४. लक्खणमातिकावण्णना

४. विसुं योजना कातब्बाति यो तीहि सङ्गहो चतूहि च सम्पयोगो वुत्तो, तं सभागो भावो पयोजेति, यो च तीहि असङ्गहो चतूहि च विप्पयोगो वुत्तो, तं विसभागो भावोति इममत्थं दस्सेन्तो ‘‘सङ्गहो…पे… विञ्ञायती’’ति आह. यस्स सङ्गहो, सो धम्मो खन्धादिको सभागो. यस्स असङ्गहो, सो विसभागो. तथा सम्पयोगेसुपि वेदितब्बं. इदानि यथावुत्तं सभागतं सरूपतो निद्धारेत्वा दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. तत्थ समानभावो सङ्गहे सभागता, एकुप्पादादिको सम्पयोगेति इमिना रुप्पनादिविधुरो असमानसभावो असङ्गहे विसभागता, नानुप्पादादिको विप्पयोगेति अयमत्थो अत्थसिद्धोति न वुत्तोति.