१. परिमण्डलवग्गवण्णना

सेखियेसु सिक्खितसिक्खेनाति चतूहि मग्गेहि तिस्सो सिक्खा सिक्खित्वा ठितेन, सब्बसो परिनिट्ठितकिच्चेनाति वुत्तं होति. तादिनाति अट्ठहि लोकधम्मेहि अकम्पियट्ठेन तादिना.

५७६. सिक्खा करणीयाति ‘‘एवं निवासेस्सामी’’ति आरामेपि अन्तरघरेपि सब्बत्थ सिक्खा कत्तब्बा. एत्थ च यस्मा वत्तक्खन्धके वुत्तवत्तानिपि सिक्खितब्बत्ता सेखियानेव होन्ति, तस्मा पाराजिकादीसु विय परिच्छेदो न कतो, चारित्तनयदस्सनत्थञ्च ‘‘यो पन भिक्खु ओलम्बेन्तो निवासेय्य, दुक्कट’’न्ति एवं आपत्तिनामेन अवत्वा ‘‘सिक्खा करणीया’’ति एवं सब्बसिक्खापदेसु पाळि आरोपिता. पदभाजने पन ‘‘आपत्ति दुक्कटस्सा’’ति वुत्तत्ता सब्बत्थ अनादरियकरणे दुक्कटं वेदितब्बं. वुत्तन्ति महाअट्ठकथायं वुत्तं. यस्मा अट्ठङ्गुलमत्तं ओतारेत्वा निवत्थमेव निसिन्नस्स चतुरङ्गुलमत्तं होति, तस्मा उभोपेते अट्ठकथावादा एकपरिच्छेदा. ते सब्बेति निवासनदोसा.

तं पनाति तं अनादरियं. किञ्चापि कुरुन्दिवादं पच्छा वदन्तेन ‘‘परिमण्डलं निवासेतुं अजानन्तस्स अनापत्ती’’ति अयमत्थो पतिट्ठापितो, तथापि निवासनवत्तं साधुकं उग्गहेतब्बमेव. सञ्चिच्च अनुग्गण्हन्तस्स अनादरियं सिया. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. परिमण्डलसिक्खापदवण्णना) वुत्तं ‘‘अजानन्तस्साति परिमण्डलं निवासेतुं अजानन्तस्स अनापत्ति, अपिच निवासनवत्तं उग्गहेतब्ब’’न्ति.

सचित्तकन्ति वत्थुविजाननचित्तेन पण्णत्तिविजाननचित्तेन च सचित्तकं ‘‘अनादरियं पटिच्चा’’ति वुत्तत्ता. ‘‘पाणातिपातादि विय निवासनदोसो लोकगरहितो न होतीति पण्णत्तिवज्ज’’न्ति फुस्सदेवत्थेरो आह. उपतिस्सत्थेरो पन ‘‘यस्मा अनादरियवसेनेव आपज्जितब्बत्ता केवलं अकुसलमेव, तञ्च पकतिया वज्जं, सञ्चिच्च वीतिक्कमनञ्च दोमनस्सितस्सेव होति, तस्मा लोकवज्जं अकुसलचित्तं दुक्खवेदन’’न्ति आह. अनादरियं, अनापत्तिकारणाभावो, अपरिमण्डलनिवासनन्ति इमानि पनेत्थ तीणि अङ्गानि. यथा चेत्थ, एवं सब्बत्थ पुरिमानि द्वे तत्थ तत्थ वुत्तपटिपक्खकरणञ्चाति तीणियेव होन्ति.

५७७. दुतियादीसु अनेकप्पकारं गिहिपारुतन्ति सेतपटपारुतं परिब्बाजकपारुतं एकसाटकपारुतन्तिआदि अनेकप्पभेदं गिहिपारुतं. तस्सत्थो खन्धकेयेव आवि भविस्सति. विहारेपीति बुद्धुपट्ठानादिकालं सन्धाय वुत्तं.

५७८. ‘‘सुप्पटिच्छन्नो’’ति वुत्तत्ता ‘‘ससीसं पारुतो सब्बथा सुप्पटिच्छन्नत्ता सुप्पटिच्छन्नो नाम होती’’ति यस्स सिया, तं सन्धायाह ‘‘न ससीसं पारुतेना’’तिआदि.

५८२. एकस्मिं पन ठाने ठत्वाति एत्थ ‘‘गच्छन्तोपि परिस्सयाभावं ओलोकेतुं लभतियेव, तथा गामे पूज’’न्ति तीसुपि गण्ठिपदेसु वुत्तं.

परिमण्डलवग्गवण्णना निट्ठिता.