बप्पधानत्ताति इदं लक्खणवचनं. न हि सब्बापि उपनिधापञ्ञत्तिसङ्खावसेन पवत्ता, नापि सब्बा सङ्खातब्बप्पधाना. दुतियं ततियन्तिआदिकं पन उपनिधापञ्ञत्तिया, द्वे तीणीतिआदिकं उपनिक्खित्तपञ्ञत्तिया एकदेसं उपलक्खणवसेन दस्सेन्तो तस्स च सङ्ख्येय्यप्पधानतायाह ‘‘सङ्खातब्बप्पधानत्ता’’ति. पूरणत्थो हि सद्दो तदत्थदीपनमुखेन पूरेतब्बमत्थं दीपेति. सो च सङ्खाविसयो पधानोवाति दुतियादीनं पञ्ञत्तीनं सङ्खातब्बप्पधानता वुत्ता. याव हि दससङ्खा सङ्ख्येय्यप्पधानाति. तथा द्वे तीणीतिआदीनम्पि पञ्ञत्तीनं. सङ्खातब्बो पन अत्थो कोचि विज्जमानो, कोचि अविज्जमानो, कोचि सह विसुञ्च तदुभयं मिस्सोति छपि पञ्ञत्तियो भजतीति.

इतराति उपादासमोधानतज्जासन्ततिपञ्ञत्तियो वुत्तावसेसा उपनिधापञ्ञत्तिउपनिक्खित्तपञ्ञत्तियो च. सत्तरथादिभेदा उपादापञ्ञत्ति, दीघरस्सादिभेदा उपनिधापञ्ञत्ति च अविज्जमानपञ्ञत्ति. हत्थगतादिविसिट्ठा उपनिधापञ्ञत्ति, समोधानपञ्ञत्ति च अविज्जमानेनअविज्जमानपञ्ञत्ति. तथेव ‘‘सुवण्णवण्णो ब्रह्मस्सरो’’तिआदिका विज्जमानगब्भा विज्जमानेनअविज्जमानपञ्ञत्तिं भजन्तीति आह ‘‘यथायोगं तं तं पञ्ञत्ति’’न्ति. तेन वुत्तं ‘‘दुतियं ततियं…पे… भजन्ती’’ति. यञ्हीतिआदि यथावुत्तउपनिधाउपनिक्खित्तपञ्ञत्तीनं अविज्जमानेनअविज्जमानपञ्ञत्तिभावसमत्थनं. तत्थ तञ्च सङ्खानन्ति यं ‘‘पठमं एक’’न्तिआदिकं सङ्खानं, तञ्च सङ्खामुखेन गहेतब्बरूपं. च-सद्देन सङ्ख्येय्यं सङ्गण्हाति. तम्पि हि पञ्ञापेतब्बं पञ्ञत्तीति. तस्सा पन परमत्थतो अभावो वुत्तोयेव. किञ्चि नत्थीति परमत्थतो किञ्चि नत्थि. तथाति इमिना अविज्जमानेनअविज्जमानभावन्ति एतं आकड्ढति. तेनाह ‘‘न हि…पे… विज्जमानो’’ति.

ओकासेति अवीचिपरनिम्मितवसवत्तीपरिच्छिन्ने पदेसे. सो हि कामाधिट्ठानतो ‘‘कामो’’ति वुच्चति. कम्मनिब्बत्तक्खन्धेसूति इमिना उत्तरपदलोपेन कामभवं ‘‘कामो’’ति वदति. भणनं सद्दो चेतना वा, तंसमङ्गिताय तब्बिसिट्ठे पुग्गले भाणकोति पञ्ञत्तीति आह ‘‘विज्जमानेनअविज्जमानपञ्ञत्तिपक्खं भजती’’ति. येभुय्येन रूपायतनग्गहणमुखेन रूपसङ्खातेन सण्ठानं गय्हतीति तस्स तेन अभेदोपचारं कत्वा वुत्तं ‘‘रूपायतनसङ्खातेन सण्ठानेना’’ति. यं अभेदोपचारं भिन्दितुं अजानन्ता निकायन्तरिया रूपायतनं सण्ठानसभावं पटिजानन्ति. ‘‘किसो पुग्गलो, थूलो पुग्गलो, किसो दण्डो, थूलो दण्डो’’तिआदिना पुग्गलादीनं पञ्ञापना तथातथासन्निविट्ठे रूपसङ्खाते किसादिसण्ठानपञ्ञत्ति, न रूपायतनमत्तेति आह ‘‘सण्ठानन्ति वा रूपायतने अग्गहिते’’ति. पच्चत्तधम्मनामवसेनाति ‘‘पथवी फस्सो’’तिआदिना धम्मानं तंतंनामवसेन. किच्चपञ्ञत्तिआदिविभागेन पवत्तो अयम्पि आचरियवादो ‘‘किच्चपञ्ञत्ति एकच्चा भूमिपञ्ञत्ति पच्चत्तपञ्ञत्ति असङ्खतपञ्ञत्ति च विज्जमानपञ्ञत्ति, लिङ्गपञ्ञत्ति एकच्चा पच्चत्तपञ्ञत्ति च अविज्जमानपञ्ञत्ति, एकच्चा किच्चपञ्ञत्ति विज्जमानेनअविज्जमानपञ्ञत्ति, एकच्चा भूमिसण्ठानपञ्ञत्ति विज्जमानेन वा अविज्जमानेन वा अविज्जमानपञ्ञत्ती’’ति दस्सितत्ता ‘‘धम्मकथा इत्थिलिङ्ग’’न्तिआदीनं विज्जमानेनविज्जमानपञ्ञत्तिभावो, अविज्जमानेनअविज्जमानपञ्ञत्तिभावो च दस्सितनयोति आह ‘‘सब्बसङ्गाहकोति दट्ठब्बो’’ति. उपादापञ्ञत्तिआदिभावो चेत्थ किच्चपञ्ञत्तिआदीनं किच्चपञ्ञत्तिआदिभावो च तासं यथारहं विभावेतब्बो.

२. सङ्खेपप्पभेदवसेनाति ‘‘यावता पञ्चक्खन्धा’’ति सब्बेपि खन्धे खन्धभावसामञ्ञेन संखिपनवसेन, ‘‘यावता रूपक्खन्धो’’तिआदिना खन्धानं ततो सामञ्ञतो पकारेहि भिन्दनवसेन च. अयं अत्थोति अयं पञ्ञत्तिसङ्खातो अत्थो. सामञ्ञतो वा हि धम्मानं पञ्ञापनं होति विसेसतो वा. विसेसो चेत्थ अत्तनो सामञ्ञापेक्खाय वेदितब्बो, विसेसापेक्खाय पन सोपि सामञ्ञं सम्पज्जतीति ‘‘कित्तावता खन्धानं खन्धपञ्ञत्ती’’ति पुच्छाय सङ्खेपतो विस्सज्जनवसेन ‘‘यावता पञ्चक्खन्धा’’ति वुत्तन्ति तत्थापि ‘‘खन्धानं खन्धपञ्ञत्ती’’ति आनेत्वा योजेतब्बन्ति आह ‘‘यावता…पे… पञ्ञत्ती’’ति. ‘‘यावता पञ्चक्खन्धा, एत्तावता खन्धानं खन्धपञ्ञत्ति. यावता रूपक्खन्धो…पे… विञ्ञाणक्खन्धो, एत्तावता खन्धानं खन्धपञ्ञत्ती’’ति एवमेत्थ पाळियोजना कातब्बा. एवञ्हि सङ्खेपतो पभेदतो च खन्धपञ्ञत्ति विस्सज्जिता होति. तथा हि इमस्सेव अत्थस्स अट्ठकथायं वुत्तभावं दस्सेन्तो ‘‘यत्तकेन…पे… आदिकेना’’ति आह. तत्थाति तस्मिं विस्सज्जनस्स अत्थवचने, तस्मिं वा विस्सज्जनपाठे तदत्थवचने च. पभेदनिदस्सनमत्तन्ति पभेदस्स उदाहरणमत्तं. अवुत्तोपि सब्बो भूतुपादिको, सुखादिको च पभेदो. तं पन भूमिमुखेन दस्सेतुं ‘‘रूपक्खन्धो कामावचरो’’तिआदि वुत्तन्ति दट्ठब्बं.

एवं अट्ठकथायं आगतनयेन पाळिया अत्थयोजनं दस्सेत्वा इदानि तं पकारन्तरेन दस्सेतुं ‘‘अयं वा’’तिआदि वुत्तं. तत्थ अयं वाति वुच्चमानं सन्धायाह. एत्थाति एतस्मिं खन्धपञ्ञत्तिविस्सज्जने. इदन्ति इदं पदं. यत्तको…पे… खन्धपञ्ञत्तिया पभेदोति इमिना सङ्खेपतो वित्थारतो च खन्धानं पभेदं पति पञ्ञत्तिविभागोति दस्सितं होति. तेनाह ‘‘वत्थुभेदेन…पे… दस्सेती’’ति. पकरणन्तरेति विभङ्गपकरणे. तत्थ हि सातिसयं खन्धानं विभागपञ्ञत्ति वुत्ता. तेनाह अट्ठकथायं ‘‘सम्मासम्बुद्धेन हि…पे… कथिता’’ति. एत्थ च पठमनये समुखेन, दुतिये वत्थुमुखेन पञ्ञत्तिया विभागा दस्सिताति अयमेतेसं विसेसो.

एस नयोति इमिना खन्धपञ्ञत्तिया वुत्तमत्थं आयतनपञ्ञत्तियादीसु अतिदिसति. तत्थ ‘‘यावता पञ्चक्खन्धा’’ति, ‘‘खन्धानं खन्धपञ्ञत्ती’’ति इदं पञ्ञत्तिनिद्देसपाळिया आदिपरियोसानग्गहणमुखेन दस्सनं. ‘‘यावता द्वादसायतनानी’’ति, ‘‘आयतनानं आयतनपञ्ञत्ती’’ति इमस्स अत्थो ‘‘यत्तकेन पञ्ञापनेन सङ्खेपतो द्वादसायतनानी’’ति एतेन दस्सितो, ‘‘यावता चक्खायतन’’न्तिआदिकस्स पन ‘‘पभेदतो चक्खायतन’’न्तिआदिकेनाति. तत्थ ‘‘चक्खायतनं…पे… धम्मायतन’’न्ति पभेदनिदस्सनमत्तमेतं. एतेन अवुत्तोपि सब्बो सङ्गहितो होतीति ‘‘तत्रापि दसायतना कामावचरा’’तिआदि वुत्तं. अयं वा एत्थ पाळिया अत्थयोजना – ‘‘यावता’’ति इदं सब्बेहि पदेहि योजेत्वा ‘‘यत्तकानि द्वादसायतनानि…पे… यत्तको द्वादसन्नं आयतनानं, तप्पभेदानञ्च चक्खायतनादीनं पभेदो, तत्तको आयतनानं आयतनपञ्ञत्तिया पभेदो’’ति पकरणन्तरे वुत्तेन वत्थुपभेदेन आयतनपञ्ञत्तिया पभेदं दस्सेतीतिआदिना इतरपञ्ञत्तीसुपि नयो योजेतब्बो.

७. ‘‘छ पञ्ञत्तियो…पे… पुग्गलपञ्ञत्ती’’ति इमं अपेक्खित्वा ‘‘कित्तावता…पे… एत्तावता इन्द्रियानं इन्द्रियपञ्ञत्ती’’ति अयं पाळिपदेसो निद्देसोपि समानो पकरणन्तरे वत्थुभेदेन वुत्तं खन्धादिपञ्ञत्तिप्पभेदं उपादाय उद्देसोयेव होतीति आह ‘‘उद्देसमत्तेनेवाति अत्थो’’ति.

मातिकावण्णना निट्ठिता.