११. एकादसमनयो सङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना
४०९. तेति सङ्खारक्खन्धधम्मा. सेसेहीति अवसिट्ठेहि वेदनासञ्ञाविञ्ञाणक्खन्धेहि. ‘‘एतेन सह सम्बन्धो’’ति इमिना पदानं सम्बन्धदस्सनमुखेन ‘‘समुदयसच्चेन ये धम्मा सम्पयुत्ता’’ति पाळिया अत्थविवरणं पाकटतरं कत्वा केहिचीतिपदस्सत्थं कातुं ‘‘केहिचीति एतस्स पना’’तिआदिमाह. अत्थं दस्सेतुं आहाति सम्बन्धो. विसेसेत्वाति एत्थ तेसं धम्मानं तण्हावज्जानं सङ्खारक्खन्धधम्मायतनधम्मधातुपरियापन्नताकित्तनं विसेसनं दट्ठब्बं, यतो ते समुदयसच्चेन खन्धादिसङ्गहेन सङ्गहिताति वुत्ता. सयं अत्तना सम्पयुत्तो न होतीति वुत्तं ‘‘अत्तवज्जेही’’ति. तेन वुत्तं ‘‘चित्तं न वत्तब्बं चित्तेन सम्पयुत्तन्तिपि, चित्तेन विप्पयुत्तन्तिपी’’ति. सम्पयोगारहेहीति विसेसनं सुखुमरूपं निब्बानन्ति द्वे सन्धाय कतं, न तण्हादिके.
एकादसमनयसङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना निट्ठिता.