९. छत्तुपाहनवग्गवण्णना
१२१४. छत्तुपाहनवग्गस्स एकादसमे उपचारं सन्धायाति समन्ता द्वादसहत्थुपचारं सन्धाय. सेसं सब्बत्थ उत्तानमेव.
छत्तुपाहनवग्गवण्णना निट्ठिता.
गिरग्गसमज्जादीनि अचित्तकानि लोकवज्जानीति वुत्तत्ता नच्चन्ति वा वण्णकन्ति वा अजानित्वाव पस्सन्तिया वा नहायन्तिया वा आपत्तिसम्भवतो वत्थुअजाननचित्तेन अचित्तकानि, नच्चन्ति वा वण्णकन्ति वा जानित्वा पस्सन्तिया वा नहायन्तिया वा अकुसलेनेव आपज्जनतो लोकवज्जानीति वेदितब्बानि. चोरीवुट्ठापनादीनि चोरीतिआदिना वत्थुं जानित्वा करणे एव आपत्तिसम्भवतो सचित्तकानि, उपसम्पदादीनं एकन्तअकुसलचित्तेनेव अकत्तब्बत्ता पण्णत्तिवज्जानि. ‘‘इध सचित्तकाचित्तकता पण्णत्तिजाननाजाननताय अग्गहेत्वा वत्थुजाननाजाननताय गहेतब्बा’’ति तीसुपि गण्ठिपदेसु वुत्तं. सेसमेत्थ उत्तानत्थमेव.
भिक्खुनीविभङ्गे खुद्दकवण्णना निट्ठिता.
पाचित्तियकण्डं निट्ठितं.