९. नवमनयो सम्पयुत्तेनसम्पयुत्तपदवण्णना

३१९. ‘‘समासपदं इद’’न्ति वत्वा अयं नाम समासोति दस्सेन्तो ‘‘यस्स खन्धादिनो’’तिआदिमाह, यस्स वेदनाक्खन्धादिनोति अत्थो. यं इध सम्पयुत्तं वुत्तन्ति इमस्मिं नवमनये यं धम्मजातं सम्पयुत्तन्ति वुत्तं. रूपक्खन्धादीसु अरणन्तेसु अब्भन्तरबाहिरमातिकाधम्मेसूति निद्धारणे भुम्मं. तञ्हि धम्मजातं अत्तना सम्पयुत्तेन वेदनाक्खन्धादिना सयं सम्पयुत्तन्ति निद्धारितं. अयोगोति असम्पयोगो. वक्खति दसमनये. तत्थ हि ‘‘रूपक्खन्धेन वेदनादयो विप्पयुत्ता, तेहि रूपक्खन्धो विप्पयुत्तो’’ति वत्वा निब्बानं कथन्ति चोदनं सन्धायाह ‘‘निब्बानं पन सुखुमरूपगतिकमेवा’’ति वुत्तं. ‘‘मनायतनं एकेनायतनेन एकाय धातुया केहिचि विप्पयुत्त’’न्ति एत्थ हि यथा सुखुमरूपं विय सरूपतो अनुद्धटम्पि निब्बानं केहिचीतिपदेन गहितमेव होतीति एदिसेसु ठानेसु निब्बानं सुखुमरूपगतिकन्ति विञ्ञायति, एवमिधापि ‘‘रूपमिस्सकेहि वा’’ति एतेन अनुपादिन्नअनुपादानियादीहि निब्बानमिस्सकेहिपि असम्पयोगो वुत्तो होतीति दट्ठब्बो. अविकलचतुक्खन्धसङ्गाहकेहि पदेहि सहवत्तिनो अञ्ञस्स सम्पयोगिनो अभावतो अतीतानागतेहि च सम्पयोगो नत्थेवाति तस्स अयुज्जमानतं दस्सेन्तो ‘‘वत्तमानानमेव…पे… अरूपभवादीहीति अत्थो’’ति आह. इतरेति ये सम्पयोगं लभन्ति, के पन ते रूपेन असम्मिस्सा अरूपेकदेसभूता. तेनाह ‘‘वेदनाक्खन्धादयो’’ति.

नवमनयसम्पयुत्तेनसम्पयुत्तपदवण्णना निट्ठिता.