१४. चुद्दसमनयो विप्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना

४५६. धम्मसभावमत्तत्ताति सभावधम्मानं धम्ममत्तत्ता अवत्थाविसेसमत्तत्ता.

समुच्छिज्जति एतेनाति समुच्छेदो. सङ्गहादिविचारपरिनिट्ठानभूतो चुद्दसमनयो. तेनाह ‘‘परियोसाने नये’’ति. विस्सज्जेतब्बधम्मविवित्ता पुच्छा मोघपुच्छा, सा तथाभूतापि विस्सज्जेतब्बधम्माभावस्स ञापिका होतीति आह ‘‘तेसं पुच्छाय मोघत्ता ते न लब्भन्ती’’ति. मोघा पुच्छा एतस्साति मोघपुच्छको. अट्ठमो नयो तत्थ सब्बपुच्छानं मोघत्ता. तेन च सहाति तेन अट्ठमनयेन सद्धिं इमस्मिं ओसाननये अट्ठमनये च ओसाननये च एते धम्मायतनादयो सब्बप्पकारेन न लब्भन्ति. विप्पयोगस्सपि अभावाति तत्थ कारणमाह.

चुद्दसमनयविप्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना निट्ठिता.

धातुकथापकरण-अनुटीका समत्ता.