४-७. पठमकण्डकीसुत्तादिवण्णना

९०२-९०५. कण्डका एतिस्सा अत्थीति कण्डकी, करमन्दगच्छो. ओसधिभावापेक्खाय इत्थिलिङ्गनिद्देसो, तब्बहुलताय तं वनं ‘‘कण्डकीवन’’न्तेव पञ्ञायित्थ. सहस्सलोकन्ति सहस्सचक्कवाळलोकं. दसचक्कवाळसहस्सं एकावज्जनस्स आपाथं आगच्छति तथा आलोकवड्ढनस्स कतत्ता.