६. दुतियसहसेय्यसिक्खापदवण्णना

५५. छट्ठे ‘‘पठमसिक्खापदे ‘भिक्खुं ठपेत्वा अवसेसो अनुपसम्पन्नो नामा’ति वुत्तत्ता ‘मातुगामोपि अनुपसम्पन्नग्गहणेन गहितोयेवा’ति चतुत्थदिवसे मातुगामेन सद्धिं सयन्तस्स द्वीहि सिक्खापदेहि द्वे पाचित्तियानि होन्ती’’ति वदन्ति. गण्ठिपदेसु पन तीसुपि ‘‘इमस्मिं सिक्खापदे मातुगामस्स विसुं वुच्चमानत्ता पठमसिक्खापदे ‘भिक्खुं ठपेत्वा अवसेसो अनुपसम्पन्नो नामा’ति पुरिसस्सेव गहणं अनुच्छविक’’न्ति वुत्तं, तदेव च युत्ततरं.

यञ्च इध ‘‘पठमदिवसेपीति पि-सद्देन चतुत्थदिवसेपीति वुत्तं होती’’ति कारणं वदन्ति, तम्पि अकारणं पि-सद्दो सम्पिण्डनत्थोयेवाति नियमाभावतो अवधारणत्थस्स च सम्भवतो. सम्भावने वा पि-सद्दो दट्ठब्बो. तेन इध पठमदिवसेपि ताव आपत्ति, दुतियादिदिवसे किमेव वत्तब्बन्ति इममत्थं दीपेति. सम्पिण्डनत्थेपि पि-सद्दे गय्हमाने इमिनाव सिक्खापदेन आपज्जितब्बापत्तिया अञ्ञस्मिम्पि दिवसे आपज्जनं दीपेति, न पठमसिक्खापदेन आपज्जितब्बापत्तियाति अकारणमेव तन्ति दट्ठब्बं. ‘‘मतित्थी पाराजिकवत्थुभूतापि अनुपादिन्नपक्खे ठितत्ता सहसेय्यापत्तिं न जनेती’’ति वदन्ति. ‘‘अत्थङ्गते सूरिये मातुगामे निपन्ने भिक्खु निपज्जती’’ति वचनतो दिवा सयन्तस्स सहसेय्यापत्ति न होतियेवाति दट्ठब्बं. पाचित्तियवत्थुकसेनासनं, तत्थ मातुगामेन सह निपज्जनं, सूरियत्थङ्गमनन्ति इमानेत्थ तीणि अङ्गानि.

दुतियसहसेय्यसिक्खापदवण्णना निट्ठिता.