७. विकालभोजनसिक्खापदवण्णना
२४७. सत्तमे अग्गसमज्जोति उत्तमं नच्चं. तं किर पब्बतमत्थके ठत्वा एकं देवतं उद्दिस्स करोन्ति. नटानं नाटकानि नटनाटकानि, सीताहरणादीनि. अपञ्ञत्ते सिक्खापदेति ऊनवीसतिवस्ससिक्खापदे अपञ्ञत्ते. अदंसूति ‘‘विहारं नेत्वा खादिस्सथा’’ति अदंसु.
२४८-२४९. मूलकमूलादीनि उपदेसतोयेव वेदितब्बानि. न हि तानि परियायन्तरेन वुच्चमानानिपि सक्का विञ्ञातुं. परियायन्तरेपि हि वुच्चमाने तं तं नामं अजानन्तानं सम्मोहोयेव सिया, तस्मा तत्थ न किञ्चि वक्खाम. खादनीयत्थन्ति खादनीयेन कत्तब्बकिच्चं. नेव फरन्तीति न निप्फादेन्ति. तेसु तेसु जनपदेसूति एत्थ ‘‘एकस्मिं जनपदे आहारकिच्चं साधेन्तं सेसजनपदेसुपि न कप्पती’’ति वदन्ति. रुक्खवल्लिआदीनन्ति हेट्ठा वुत्तमेव सम्पिण्डेत्वा वुत्तं. अन्तोपथवीगतोति सालकल्याणीखन्धं सन्धाय वुत्तं. सब्बकप्पियानीति मूलखन्धतचपत्तादिवसेन सब्बसो कप्पियानि. तेसम्पि नामवसेन न सक्का परियन्तं दस्सेतुन्ति सम्बन्धो. अच्छिवादीनं अपरिपक्कानेव फलानि यावजीविकानीति दस्सेतुं ‘‘अपरिपक्कानी’’ति वुत्तं.
हरीतकादीनं अट्ठीनीति एत्थ मिञ्जं पटिच्छादेत्वा ठितकपालानि यावजीविकानीति आचरिया. मिञ्जम्पि यावजीविकन्ति एके. हिङ्गूति हिङ्गुरुक्खतो पग्घरितनिय्यासो. हिङ्गुजतुआदयोपि हिङ्गुविकतियो एव. तत्थ हिङ्गुजतु नाम हिङ्गुरुक्खस्स दण्डपत्तानि पचित्वा कतनिय्यासो, हिङ्गुसिपाटिकं नाम हिङ्गुपत्तानि पचित्वा कतनिय्यासो. ‘‘अञ्ञेन मिस्सेत्वा कतो’’तिपि वदन्ति. तकन्ति अग्गकोटिया निक्खन्तसिलेसो. तकपत्तिन्ति पत्ततो निक्खन्तसिलेसो. तकपण्णिन्ति पलासे भज्जित्वा कतसिलेसो. ‘‘दण्डतो निक्खन्तसिलेसो तिपि वदन्ति. सेसमेत्थ उत्तानमेव. विकालता, यावकालिकता, अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि.
विकालभोजनसिक्खापदवण्णना निट्ठिता.